संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| षष्ठः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - षष्ठः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत षष्ठः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि शक्तिकोणविनिर्णयम् ।श्रीशिव उवाच ।त्रयोsग्नयस्त्रयो ग्रामाः देवाश्चापि त्रयो गुणाः ॥१॥भावत्रयं तथा शक्तित्रयी नाडी त्रयात्मिका ।त्रिधा सिद्धिस्त्रितत्त्वाख्यं पात्रत्रयमथाद्भुतम् ॥२॥त्रिकोणवासिनी काली वीरसिद्धा वरप्रदा ।ध्येया ज्ञेया कलौ देवि नान्यविद्या कदाचन ॥३॥सुन्दरी शिथिला देवि राजसी गुप्तदर्शना ।दशकोटिप्रजापाद्वै कदाचिद्वरदा भवेत् ॥४॥कलौ काली कलौ काली कलौ काली च केवला ।श्रीमत्कादिमताधीशा कलौ शीघ्रफलप्रदा ॥५॥सदा पञ्चमकारैश्च पूजयेत्कालिकाम्बिकाम् ।शक्तिं विना न हि जपेत् न शक्तिः कारणं विना ॥६॥सदा पञ्चमरूपोsहमित्येवं परिभावयेत् ।एवं भावसमायुक्तः षोढान्यासपरो भवेत् ॥७॥दशविद्याविधौ देवि दशधा भिन्नभिन्नतः ।श्रीविद्यायां महेशानि षोढापञ्चकमीरितम् ॥८॥लघुषोढा पूर्वषोढा महाषोढा तृतीयका ।चतुर्था मंत्रषोढा च पञ्चमी गुह्यषोढका ॥९॥षोढाषट्कं कालिकायां भेदभेदान्तरेण च ।लघुषोढा महाषोढा गुह्यषोढा तृतीयका ॥१०॥मंत्रषोढा शक्तिहंसी दिव्यषोढा रसाभिधा ।षोढाद्यचक्रकं क्रोधे छिन्ना या वह्निसंज्ञिका ॥११॥श्यामलायां तथा देवि चान्यासु द्वितय शिवे ।लघुषोढा महाषोढा द्वितयं परमेश्वरि ॥१२॥प्रत्येकं षडृषित्वं च सध्यानं च समाचरेत् ।ऋषिच्छन्दादिक यत्र कीर्तितं परमेश्वरि ॥१३॥तदेव तत्र गदितमनुक्ते मूलदेवता ।ध्यानं छन्दादिकं स्तोत्रं देवीवत्सर्वमेव तु ॥१४॥अयुतं च पुरश्चर्या न्य्सनक्रममार्गतः ।इति संक्षेपतः प्रोक्तं सर्वमेतत्किमिच्छसि ॥१५॥श्रीदेव्युवाच ।क्रमेण दशविद्यायां कुलुकार्चाविधिं वद ।श्रीशिव उवाच ।काली तारा तथा छिन्ना सुन्दरी बगलामुखी ॥१६॥मातङ्ही श्यामला लक्ष्मीः सिद्धविद्या च भैरवी ।धूमावती क्रमेणैव महाविद्या दशैव तु ॥१७॥काली कूर्चं वधू माया फडंता कुल्लुका मता ।अघोराख्यो ऋषिः प्रोक्तो विराट् छन्दः प्रकीर्तितम् ॥१८॥देवता कुल्लुका काली बीजं मायाभिधं मतम् ।कामशक्तिस्तथा कूर्चं कीलकं परिकीर्तितम् ॥१९॥षड्दीर्घाढ्येन कामेन षडंगन्यासमीरितम् ।ध्यानपूजादिकं सर्वं कालिकावत्समाचरेत् ॥२०॥माया रमा तथा कूर्चं तारिणी कुल्लुका मता ।तारिणीकुल्लकायाश्च विरूपाक्षो ऋषिः स्मृतः ॥२१॥उष्णिक् छन्दः समाख्यतं देवता नीलतारिणी । कूर्चबीजं तथा माया शक्तिर्वधू च कीलकम् ॥२२॥मायाया तु षडङ्गानि सर्वनीला सरस्वती ।वज्रवैरोचनी प्रोच्य संबुद्ध्यन्ते सवर्म च ॥२३॥अतिकालो ऋषिः प्रोक्तो गायत्र्यं छन्द ईरितम् ।हॅंबीज मूऍं तथा शक्तिः कीलकं रोचिनी मता ॥२४॥शिवं षड्दीर्घयुक्तेन षडङ्गं न्यासमाचरेत् ।ध्यानपूजादिकं सर्वं छिन्नावत्समुपाचरेत् ॥२५॥संपत्प्रदायाः प्रथमं बीजं श्री भैरवीमनौ ।विकरालो ऋषिः प्रोक्तः पंक्तिच्छन्दः प्रकीर्तितम् ॥२६॥देवता भरवीनाम्ना कुल्लुका परिकीर्तिता ।हॅंबीजं सौमहाशक्तिरमन्त्रं कीलकं मतम् ॥२७॥षडदीर्घाढ्येन बीजेन षडङ्गन्यासमाचरेत् ।ध्यानपूजादिकं सर्वं बालावत्समुपाचरेत् ॥२८॥सुन्दर्याः कुल्लुका देवि सम्प्रोक्ता द्वादशाक्षरी ।वाग्भवं कामराजं च लज्जा च त्रिपुरे पदम् ॥२९॥शी च भगवती प्रोच्य तदन्ते ठद्वयं वदेत् ।सुन्दरी कुल्लुकायास्तु ऋषिरानन्दभैरवः ॥३०॥गायत्री छन्द आदिष्टं वाग्भवं बीजमीरितम् ।लज्जा शक्तिर्महेशानि कामबीज च कीलकम् ॥३१॥देवता त्रिपुरेशी च षडङ्गेति द्वयेन च ।ध्यानपूजादिकं सर्वं सुन्दरीवत्समाचरेत् ॥३२॥मातङ्गी बगला लक्ष्मीर्धूम्रोच्छिष्टाक्रमे श्रृणु ।तारं कूर्चं नारसिंहैः पञ्चानां कुल्लुका मता ॥३३॥ऋषिर्भैरवनामा च यावच्छन्दांसि पार्वति ।देवता सैव बीजादि स्वस्य देवक्रमेण वै ॥३४॥ध्यानपूजादिकं सर्वं स्वस्वदेववदाचरेत् ।इति संक्षेपतः प्रोक्तं कहरूपं श्रृणु प्रिये ॥३५॥कहेश्वरी महाविद्या द्रुतं सिद्धिफलप्रदा ।कहेति द्वयक्षरो मन्त्रो यस्य वक्त्रे विराजते ॥३६॥स एव कालीरूपः स्यात्तारादेहमवाप्नुयात् ।कहेति पुष्पिणी मुख्या तत्सर्वं सर्वदा चरेत् ॥३७॥ऋतुस्नातां समादाय तस्या xxप्रपूजयेत् ।xxपूजनमात्रेण त्रैलोक्यविजयी शिवः ॥३८॥त्रिकोणसंज्ञा xxस्यात्तत्रस्थो बिन्दुरुच्यते ।त्रिकोणमध्ये साङ्गां वै तथा सावरणां प्रिये ॥३९॥सरहस्यां प्रपूज्याथ तत्र यन्त्रं विभावयेत् ।कृत्वाsवरणपूजां च यत्किञ्चित् जपति प्रिये ॥४०॥तत्सर्वं सिद्धिदं देवि नात्र कार्या विचारणा ।तया यदुच्यते देवि शुभं वा यदि वाxशुभम् ॥४१॥तत्सर्वं यत्नतो देवि कर्तव्यं हितमिच्छता ।xxxxमृतैर्देवि तर्पणं सर्वदा चरेत् ॥४२॥ब्रह्मरूपा सिद्धरूपा प्रसन्ना कालिका भवेत् ।उत्तमा xxपूजा स्याद्यन्त्रपूजा च मध्यमा ॥४३॥अधमा मूर्तिपूजा च पादपूजा वृथा भवेत् xxपूजा नाभिपूजा कोणाभावे प्रकीर्तिता ॥४४॥कोणे तदीये विद्यन्ते नाड्यस्तिस्त्रः प्रधानिकाः ।अम्बु स्रवति चान्द्रीया पुष्पं स्रवति भानवी ॥४५॥बीजं स्रवति चाग्नेयी त्रिकोणमध्यगा स्मृता ।आग्नेयीनाडिकां वीक्ष्यपूज्य जाप्य प्रतर्पयेत् ॥४६॥xxxxमृतैः कुण्डगोलोत्थैः स्वस्वपुष्पकैः ।स्वयम्भूकुसुमैर्देवि पूजयेत्कालिकां सदा ॥४७॥मुण्डमाला गले धार्या महाशङ्खं कराम्बुजे ।ध्यायेत् xxमुखे हाला कामबाला तवाग्रतः ॥४८॥नरमाला दन्तमाला स्मशानं योनिमण्डलम् ।एवं यः कुरुते देवि त्रिशक्तिसिद्धिमाप्नुयात् ॥४९॥अन्यथानन्तजापैश्च वीरसाधनकोटिभिः ।त्रिशक्तयो न सिध्यन्ति किमन्यच्छ्रोतुमिच्छसि ॥५०॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यतारासंवादे शक्तिकोणविनिर्णयो नाम षष्ठः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP