संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| चतुर्विंशतिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - चतुर्विंशतिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत चतुर्विंशतिः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि बगलाक्रमनिर्णयम् ।श्रीशिव उवाच ।सौभाग्याचीक्रमेणैव बगला शीघ्रदर्शिनी ॥१॥पीताम्बरधरो मन्त्री पीतभूषणभूषितः ।पीतमाल्याम्बरधरो पीतगेहसमास्थितः ॥२॥पीतपूजापरः प्रोक्तः पीतान्नप्रीतमानसः ।पीतद्रव्योपभोगी च पीतासनसमन्वितः ॥३॥पीतहोमी पीतपुष्यी पीतशक्तिसमन्वितः ।रोचनां भुवि संदद्यात् कुङ्कुमं मुनिपत्रकम् ॥४॥हरिद्रया त्रिपुण्ड्रं च तन्मध्ये खादिरं शिवे ।हरिचन्द्रनधूपेन धूपितः परमेश्वरि ॥५॥सर्वं सर्वं तु सम्पाद्य क्रममार्गरतो भवेत् ।सृष्टिस्थित्यन्तसंहारैः पूजा च त्रिविधा कलौ ॥६॥केवला सृष्टिपूजा स्यात् गर्भकौलागमक्रमात् ।अर्चनं गौडदेशे तु स्थितिमार्गं कुमारिके ॥७॥गुप्तकौलागमन्नाम गौडदेशार्चने विधिः ।कामरूपागमन्नाम संहारक्रमपूजने ॥८॥गौडागमं चावलम्ब्य सांख्यायनमुनिस्तथा ।उक्तवानागमे चैव स्थित्यर्चां श्रृणु पुत्रके ॥९॥सर्वाङ्गसुन्दरीं रम्यां सर्वावयवशोभिताम् ।नवोढां पुष्पिणीं चैव प्रार्थ्येद्विप्रकन्यकाम् ॥१०॥कृष्णाष्टम्यां चतुर्दश्यां पौर्णमास्यां कुमारकः ।अथवा भौमsवारे च निशायां भृगुवासरे ॥११॥सुवासितेन तैलेन कुर्यादभ्यज्जनं तथा ।तूलिकातल्पमानीय आस्तीर्योदड्मुखे तदा ॥१२॥तस्योपरि समास्तीर्य शेवन्तैर्जातिचम्पकैः ।कर्पूरं चैव कस्तूरीमिश्रितं चन्दनं तथा ॥१३॥सर्वाङ्गलेपनं कुर्याल्लक्ष्मीसूक्तेन बुद्धिमान् ।पर्यङ्कोपरि तां कन्यां चन्दनेन विलेपिताम् ॥१४॥ध्रुवा द्यौरिति मन्त्रेण कन्यां दक्षिणतोमुखीम् ।उन्मुखीशयनं कुर्यात् श्रीसूक्तेन कुमारकः ॥१५॥तस्याः x x प्रसार्याथ x x नार्चनमाचरेत् ।न्यस्त्वा षोढाद्वयं चैव बगलापञ्चकं न्यसेत् ॥१६॥कन्यां चैव न्यसेदेवं तत्तदङ्गानि संस्मरन् ।पादं जपपुरं चैव मार्जयेन्मूलविद्यया ॥१७॥गन्धद्वारेति मन्त्रेण कुर्यात्कस्तूरिलेपनम् ।मूलमन्त्रेण सम्यक् च पुष्पमाला समर्पयेत् ॥१८॥निवेदयेत् द्रव्यशुद्धिं तत्रैव जपमाचरेत् ।शतमष्टसहस्रं च मन्त्रराजमिमं जपेत् ॥१९॥पुरश्चरणमध्ये च प्रतिमार्गञ्च वासरे ।अथवा पौर्णमास्याञ्च सौभाग्यार्चनमाचरेत् ॥२०॥प्रयोगसिद्धिदं पुंसां मन्त्रसिद्धिकरं परम् ।एतत्क्रमं विना देवि प्रयोगो न भवेत्कचित् ॥२१॥तस्मात्सर्वप्रयत्नेन सिद्धयर्थं देवि भूतले ।सौभाग्याख्यक्रमं देवि विना सिद्धिर्न कोटिभिः ॥२२॥अभिमानाष्टकं त्यक्त्वा त्यक्त्वा वै दूषणत्रयम् ।त्यक्त्वा पञ्चेन्द्रियासक्तिं सौभाग्यक्रममाचरेत् ॥२३॥सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ ।शीतोष्णसमतां कृत्वा सौभाग्यक्रममाचरेत् ॥२४॥षोढाद्वयं च न ज्ञात्वा यः करोत्यर्चनं भुवि ।पतितः स भवेत्पुंसो रौरवं नरकं व्रजेत् ॥२५॥बाह्याभ्यन्तरयोर्देवि प्रभेदज्ञानयोर्विना ।पीतक्रमो न कर्तव्यो देवताशापमाप्नुयात् ॥२६॥संकल्पं च विकल्पं च त्यक्त्वा विज्ञानमानसः ।पीतक्रमं ततः कुर्य्यान्नो चेद्भ्रष्टो भवेद्ध्रुवम् ॥२७॥जितेन्द्रियः सुखं कृत्वा कुर्यात्पीतक्रमं शिवे ।सुखार्थं कुरुते योsसौ देवताशापमाप्नुयात् ॥२८॥स्वस्यावेशविधिं चैव न ज्ञात्वा परमेश्वरि ।यः करोत्यर्चनं देवि स विप्रः पतितो भवेत् ॥२९॥यस्तु कन्यामनःक्षोभं करोति यजने शिवे ।भ्रान्तचित्तो भवेत्सद्यो वाचस्पतिरिवापरः ॥३०॥नोत्पादयेद्वेदनां च मनश्चैव शरीरयोः (?) ।वेदनां जनयेद्यस्तु न नरः पतितो भवेत् ॥३१॥स्वपत्नीं भ्रातृपत्नीं वा गुरुभार्यामथापि वा ।अर्चयेद्यौवनोपेतां साङ्ख्यायनसमर्पिताम् ॥३२॥दीक्षालयस्थां रजकीं कुलालगृहकन्यकाम् ।पुलिन्दकन्यकां वापि मृदुचूडकमादरात् ॥३३॥दीक्षालयस्थां रजकीं कुलालगृहकन्यकाम् ।अर्चनं विधिमार्गेण पूजा दुर्वाससोमतम् ॥३४॥सर्वलक्षणसंयुक्तां पुष्पिणीमर्चयेच्छिवे ।मतङ्गमुनिनोक्तं च सद्यः सिद्धिकरं भुवि ॥३५॥सिद्धिक्रमोsयं देवेशि नास्ति सिद्धिर्गुरुं विना ।तस्मात्सर्वप्रयत्नेन गुर्वाज्ञापरिपालकः ॥३६॥सिद्धो भवति देवेशि नात्र कार्या विचारणा ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥३७॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे बगलाक्रमो नाम चतुर्विंशतिः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP