संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| सप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - सप्ततिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत सप्ततिः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।श्रीशिव उवाच ।किं तद्रहस्यं देवेशि शीघ्रं सूचय साम्प्रतम् ॥१॥श्रीदेव्युवाच ।मालारात्रिविधानं च वद मे करुणानिधे ।श्रीशिव उवाच ।मालारात्रिविधिं वक्ष्ये श्रृणु सावहिता भव ॥२॥सुदिने शुद्धऋक्षादिदिने शुद्धदिने शिवे ।महामालां समदाय वीरपात्रं समाचरेत् ॥३॥वीरमन्त्रं समासाद्य वीरमालां च शोधयेत् ।देवीं सावरणां पूज्य सबल्यन्तं महेश्वरि ॥४॥दशविंशपञ्चविंशदीपान् दत्त्वा बलिं चरेत् ।अस्य श्रीमहामालामन्त्रस्य परमेश्वरि ॥५॥ऋषिः श्रीमन्महातारा उष्णिकछन्दः प्रकीर्त्तितम् ।क्रींबीजं स्त्रीं तथा शक्तिः हुंमन्त्रं कीलकं स्मृतम् ॥६॥महामाला दन्तमालाशोधने विनियोजनम् ।त्रिशक्त्या तु षडङ्गानि ध्यानं मन्त्रवदाचरत् ॥७॥ध्यात्वा संकल्प्य यत्नेन मन्त्रेणानेन पार्वति ।प्रणवं च तथा लज्जा श्रीलज्जाकामकूर्चकैः ॥८॥हुंफट् स्वाहेति मन्त्रेण चषके मालिकां क्षिपेत् ।तत्रावाहनमन्त्राद्यैः कालिकां कालशारदाम् ॥९॥सायुधां सपरिवारां पूजयेत् परमेश्वरि ।मूलमावृत्य तार्तीयं संस्मरन्धेनुमुद्रया ॥१०॥अमृतीकृत्य कवचेनावगुण्ठ्य महेश्वरि ।महामुद्रां समासाद्य देवीरूपं विभावयेत् ॥११॥ध्यायेत्तत्र क्षिपेद्बिन्दुं तत्र मन्त्रान् श्रृणु प्रिये ।प्रणवं कूर्चयुग्मं च स्वाहा प्रणवकूर्चके ॥१२॥वह्निजाया च तारास्त्रे वह्निजाया विष तथा ।तारा च वह्निजाया च तारं लज्जा च कूर्चकैः ॥१३॥वह्निजाया ततस्ता लज्जा फट् वह्निजायया ।द्वित्रिश्रृङ्खलिकाव्यस्तसमस्तं मन्त्रमालया ॥१४॥शतध्यानेन मन्त्रेण बिन्दुप्रक्षेपमाचरेत् ।कस्तूरिका केसरं च चन्द्रागुरुप्रधूपकैः ॥१५॥धूपमालां समुत्तार्य विद्यया चाभिमन्त्रयेत् ।प्रणवं च तथा माया श्रीमहावज्रिणीति च ॥१६॥ततो महाघोररूपे कर्कशेति पदं वदेत् ।महास्थिमण्डले प्रोच्य प्रविशेति पदं तथा ॥१७॥सर्वसिद्धिं प्रयच्छेति प्रणवं कूर्चबीजकम् ।मायायुग्मं वह्निजाया महाकपालिनीति च ॥१८॥ततो महाघोररूपे स्वाहा प्रणवमायया ।माया कूर्चास्त्रस्वाहान्ता विद्योक्ता चाभिमन्त्रणे ॥१९॥दूर्वाक्षतैः समभ्यर्च्य कामेनोद्दीपनं चरेत् ।उपचारैः समम्यर्च्य मातृकां मूलमन्त्रतः ॥२०॥उद्दीपनं ततः कृत्वा हुंकारेण तु वेष्टयेत् ।बलिं दद्यादनेनैव तारं मायाद्वयं वदेत् ॥२१॥वासुदेवं बिन्दुयुतं कूर्चेन पुटितं वदेत् ।कूर्चतारे फट् च कूर्चं प्रणवद्वयमुद्धरेत् ॥२२॥कूर्चबीजं वह्निजाया प्रणवं कूर्चबीजकैः ।महायोगिनि शब्दान्ते ततस्त्रिभुवनतारिणी ॥२३॥महाशङ्खास्थिमाला च मध्यनिवां कुर्विति ।कुरुशब्दं सर्वसिद्धिं देहियुक् च सुरापदम् ॥२४॥मांसोपहारान् गृह्णद्वियुक् गृहापयद्वयम् ।कुल्लुका फटू ततः स्वाहा मन्त्रेणानेन पार्वति ॥२५॥यथोचितेन द्रव्येण बलिं दत्त्वा विधानतः ।पञ्चद्रव्यैः पञ्चदिनं मालां स्थाप्य च पञ्चमे ॥२६॥मालारात्रिविधिं कुर्यात् तेन सिध्यति मालिका ।निभृते स्थापयेन्मालां रहस्या मालिकाविधिः ॥२७॥दन्तमालाविधौ देवि विशेषं शृणु पार्वति ।प्रणवं हृद्भगवति मालारञ्चिनि चोच्चरेत् ॥२८॥विच्वे विच्वबलोच्वेव हरविच्वे पदं वदेत् ।मालाविच्वे तथा मालाधारिणी हरहृत्पदम् ॥२९॥हस ब्लुं तु शङ्खास्थिधारिणीति पदं वदेत् ।कर्कशास्थि महामाला वासिनीति पं वदेत् ॥३०॥छिन्ने तारे कालिके च तदन्ते जपमालिका ।कुलुकी फट् महादन्तमालामध्ये पदं वदेत् ॥३१॥निवासं कुरुयुग्मं च राजेन्द्रमालिका ततः ।वासिनीत्रयं सम्प्रोच्य क्रींत्रयं हुंद्वयं तथा ॥३२॥मायाद्वयं च फट् स्वाहा मालामन्त्रेण हृन्मनुः ।बलिदानमनुं वक्ष्ये श्रृणु सावहिता भव ॥३३॥प्रणवं कर्कशपदं मण्डलमम्बिके ततः ।मालिनि कौलिनिपदं गौरि गान्धारि चोच्चरेत् ॥३४॥गिरिजे मायावतिपदं क्रियावतिपदं ततः ।गायत्री च गानप्रिये शाङ्करि कालिके तथा ॥३५॥असिलताधारिणीति तदन्तजातवेदसे ।श्रीकालकाली च पदं मुण्डानि रुद्राणि तथा ॥३६॥इमं बलिं गुह्णयुग्मं मालासिद्धिं च चोद्धरेत् ।देहि दापययुग्मं च क्रींषट्कमालया युतम् ॥३७॥बलिं दद्यादनेनैव तदन्ते जाग्रतीकृतिः ।कपालकज्ज्वलं चैव पादकज्ज्वलयुग्मकम् ॥३८॥विश्वमोहननामानं कज्ज्वलं विद्धि पार्वति ।तत्पादभस्म देवेशि फाल्गुनोत्सवजं परम् ॥३९॥जगद्धूलीति नाम्ना तु विख्याता शत्रुनिग्रहे ।अनेन मनुना गृह्य उद्भ्रान्तधूलिनामकम् ॥४०॥शम्भुमूर्घ्नि तथा देहे गेहे शय्याङ्गने जले ।दापयेत् परमेशानि उद्भ्रान्ता धूलिरीरितः ॥४१॥उद्भ्रान्तधूल्या देवेशि समाक्रान्तजगत्त्रयम् ।यथा ग्रहणयुग्मं च तथा पर्वद्वयं भवेत् ॥४२॥नक्षत्रराशिवारादि शुद्धाशुद्धिं न चाचरेत् ।कामबीजं तथा बीजं श्लों श्लीं फट् त्रयं वदेत् ॥४३॥सिद्धे जगद्धूलिसिद्धिं देहि स्वाहा मनुर्मतः ।मन्त्रेणानेन संगृह्य उद्भ्रान्तिधूलिमुत्तमाम् ॥४४॥मालासिद्धिः सर्वसिद्धिर्भवत्येव न संशयः ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥४५॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे महामालाशोधनविधिर्नाम सप्ततिः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP