संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
षट्पञ्चाशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - षट्पञ्चाशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि सर्वमालाफलानि च ।
श्रीशिव उवाच ।
रहस्यातिरहस्यञ्च कथ्यते तव भक्तितः ॥१॥
कुशग्रन्थ्या जपेद्विप्रः सुवर्णमणिभिर्नृपः ।
पुत्रजीवैर्जपेद्वैश्यः पद्माक्षैः शूद्र एव च ॥२॥
श्वेतपद्माक्षकैर्देवि विष्णुमन्त्रं जपेच्छिवे ।
रुद्राक्षैः सर्वकार्याणि पद्माक्षैः पुष्टिरुत्तमा ॥३॥
कान्तिः श्रीखण्डमणिभिर्मौक्तिकैर्मुक्तिअभाग्मवेत् ।
प्रवालैर्वश्यसिद्धिः स्यात् गुञ्जया मोहनं भवेत् ॥४॥
भद्राक्षैर्भाग्यसम्पत्ती रुद्राक्षै राज्यमुत्तमम् ।
धनधान्यं सुतावाप्तिर्भवेद्धि पुत्रजीवकैः ॥५॥
अरिष्टमाला विद्वेषे बदरी मारणे मता ।
मरीचैर्भीषणे माला पिचुमर्दैर्विनाशने ॥६॥
अकस्मादीप्सिता सिद्धिर्महाशङ्खाख्यमालया ।
दन्ताख्यमालया देवि षष्टिसिद्धीश्वरो भवेत् ॥७॥
रचिता चास्थिमणिभिः सर्वशत्रुविनाशिनी ।
खरदन्तैः शत्रुनाशो गजदन्तैर्गुरुर्भवेत् ॥८॥
कुदन्दनैः समाकर्षो हारिद्रैः स्तभ्भनं भवेत् ।
स्वयम्भूकुसुमैदेवि सर्वविद्येश्वरो भवेत् ॥९॥
चन्दनैः कीर्तिलक्ष्मीः स्यात्तेजः स्यात्कुशमालया ।
तुलस्या मोक्षमाप्नोति लोहैर्मारणमादिशेत् ॥१०॥
ताम्रैः शान्तिर्लोहरौप्यैः सर्वसौख्यफलं लभेत् ।
सौवणै राजलक्ष्मीः स्यात् सर्वास्थिमालया रिपून् ॥११॥
त्रासयेन्नाशयेद्देवि नात्र कार्या विचारणा ।
वाक्सिद्धिः स्फाटिकैर्भूयात् शङ्खाभावेsपि मालिका ॥१२॥
अङ्गुलिपर्वभिः सर्वसिद्धिराज्यं स विन्दति ।
औदुम्बरैर्भूतनाशः प्लक्षैर्द्रारिद्र्यनाशनम् ॥१३॥
वटबीजैर्यक्षिणी स्यात्कपर्दिभिर्महोदयः ।
शिवशक्तिमयी माला रुद्राक्षस्फाटिकैर्युता ॥१४॥
रुद्राक्षस्वर्णसंयुक्ता माला हरिहरात्मिका ।
रुद्राक्षरौप्यसंयुक्ता माला विधिशिवात्मिका ॥१५॥
रुद्राक्षैः शक्तिमन्त्रं तु दिवा यो जपति प्रिये ।
स दुर्गतिमवाप्नोति जपस्तस्य निरर्थकः ॥१६॥
शक्तिस्त्रीमन्त्रजप्येषु रुद्राक्षैर्न दिवा जपेत् ।
पूर्वाम्नाये स्फाटिकजैर्दक्षिणे रुद्रनेत्रजैः ॥१७॥
प्रवालैर्मौक्तिकैर्देवि पश्चिमान्मायदेवताः ।
उत्तराम्नायदेवानां महाशङ्खाख्यमालिका ॥१८॥
मणिभिः पुत्रजीवोत्थैर्न जपेदुत्तरेश्वरीम् ।
कुण्डलीमालिका देवि भैरव्यां परिकीर्तिता ॥१९॥
ऊर्ध्वाम्नाये स्वयम्भूः स्यात् पाताले रत्नसम्भवः ।
तत्रापि कालिकाताराविद्यायां शङ्खसंभवा ॥२०॥
शङ्खमालां विधायाsथ यस्तारां कालिकां जपेत् ।
मन्त्रक्षोभोsथवा भूयाद्विद्यासिद्धिर्न वै भवेत् ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥२१॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे मालानिर्णयो नाम षट्पञ्चाशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP