संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| षष्टिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - षष्टिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत षष्टिः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।श्रीशिव उवाच ।तद्रहस्यं महेशानि गोप्याद्गोप्यतरं महत् ॥१॥तथापि तव सद्भक्त्या कथ्यते श्रृणु साम्प्रतम् ।तारायां कालिकायां च छिन्नायामपि पार्वति ॥२॥मण्डूकादिभवं पीठमाधारादिकमेव वा ।तत्रापि दशशक्त्या तु त्रिधा भिन्नं महेश्वरि ॥३॥x x तथा शकौ यत्किञ्चित्पीठमर्चयेत् ।x x वस्त्रासनं देवि सूत्रान्तं परिकीर्तितम् ॥४॥मुण्डासनं तु भङ्गान्तं तथा शवासनं शिवे ।x x सनं जपान्तञ्च x x सनमेव च ॥५॥मृदुकोमलचूडादि चूडान्तं परिकीर्तितम् ।तथा वीरासनं देवि समानीय प्रयत्नतः ॥६॥हृन्मलं दूरतस्त्यक्त्वा हृदय शोधयेत्पुनः ।वस्त्राच्छन्नं भूमयं च कृत्वा स्थित्वा जपं चरेत् ॥७॥नरचर्मासनं देवि गजचर्मासनं तथा ।वस्त्रासनं x x सलोमान्तं नृकेसरीम् ॥८॥कपीन्द्राख्यं मृगाजाख्यं तूर्णाख्यं त्राणनांतकम् ।x x त्वगासनं देवि सलोमान्तं महेश्वरि ॥९॥x x सनं सजीवान्तं पातान्तं x x सनम् ।x x सनं देवि तत्पातान्तं प्रकीर्तितम् ॥१०॥जिह्वास्पर्शासनं देवि तत्तत्त्वान्तं प्रकीर्तितम् ।तदन्ते सन्त्यजेद्देवि जघन्यं चोत्तरोत्तरम् ॥११॥विष्टरासनकं देवि यदनन्तं प्रकीर्तितम् ।क्रमात्सिद्धिप्रदं देवि सर्वकार्यकरं भुवि ॥१२॥व्याघ्रासनं सलोमान्तं केचिद्भङ्गान्तमम्बिके ।इति संक्षेपतः प्रोक्तं फलसंख्या श्रृणु प्रिये ॥१३॥x x सनं देवि त्रिदिनात् त्रिगुणाकृतिः ।x x वस्त्रासनं देवि त्रिमासात्फलदायकम् ॥१४॥मुण्डासनं तु षण्मासैर्दिनान्तं तु शवासनम् ।नरचर्मासनं देवि त्रिमासात्फलमुच्यते ॥१५॥x x सने द्विमासेन फलं भवति सुन्दरि ।x x सने महेशानि पक्षान्ते तु फलं भवेत् ॥१६॥मृद्वासने तु मासेन कोमले तत्त्वसंख्यया ।अचूडके विष्णुतत्त्वे वीरे यामत्रयेण च ॥१७॥वस्त्रासने पञ्चवर्षैः सिंहासनेsपि मानकैः ।मृगाख्ये वेदवर्षैंश्च ऊर्णाख्ये दशवर्षतः ॥१८॥x x त्वगासने देवि सप्ताहेन फलं भवेत् ।x x सने सपक्षान्तं x x ख्ये दिनाष्टकम् ॥१९॥विपरीते षट्दिनैश्च जिह्वास्पर्शें द्विवेदकैः ।सप्त x x देवि सप्ताहेन फलं लभेत् ॥२०॥विष्टरे मासषट्कैश्च फलं भवति पार्वति ।इति संक्षेपतः प्रोक्तं नित्यनैमित्तके श्रृणु ॥२१॥नित्यलोपो न कर्तव्यो नित्यं तु सर्वकालिकम् ।रात्रिर्भवति चेद्देवि पितृतर्पणकं न च ॥२२॥सन्ध्यालोपनिमित्ते च गायत्रीं मूलमेव वा ।जपेदष्टोत्तरं देवि सहस्रं यत्नतः शिवे ॥२३॥तथा मध्याह्निकं कार्यं रात्रिकृत्यं ततश्चरेत् ।जपादिस्तोत्रपाठान्तं सर्वमेतत्समाचरेत् ॥२४॥तदन्ते पूजनं कार्यं ततो नैमित्तिकं चरेत् ।अत्र केचित्समिच्छन्ति नित्ये पञ्चोपचारिका ॥२५॥ततो नैमित्तिकं काम्यं कारयेत्परमेश्वरि ।इति संक्षेपतः प्रोक्तं सेपानं श्रृणु पार्वति ॥२६॥नवसोपानसंयुक्तं तारकालीस्थिते पदम् ।पादाष्टकसमायुक्तं शस्त्राष्टकसमुज्वलम् ॥२७॥देवताषोडशाक्रान्तं पीठं पीठविदो विदुः ।धर्माष्टकसमाक्रान्तं प्रेताष्टकसमुज्ज्वलम् ॥२८॥धर्माद्यनैश्वर्यान्तं च ब्रह्मादीश्वरतः शिवे ।ऋग्युजुःसामनिगमं चतुर्वेदसमुज्ज्वलम् ॥२९॥इति संक्षेपतः प्रोक्तं किमन्यद् बहुविस्तरैः ।शक्तिसङ्गमयोस्तन्त्रं तत्र संक्षेपतो मतम् ॥३०॥तदेव भूयो देवेशि ध्याननाम्ना प्रकथ्यते ।रक्तवर्णं स्मरेद्धर्मं वृषरूपं समुज्ज्वलम् ॥३१॥त्रिशूलहस्तकं श्रृङ्गद्वययुक्तं च पङ्कजम् ।सिंहरूपं स्मरेद्ज्ञानं श्यामवर्णं पुरातनम् ॥३२॥श्वेतच्छटासमायुक्तं पुच्छं तन्मस्तकोपरि ।कृष्णावर्णो यदा सिंहस्तदा श्वेतच्छटा भवेत् ॥३३॥कृष्णच्छटो श्वेतवर्णो कालीविद्याविधौ हरिः ।वैराग्यं पीतवर्णं च हंसाकारं निरंकुशम् ॥३४॥उत्तानहस्तं सन्ध्यायेत्स्थापिते सिंहविष्टरे ।ऐश्वर्यं कृष्णवर्णाढ्यं द्विरदाकारमद्भुतम् ॥३५॥पंकजं विभ्रतं दण्डं संस्मरेत् परमेश्वरि ।अधर्मं पुरुषाकारं विचित्राम्बरभूषितम् ॥३६॥सर्वावयवसंयुक्तं उत्फुल्लपङ्कजे स्थितम् ।अज्ञानं पुरुषाकारं विचित्रं नरदैवतम् ॥३७॥तत्त्वमुद्राधरं शान्तं संस्मरेत्परमेश्वरि ।अवैराग्यं स्मरेद्दिव्यं नानावर्णसमुज्ज्वलम् ॥३८॥विचित्रवर्णभूषाढ्यं वामनाकृतिकं शुभम् ।अनैश्वर्यं चित्रवर्णं नानारत्नाकृतिं परम् ॥३९॥येथे कोष्टक आहे. पान नं. २२८.ब्रह्मा हंससमारूढश्चतुवक्त्रश्चतुर्भुजः ।दण्डपद्माक्षसूत्रं च दधतं चारुरूपिणम् ॥४०॥चतुर्वक्त्रं त्रिनेत्रं तु ब्रह्मकूर्चं च पङ्कजम् ।बिभ्रतं संस्मरद्दिव्यं स्वर्णवर्णमहोज्ज्वलम् ॥४१॥जटाजूटधरं वृद्धं ब्रह्माणं परदैवतम् ।चतुर्भुजं महाविष्णुं श्यामं गरुडवाहनम् ॥४२॥नानालङ्कारशोभाढ्यं सर्वावयवशोभितम् ।शङ्खचक्रगदापद्मैः क्रमात्संबिभ्रतं स्मरेत् ॥४३॥महेश्वरं वृषारूढं शुक्लवर्णं त्रिलोचनम् ।कपालं डमरुं चैव वरदाभयशूलकम् ॥४४॥टङ्कं संबिभ्रतं देवं व्याघ्राजिनवराम्बरम् ।दिगम्बरं वा देवेशि स्वेच्छया रुद्रभावना ॥४५॥ईश्वरं रक्तवर्णञ्च व्याघ्रसिंहासनस्थितम् ।चतुर्भुजं त्रिनयनं सर्वविद्याविशारदम् ॥४६॥खङ्गखेटकमुण्डं च वरं संबिभ्रतं स्मरेत् ।ऋग्वेदं श्वेतवर्णञ्च स्रुक्स्रवौ बिभ्रतं विभुत् ॥४७॥यजुर्वेदं रक्तवर्णं यागसाधनतत्परम् ।अध्वर्युकर्मनिरतं संस्मरेत्सिंहविष्टरे ॥४८॥सामवेदं पीतवर्णं गानशक्तिपरायणम् ।द्विभुजं तालमानाढ्यं सर्वदेवनमस्कृतम् ॥४९॥अथर्वणं चित्रवर्णं कृष्णवर्णं च वा प्रिये ।द्विभुजं पुस्तकधरं द्वितीये कर्षणं परम् ॥५०॥पञ्चाशद्धि महापद्मं पुस्तकं करशोभितम् ।दिक्विदिक्क्रमयोगेन देवताः परिकीर्तिताः ॥५१॥स्थापने देवताः प्रोक्ताः पीठस्य परमेश्वरि ।सिंहासनस्था देवाश्च कीर्तिताः परमेश्वरि ॥५२॥चरस्थिरप्रभेदेन सर्वं संक्षेपतो मतम् ।चरे धर्मादिपीठं च स्थिरे तु दह्र्मशम्भुयुक् ॥५३॥इति संक्षेपतः प्रोक्तं शक्तियोगं समभ्यसेत् ।सुन्दरीं तरुणीं श्यामां चार्वङ्गीं चारुहासिनीम् ॥५४॥चतुरां x x सदा x x x x x ।षोडशाब्दां मन्त्रमयीं मृगशावकलोचनाम् ॥५५॥स्वकीयां परकीयां वा विधिवत्प्रार्थयेत्सुधीः ।प्रातःकृत्यं समाप्यादौ नित्यकृत्यविधानतः ॥५६॥कृत्वा शक्तिं समानीय शक्तिन्यासपूरःसरम् ।x x सोमवतीन्यासे शक्तिन्यासेsपि पार्वति ॥५७॥कृत्वा सर्वं प्रयत्नेन शक्तिं x x x प्रयत्नतः ।स्वयः x x x स्तत्र भूत्वा शक्तिजापपरायणः ॥५८॥प्रसूनमञ्चे संस्थाप्य मञ्चे वा परमेश्वरि । x x x x x x कृत्वा पञ्चतत्त्वापरायणः ॥५९॥सुधानन्दमयो भूत्वा स्वयं x x x x भवेत् ।x x x x x x x x x x x x x x x ॥६०॥सप्तxxमासाद्य स्पर्शषट्कासनं चरेत् ।स्वयं xxसमो भूत्वा तामाxxपरायणाम् ॥६१॥कृत्वा यत्नेन देवेशि शुद्धमन्त्रौषधेन च ।x x x x x x कुर्यात् कालीजापपरायणः ॥६२॥तावत्कुर्यान्महेशानि यावxxविलोपनम् ।वारं वारं पुनः कुर्याद्यावxx शांकरि ॥६३॥यावन्निश्चेष्टितो भूयात्तावत्कुर्यान्महेश्वरि ।ततो बिन्द्वैकं संग्राह्य अर्घ्यार्थं परमेश्वरि ॥६४॥त्रिपञ्चनवशक्तीनामेवं कृत्वा महेश्वरि ।x x लोपं समासाद्य x x x x च वा ॥६५॥एवमासनमासाद्य खञ्चरीटासनं तथा ।चन्द्रबिम्बं सर्पिणीञ्च सूर्यं च तिलपुष्पकम् ॥६६॥चामरं पर्वतौ सूत्रं तथैव च सरोरुहम् ।वीक्ष्य यत्नेन देवेशि कालीपूजनमारभेत् ॥६७॥कालीं तारां तथा छिन्नां सुन्दरीं वगलामुखीम् ।पूजयेत्परमेशानि तामन्यां वा महेश्वरि ॥६८॥प्रसूनमंचे संस्थाप्य पूर्ववत्सर्वंमाचरेत् ।पूर्वशक्तिर्यदा देवि तदा तस्या न शोधनम् ॥६९॥अन्यां संशोध्य यत्नेन x x x x प्रयत्नतः ।सिन्दूरतिलको वापि देवतातिलकान्वितः ॥७०॥कज्जलं नेत्रयोर्दद्यात्स्त्रीवेषं च समाचरेत् ।खगहस्तो मुक्तकेशः पुष्पतैलविभूषितः ॥७१॥नानासौगन्ध्यसंयुक्तो धूपगेहसमास्थितः ।ताम्बूलरागो वदने परितः शक्तयः शुभाः ॥७२॥xxसने नरः स्थित्वा पात्रासादनसंयुतः ।xx मध्ये मूलयन्त्रं विचिन्त्य परमेश्वरि ॥७३॥यथोक्तवर्त्मना पूज्य सबल्यंतं महेश्वरि ।यत्र स्थानगता देवी तत्र स्थानं प्रपूजयेत् ॥७४॥सम्पूज्य परमेशानि चतुःषष्ट्युपचारकैः ।आरार्तिकं ततः कृत्वा जपं कुर्यान्महेश्वरि ॥७५॥जपं निवेद्य तस्यां तु तयोक्तं तत्समाचरेत् ।xx यत प्रकर्तव्यं स्वयं पूजनमारभेत् ॥७६॥x x x x x ।तदैव कारयेद्देवि चान्यथा नश्यति ध्रुवम् ॥७७॥उभौहि तोष्य यत्नेन स्वर्णरत्नगजादिभिः ।x x x x x जप्यात्साक्षात्तारासमो भवेत् ॥७८॥एतस्य फलबाहुल्यं मया वक्तुं न शक्यते ।स शिवः स हरिः काली सैव तारा पराम्बिका ॥७९॥सैव छिन्ना सुन्दरी तु स एव सुरसुन्दरः ।सर्वसिद्धीश्वरो भूत्वा कामरुपो बिलांजनः ॥८०॥खङ्गवेतालगुटिका खेचरी तिलकस्तथा ।रसरसायणं देवि परकायप्रवेशनम् ॥८१॥वयःस्थैर्यमथाकर्षस्तथा मधुमती शिवा ।पद्मावती भोगवती स्वयं सिध्यति पार्वति ॥८२॥वेतालचन्द्रसूर्यादिकरणं जलरूपता ।अणिमाद्यष्टकं देवि कोटिसिद्धीश्वरत्वकम् ॥८३॥तस्य हस्ते भवेद्देवि नात्र कार्या विचारणा ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥८४॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे शक्तिपूजारहस्यकथनं नाम षष्टिः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP