संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| सप्तषष्टिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - सप्तषष्टिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत सप्तषष्टिः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।मुण्डादिवीरपर्यन्तं संस्कारसाधनं वद ॥१॥श्रीशिव उवाच ।रहस्यातिरहस्यं च न कुत्रापि मयेरितम् ।तव प्रीत्या महेशानि कथ्यते श्रृणु साम्प्रतम् ॥२॥मृद्वासनं भवेदादौ द्वितीयं स्यादचूडकम् ।कोमलं च तृतीयं सान्मुण्डं प्रोक्तं चतुर्थकम् ॥३॥मृतासनं पञ्चमं च षष्ठं वीरासनं मतम् ।महावीरमनं देवि सप्तमं परिकीर्तितम् ॥४॥सप्तानां साधना देवि मालापात्रविशोधने ।यंत्रसंशोधनस्यैव सर्वं संकथितं मया ॥५॥इदानीमासनानां च साधनां श्रृणु पार्वति ।अर्वाक् षण्माअतो गर्भच्युतमाहुर्मृदुर्बुधाः ॥६॥चूडोपनयनैर्हीनं मृतं वाचूडकं विदुः ।निवृत्तचूडको बालो हीनोपनयनः शिवे ॥७॥यो मृतः पञ्चमे वर्षे तमेव कोमलं विदुः ।सामान्यमरणं प्राप्ते प्रोक्तं देवि मृतासनम् ॥८॥वीरक्रमेण संजातं तच्च वीरासनं विदुः ।आवेशशूलपाशादि महावीरासनं युतम् ॥९॥अखण्डाङ्गं शवं देवि सखण्डं मस्तकेन यत् ।तन्मुण्डं यन्त्रमालादिपात्रकर्मणि कीर्तितम् ॥१०॥शवमानीय देवेशि गर्भजं यदि वा शवम् ।सप्तमाष्टममासीनं चूडकं वाप्यकोमलम् ॥११॥स्थानं संशोध्य यत्नेन वीरवेषो मुदान्वितः ।ततः संस्कारमाचर्य संस्थाप्य विमले स्थले ॥१२॥गन्धाष्टकं समादाय प्रोक्षयेत्प्रथमं ततः ।पञ्चामृतैः पञ्चगव्यैः कोणपञ्चसमन्वितैः ॥१३॥मूलेन स्थापयेत्तत्र पीठचक्रे धरण्यधः ।त्रिकोणे बिन्दुमाये च चतुरस्रं त्रिकोणके ॥१४॥त्रिकोणं तस्य बाह्ये तु पद्ममष्टदलं लिखेत् ।षोडशारं च तद्बाह्ये त्रिवृत्ते त्रिगुणान्वितम् ॥१५॥मूलदेवीं च तन्मध्ये मूलेन परिपूजयेत् ।वृत्तं च त्रिगुणं चैव आदिमाद्येन योजयेत् ॥१६॥पद्मां वा कमलां तत्र वर्णादौ सर्वकर्मसु ।वह्नेर्दशकलां तत्र कोणे चाष्टदलं तथा ॥१७॥षोडशारे त्रिवृत्ते च कलां सोमस्य पूजयेत् ।तत्रैव स्थापयेद्वीरं मृद्वाख्यं वा प्रयत्नतः ॥१८॥स्वयं तु विलिखेत्तत्र साधारशक्तिपूर्वकम् ।सुधासिन्धुर्मणिद्वीपं चिंतामणिगृहं तथा ॥१९॥श्मशानपारिजातं च तन्मूले शववेदिकाम् ।धर्मो ज्ञानं च वैराग्यं ऐश्वर्यं तदनन्तरम् ॥२०॥अधर्मादि ततो मन्त्राः पाणिपादे च युग्मकम् ।अकारादि क्षकारान्तं मातृकान्यासरूपकम् ॥२१॥तस्थानं पूजयेन्मन्त्री हृदि न्यासादि पूजयेत् ।करन्यसं ततो मन्त्री कराभ्यां पूजयेत्ततः ॥२२॥अधोमुखं तु तं कृत्वा तन्मुखे मधुरं वदेत् ।हे वीर परमानन्द देविपर्यंक शंकर ॥२३॥अष्टसिद्धिं च मे देहि मम शांतिं सदा कुरु ।एतद् ब्रूहि च वीरेन्द्र सुवर्णं च मुखे क्षिपेत् ॥२४॥एलालवंगजाती च फलताम्बूलसंयुतम् ।खदिरार्द्रकगुडं च कर्पूरं रक्ततंतुना ॥२५॥मूलेन भावयेत्तत्र जुटिकां दृढमुष्टिकाम् ।अर्केन्दुसितव्रातालनिर्मितां दीपवर्तिकाम् ॥२६॥निमंत्रयेत्ततः शाक्तः सप्तवाराण्यनुक्रमात् ।चंदनागुरुपुष्पाद्यैर्मूर्ध्नि देवीं प्रपूजयेत् ॥२७॥जीवन्यासं ततो मन्त्री प्राणमन्त्रेण शोधयेत् ।x x x तथा नाभौ ह्युदरे गुह्यदेशके ॥२८॥ऊरू जानु तथा जंघा गुल्फपादं जलेन च ।शीर्षे कण्ठे नासिकायां चक्षुषोः कर्णयोरपि ॥२९॥शिखाकवचगण्डेषु ऊर्ध्वाधो वाष्टके तथा ।दन्तयोश्वैव जिह्वायां शिरःपृष्ठे च पादयो ॥३०॥हृदादिके च बाहुभ्यां पादयोश्च तथैव च ।सर्वाङ्गे विन्यसेद्देवि पीठन्यासमनुत्तमम् ॥३१॥सूर्यस्य मण्डले तत्र जपन् याति कलात्मकम् ।मृतकाय शवायात्र नमश्चांतेपदं ततः ॥३२॥स्नापथेन्मूलमन्त्रेण पूजितेनोष्णवारिणा ।सूर्यसोमात्मकं पीठं अग्निरूपं प्रकल्पयेत् ॥३३॥मेरुपृष्ठऋषिच्छन्दो भूतलं तदनन्तरम् ।कूर्भ्मोदरस्ततः पश्चाद् धर्मार्थं साधयेत्ततः ॥३४॥मोक्षो हि मानसश्चैव सिद्ध्यर्थं परिकीर्तितम् ।मुद्रां कौर्मीं दर्शयित्वा अस्त्रावगुण्ठ्येत्ततः ॥३५॥शक्तियोनिं मत्स्यमुद्रां धेनुमुद्रां ततः शिवे ।प्रदर्शयेच्छोटिकां च चतुरस्रां प्रदर्शयेत् ॥३६॥धृत्वा विमर्शयेन्मूलं पृथ्वी त्वयेति वै क्रमात् ।ततो वक्त्रोदकेत्यादि मनुभिः कामसंख्यकैः ॥३७॥प्रणवं पूर्वमुद्भृत्य सहस्रारपदं ततः ।हुं फट् स्वाहा तदन्ते च रक्ष रक्ष ततो वदेत् ॥३८॥महाप्रतिसरे सर्वविघ्नान्छेदययुग्वदेत् ।हुं फडन्तं समुद्धृत्य वह्निजायां समुच्चरेत् ॥३९॥दिक्पालयजनं कार्यं इन्द्रादिक्रमयोगतः ।वीरार्गलाघोरमन्त्रैस्तथा पाशुपतैरपि ॥४०॥महामण्डलमन्त्रैर्वा दिग्बन्धस्तत्र कारयेत् ।शिवाबलिं तत्र दद्याद् गुरोरादावपि प्रिये ॥४१॥आदौ मध्ये तथा चांते त्रिवारां तु शिवाबलिम् ।मुण्डग्रहणकाले तु सर्वथा तु शिवाबलिः ॥४२॥शिवं शक्तिं च वा पूज्य दिक्पालन्बलिसंयुतान् ।पूजयेत्परमेशानि आयुधानि यथाक्रमम् ॥४३॥एवं क्रमेण वीरेन्द्र सर्वेषां बलिमाहरेत् ।वाड्माया कमला प्रोच्य देव्याsमुक एष वै ॥४४॥यज्ञः प्रवर्त्तते इमं भागं बलिं च गृह्णयुक् ।अत्र तिष्ठ नमः प्रोच्य अरक्त ते हुं फट् स्वाहा ॥४५॥अकारादिक्षकारान्तान् बिन्दुयुड्मातृकाक्षरान् ।शीर्षादिपादपर्यन्तं वेष्टयेद्दक्षिणक्रमात् ॥४६॥सार्धत्रिवलयैर्युक्तं वेष्टयेत्साधकोत्तमः ॥नानासुगंधद्रव्येण रक्तचंदनचंदनैः ॥४७॥काश्मीरागुरुणा चैव पीतसूत्रेण वेष्टयेत् ।बन्धयेद्विविधैर्द्रव्यैः क्षारयुक्तहरिद्रया ॥४८॥बन्धीयाद्रक्तसूत्रेण पट्टसूत्रेण वा प्रिये ।निर्द्वन्द्वो निरहंकारः सुद्धनाडीगणावृतः ॥४९॥पाषाण्डबुद्धिरहितः सर्वभूतहिते रतः ।सर्वावयवसंशुद्धः सर्वशास्त्रविशारदः ॥५०॥कृताभिषेको विधिज्ञो जपपूजादितत्परः ।मृद्वासने वसेत् सोहि त्वन्यथा नरकं व्रजेत् ॥५१॥अज्ञानमोहदंभैश्च दृष्टादृष्टिं करोति यः ।स याति नरकं घोरं पिशाचत्वमवाप्नुयात् ॥५२॥प्रपतन्ति महामूढाः व्याधित्वं स्वल्पजीवितम् ।विशेद्वीरस्तु शास्त्रज्ञः समयाचारतत्परः ॥५३॥मन्त्रज्ञस्तन्त्रदर्शी च यन्त्रमन्त्रविचक्षणः ।निग्रहानुग्रहे शक्तश्चतुर्वर्गविनोदकः ॥५४॥स सिद्धः सिद्धिदो लोके शापानुग्रहणक्षमः ।अशक्तः कुरुते यस्तु मृत्युस्तस्य न संशयः ।मृद्वासनमिदं प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥५५॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे मृद्वासनं नाम सप्तषष्टिः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP