संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| पञ्चदशः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - पञ्चदशः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत पञ्चदशः पटलः । Translation - भाषांतर ईश्वर उवाच ।स्त्रीस्वरूपं पुंस्वरूपं गवाक्षयोगवर्णनम् ।सिद्धेश्वर्यादिविज्ञानं वीरपत्न्यादिलक्षणम् ॥१॥चातुर्वर्ण्यकुले देवि चतुर्णां चाभिचारतः ।भिन्नतीर्थप्रकथनं तद्वेश्यातीर्थनिर्णयम् ॥२॥पञ्चाशत्पीठदेवीनां वेश्यात्वाद्व्यभिचारतः ।तीर्थानि सर्वसिद्धानि सद्यः सिद्धिकराणि च ॥३॥कथ्यते देवदेवेशि सावधानमना भव ।सुन्दरीं तरुणीं रम्यां चार्वङ्गीं चारुहासिनीम् ॥४॥गुरुभक्तां जपासक्तां महाकामकुतूहलाम् ।दर्शनान्मोहिनीं साध्वीं कटाक्षादिप्रमोचनीम् ॥५॥केशरञ्जनसंयुक्तां वस्त्ररञ्जनसंयुताम् ।गर्भ x x कलायुक्तां पुष्पोत्पाटनतत्पराम् ॥६॥नानापाककलायुक्तां लेह्यपेयादिसत्कलाम् ।शय्यासंरञ्जनीं दिव्यां मुखवासादिरञ्जिनीम् ॥७॥गीततालभृदङ्गादिवीणावादनतत्पराम् ।काव्यालापसमस्यादिपल्लवादिसमन्विताम् ॥८॥नानाचित्रकलायुक्तां सौरम्य x x न्विताम् ।x x शातनसंयुक्तां सत्कुचां करुणाकुलाम् ॥९॥x x स्थूलदीर्घकरां नानाभरणभूषिताम् ।x x x x देवेशि ह्यविकारपरायणम् ॥१०॥x x x x x विकारपरिवर्जिताम् ।नायिकाष्टतुल्ययुक्तां क्रोधमात्सर्यवर्जिताम् ॥११॥सर्वदोषविहीना या सा शक्तिः परिकीर्तिता ।पुंस्वरूपं महेशानि कथ्यते श्रृणु साम्प्रतम् ॥१२॥नानाविलासकुशलः सर्वशक्तिसमन्वितः ।तरुणः सुन्दरः शूरश्चिर x x x कारकः ॥१३॥दीर्घ x x दृढाघाती x x x च तत्परः ।कामशास्त्रकलायुक्तो मन्त्रनाड्यौषधान्वितः ॥१४॥स्तम्भज्ञानी x x वृद्धिस्थूलदीर्घक्रियान्वितः ।मकारपञ्चकासक्तो गुरुभक्तो जितेन्द्रियः ॥१५॥सर्वकालं जपासक्तः सर्वतन्त्रार्थतत्त्ववित् ।आकर्षणवशीकारस्तथोच्चाटनतत्परः ॥१६॥ज्ञानविज्ञानसंयुक्तः कामादिदोषवर्जितः ।संगीतवाद्यवीणादि काव्यनाट्यकलाग्रणीः ॥१७॥पल्लवानां तु विज्ञाता कुलभक्तो महोत्तमः ।x x x चालोच्य विकारादिविवर्जितः ॥१८॥स्त्रीस्वरूपस्य विज्ञानी देहज्ञानी तथापरः ।शापानुग्रहणे दक्षः सर्वभूतदयापरः ॥१९॥सर्वचक्रस्य विज्ञानी दिव्याम्बरविभूषितः ।दिव्याभरणसंयुक्तः सर्वसौगन्धसंयुतः ॥२०॥सर्वदा धूपगेहस्थस्त्रैकाल्यज्ञानवित्परः ।स्त्रीरूपज्ञानसम्पन्नः सर्वदा तत्स्वरूपवान् ॥२१॥समस्याकोशविज्ञानी गेहरञ्जनसंयुतः ।ईद्दग्विधो महेशानि साधनार्हो न चाsन्यथा ॥२२॥तत्रापि कालिकाभक्तः कलौ दुर्लभ एव च ।एवं गुणान्समालोच्य सस्मितास्यो महेश्वरि ॥२३॥साधनां कारयेद्देवि नान्यथा शाङ्करं वचः ।त्रिधा त्रिशक्तिसंजापी गवाक्षे योगमभ्यसेत् ॥२४॥देवालये नदीतीरे रम्ये वा यत्र कुत्रचित् ।धूपामोदगृहं गत्वा भूतशुद्ध्यादिसंयुतः ॥२५॥ऋषिच्छन्दादिषोढान्तं कुल्लुकान्तं महेश्वरि ।कृत्वा ध्यात्वा महेशानि गवाक्षे दृष्टियोजनम् ॥२६॥अङ्गुष्ठादिशिखान्तं हि समालोच्य जपं चरेत् ।भ्रामरं सूर्याबिम्बं च त्रिवेणीपुष्करं तथा ॥२७॥तिलपुष्पं खङ्जरीटं चम्पकं कामरूपकम् ।अमृतं पुष्पितं देवि सङ्गितं वाद्यमेव च ॥२८॥समालोच्य जपेद्देवि कामगेहे विशेषतः ।एकद्वित्र्यादिलक्षान्तं समालोच्य जपं चरेत् ॥२९॥तत्रेष्टपुष्पिनीं दृष्ट्वा कृत्वा संयोगमादरात् ।गवाक्षयोगसामर्थ्यात् जपं कुर्यादनन्यधीः ॥३०॥अष्टावधानी देवेशि भवत्येव न संशयः ।अथवाsन्यप्रकारेण साधनान्तरमुच्यते ॥३१॥कुलजां युवतीं वीक्ष्य x x x प्रदापयेत् x x x कारयेद्देवि गवाक्षमभ्यसेत्तथा ॥३२॥x x x विलिहन् देवि स्वरसं च ततः परम् ।एवं मासाष्टकं कुर्यात्सिद्धिदाता न चान्यथा ॥३३॥दशावधानी देवेशि भवत्येव न चाsन्यथा ।वीरपत्नीं समानीय शवशय्यां समाचरेत् ॥३४॥वीरसाधनवत्कृत्वा शवमासाद्य यत्नतः ।x x x x x स्थाप्य सप्त x x x योगतः ॥३५॥गवाक्षयोगमासाद्य तत्रैव परमेश्वरि ।वर्षमात्रं जपेद्देवि कालीतुल्यो नरो भवेत् ॥३६॥शतावधानी देवेशि भवत्येव नरोत्तमः ।अथवाsन्यप्रकारेण साधनान्तरमुच्यते ॥३७॥महाशवमध्यभागे भूमावासाद्य यत्नतः ।मृदुचूडकमुण्डानि कोमलं च चतुर्थकम् ॥३८॥क्रमेण दिक्षु संयोज्य तत्र शक्तिं समानयेत् ।आसनं तत्र सन्दत्वा महाव्याघ्रासनं तथा ॥३९॥तस्योपरि समानीय x x x विधाय च ।स्पर्शषट्कासनं कृत्वा जपं कुर्यादनन्यधीः ॥४०॥वर्षमात्रं जपेद्देवि समयादिषु तत्परः ।सहस्राद्यवधानं तु कर्तुं शक्तो नरो भवेत् ॥४१॥कुंकुमं केशरं चापि समानीय प्रयत्नतः ।वामहस्ते तु संस्थाप्य दक्षिणे यन्त्रमालिखेत् ॥४२॥वामेन तर्पणं कुर्यात्सहस्रमयुतञ्च वा ।शक्तेर्मुखं समालोक्य तर्पणं सर्वदां चरेत् ॥४३॥सरसिद्धीश्वरो भूयान्नात्र कार्या विचारणा ।सिद्धेश्वरीलक्षणं च कथ्यते शृणु साम्प्रतम् ॥४४॥यस्या विवाह्यते कन्या स चेद्वीराङ्गना यदि ।सापि x x यदि भवेत्तदा सिद्धेश्वरी मता ॥४५॥केलिकुञ्ची महेशानि व्यभिचारपरायणा ।कुलीनस्य तु या भार्या सपै x x भवेद्यदि ॥४६॥वागीश्वरीति विख्याता महापीठेश्वरी परा ।श्यालिका यदि चे x x x x स्वादनतप्तरा ॥४७॥विशालाक्षिति सा प्रोक्ता सर्वसिद्धिप्रदर्शिका ।श्यालकस्य तु या कन्या सा यदा व्यभिचारिणी ॥४८॥कामाख्येति च विज्ञेया सर्वसिद्धिकरा भुवि ।तत्पत्यास्तु गृहे देवि शत x x वधिर्भवेत् ॥४९॥महाराजेश्वरी ख्याता त्रैलोक्यसिद्धिदायिका ।वीरपत्नी स्वयं वीरा प्रोक्ता श्रीमन्महेश्वरी ॥५०॥तत्सुता कुलविद्यानामाद्या श्रीत्रैपुराम्बरा ।तत्सुता भुवनेशानि शाक्तस्य शाङ्करी कला ॥५१॥दिव्यस्य विमला प्रोक्ता पूर्णस्य कालिका स्मृता ।ऊर्ध्वादि सर्वसाम्राज्यमेधान्तं परमेश्वरि ॥५२॥विद्याराज्ञीं समारभ्य हंसकाल्यन्तगं भवेत् ।विलोमेन महेशानि तद्भार्यानाम कीर्तितम् ॥५३॥गुरुपत्नीति कामेशे तत्सुता बालिका स्मृता ।लोपामुद्रा तत्स्नुषा स्याच्चातुर्वर्ण्यक्रमं श्रृणु ॥५४॥द्विजस्त्री यदि चे x x सा प्रोक्ता कुलसुन्दरी ।त्वरिता सैवा सम्प्रोक्ता व्यभिचारपरायणा ॥५५॥क्षत्रियस्य तु कन्या च स्नुषा x x दियोगतः ।कौलिनी माधवी देवि वाराही कामसुन्दरी ॥५६॥मोहिनीति क्रमेणैव व्यभिचारक्रमेण च ।वैश्यस्त्री यदि चे x x व्यभिचारपरायणा ॥५७॥स्वप्नावती भोगवती नित्या क्लिना च कुक्कुटी ।अघोरा सिद्धचामुण्डा सुतास्नुषाक्रमेण च ॥५८॥शूद्रपत्नीसुता कुञ्ची x x वा व्यभिचारतः ।अश्वारूढा च धनदा कुब्जिका शबरेश्वरी ॥५९॥अनङ्गमाला नीलाख्या क्रमेण परिकीर्त्तिता ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥६०॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे गवाक्षयोगवर्णनं नाम पञ्चदशः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP