संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| पंचत्रिंशतिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - पंचत्रिंशतिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत पंचत्रिंशतिः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।देवेश श्रोतुमिच्छानि लतारूपमथादरात् ।श्रीशिव उवाच ।लतारूपं महेशानि पूर्वमेव मयेरितम् ॥१॥सामान्यतः प्रवक्ष्यामि सावधानमना भव ।तरुणीं तु सुलावण्यां सुन्दरीं चारुदासिनीम् ॥२॥चंछलां कञ्जनेत्राञ्च षोडशाब्दामपुष्पिताम् ।कटाक्षताडिनीं रामां सुगन्धां तनुमोहिनीम् ॥३॥ईदृग्विधां समालोक्य सदा तत्सङ्गमाचरेत् ।तस्याः x x x कार्यमविकारेण चेतसा ॥४॥नारीं निवीक्ष्य यत्नेन अविकारी नरो यदि ।विकारे जायमाने तु साधको नश्यति ध्रुवम् ॥५॥सर्वदा तु निवीक्ष्यैनां तद्योगं श्रृणु सत्वरम् ।चरणान्मूलपर्यन्तं पीत्वा पीत्वा पुनः पिवेत् ॥६॥तस्या नखशिखाज्योत्स्नाखण्डितान्तस्तमो भवेत् ।कमठी कर्पराकारा प्रपदाञ्चितशोभया ॥७॥स्निग्धान्तःकरणो वीरो निर्विकल्पः सदा भवेत् ।सुवृत्तजानुना चारु जङ्घोरुजघनाश्रयैः ॥८॥नाभौ रोमावली वक्षस्थलैः पीनपयोधरौ ।ग्रीवानयनपर्यन्तं केशाग्रैः प्रवरस्थितैः ॥९॥यावन्मधुमदापूर्णौ निस्सीमैर्भावलोकितैः ।स्निग्धेन्द्रियश्च सन्तुष्टतुर्वर्गसमन्वितः ॥१०॥निवृत्तिकाले च पुनर्भावपूर्णामृतैर्निजम् ।मुखं बिन्दुवदकारं समारभ्य महेश्वरि ॥११॥साधकोत्तम इत्युक्तः श्लोकानां च चतुष्टयम् ।ध्यात्वा स्पृष्ट्वाsथवा दृष्ट्वा एतत्कामकलान्वितः ॥१२॥क्षणं तत्र विमृश्यैतज्जायते भावसञ्चयः ।कुलेषु तत्कालारूपमङ्गले परिवर्त्य च ॥१३॥कुले सञ्जायते यत्नात्कथं तत्कथयामि ते ।कुले साक्षाद्यतस्तत्त्वं स्वयं चिन्तिततत्त्वतः ॥१४॥तेन तत्कुलशास्त्रज्ञैः पूजनीयं प्रयत्नतः ।कुलदेवे चात्मदेवी निश्चला यस्य वर्तते ॥१५॥स धन्यः पुरुषो लोके निश्चलोदयं एव सः ।यत्कुले कुलदीक्षा तु तस्मात्साsपि स एव हि ॥१६॥अदीक्षितकुलासङ्गात्सिद्धिहानिः प्रजायते ।तत्कथाश्रवणं चेत्स्यात्तत्तल्पगमनं यदि ॥१७॥स कुलीनः कथं देवि स कथं मम पूजकः ।गन्धरूपानुरूपेण नाम कुर्यान्निजेच्छया ॥१८॥मातृपितृकृतं नाम वर्जनीयं प्रयत्नतः ।परयोषाधिका ज्ञेया निजस्त्री प्रीतिवर्धनी ॥१९॥आगते स्वागतं कुर्याल्लीलायोगान्निजेच्छया ।तस्मादुत्थ्याय हस्ताग्रे धृत्वा संवेशयेत्ततः ॥२०॥वामभागे समासीनां सुवर्णां कामरूपिणीम् ।ध्यात्वा कामकलां तत्र विन्द्वादिपूर्णविग्रहः ॥२१॥केशविन्यासतिलकहारकेयूरयावकम् ।सर्वकलाविधानादौ कुलद्रव्याणि योजयेत् ॥२२॥हेतुयुक्तं सताम्बूलं दत्त्वा भुक्त्वा तु साधकः ।पश्येत् कुलपथं तस्या लौकिकालौकिकादिकम् ॥२३॥स्वयं चोद्भवपुष्पाणि कीर्तितानि कुलादिषु ।न करोति कुलाभिज्ञः शिवोsपि नश्यति ध्रुवम् ॥२४॥दृष्ट्वा दोषादिकं तत्र स्नेहादपि न शिक्षयेत् ।भाषयेन्न कटूक्त्या वै कृते तु निष्फलं भवेत् ॥२५॥कुलशास्त्ररहस्यं तु कुलमूलं यतः प्रिये ।वरं कुलमतत्यागो वरं कुलगुरोरपि ॥२६॥न त्यागं पापं स्वकुलं दृष्टदोषादपि प्रिये ।कुलवृक्षस्थितः सोsहं स्वकुलं पोषयाम्यहम् ॥२७॥तेन सर्वप्रयत्नेन रक्षणीयञ्च यत्नतः ।स्वकुले कुलबाहुल्यं यदि स्याद्भाग्ययोगतः ॥२८॥समरूपं विधातव्यं वैपरीत्यं त्यजेद्बुधः ।पृथक् ध्यानं पृथक् स्थानं पृथक् पूजा पृथक् स्तुतिः ॥२९॥न कर्तव्या प्रयत्नेन किमेतैर्बहुजल्पितैः ।कुले तिष्ठामि देवेशि नात्र कार्या विचारणा ॥३०॥तासां विश्वासघातेन तद्देशश्चैव नश्यति ।प्रमोदादमृताख्यानं मम स्यान्नात्र संशयः ॥३१॥कुलजाहं महायुद्धे वीरास्फालनिनादिनी ।न दोषमात्रमिच्छामि पातयामि यतो जगत् ॥३२॥सौन्दर्यपतिविद्वेषः कटूक्तिः कलहादिकम् ।नीचानां गमनं चैव न वै तत्र वसाम्यहम् ॥३३॥ब्रह्माण्डभाण्डसम्भेदात्तेन जीवेत्स सिद्धियुक् ।विना कुलेन संसिद्धिर्न कुत्रापि प्रविद्यते ॥३४॥कुलालापानुसन्धायी कुलरूपं विचिंत्य च ।विहरेद्दिवसे चैव रात्रावाकृष्टितत्परः ॥३५॥आनीय योषितः सर्वाः जात्यष्टकसमुद्भवाः ।गंधानुक्रमणादेव नाम कुर्यान्महेश्वरि ॥३६॥एकजातिभवा वापि स्वरूपं पूर्वमीरितम् ।तन्मन्त्रं तत्र संयोज्य तेनैव पूजनं चरेत् ॥३७॥शुद्धपुष्पैश्च नैवेद्यैर्लवणैर्मधुसंयुतैः ।पूजयित्वा यथापूर्वं साधयेन्निजसाधनम् ॥३८॥तत्पुष्पेणैव नैवेद्यैस्तां कालीं परिपूजयेत् ।त्रिपुरानामिकां देवि रक्तपुष्पेण पूजयेत् ॥३९॥गुणैः पूर्वोदितैर्युक्ता नाना वा एकजातयः ।रूपगन्धसमायुक्ता नामतः पूर्वमीरितम् ॥४०॥एवं कृत्वा तु बहुधा दृष्टादृष्टविभेदतः ।विशेषो ह्मत्र देवेशि किमन्यद्बहुजल्पितैः ॥४१॥मायया च्छाद्य आत्मानं निजस्त्रीरूपधारिणी ।आगत्य x x x देवि तेनैव दृश्यते ध्रुवम् ॥४२॥तस्मात्स्वदेशेनैवैतत् कर्तव्यं सिद्धिकांक्षया ।किं वा कामविलोपार्थं यतितव्यं सुरेश्वरि ॥४३॥कर्मदण्डं समादाय शिवसाम्यं विधाय च ।तद्गात्रं चक्रसूत्रेण वेष्टनं सप्तधा कृते ॥४४॥पाशस्त्वं सर्वभूतानां रक्षणाय स्वयम्भुवा ।निर्मितोsसि महाभाग दृढबन्धं विधीयताम् ॥४५॥एवमामन्त्र्य तत्सूत्रं शिवाङ्गं सर्पवेष्टितम् ।जपेद्दशांशमासाद्य स्वीयमन्त्रं ततो जपेत् ॥४६॥संहारस्वप्रबोधिन्या पुटितं प्रणवत्रयम् ।सुप्तमन्त्रः समाख्यातः श्वापदः सर्वजन्तुषु ॥४७॥एवं कृत्वा स्वयं देवो महेशाधिक एव च ।कुले यदि स्याद्योगस्य चापल्यः स्मरलोलुपः ॥४८॥तदा रक्षा विधातव्या न कार्या कर्हिचिद्बुधैः ।वरांगे श्रृणु मद्वाक्यमावयोः शुभहेतुकम् ॥४९॥एतत्कार्यं समासाद्य कर्तव्यं तव चेष्टितम् ।एवमुक्त्वा निजं कार्यं विधाय साधकोत्तमैः ॥५०॥प्रवर्तनं न कर्तव्यं कुलयोगं महेश्वरि ।वीरपत्नी वीरकन्या वीरांगनवरांगना ॥५१॥नाकृष्य साधकैः कार्यं यावत्स्यान्मनसः स्थिति ।मनःक्षोभे तत्र जाते मूलयोगेन यत्फलम् ॥५२॥तत्फलं जायते देवि सत्यं सत्यं न चान्यथा ।वीरपत्नी तु परमा स्वयमेव महेश्वरी ॥५३॥सा स्मृता कुलविद्यानामद्या चैव पुरातनी ।तद्वधूः परमेशानि सर्वमन्त्रप्रबोधिनी ॥५४॥न्यायतोsन्यायतो वापि गुरुपत्नी गुरुर्यदि ।वीक्षणादेव देवेशि सर्वार्थसाधको भवेत् ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥५५॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे लतारूपकथनं नाम पञ्चत्रिंशतिः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP