संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| नवमः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - नवमः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत नवमः पटलः । Translation - भाषांतर श्रीशिव उवाच ।अथासनानि वक्ष्यामि सर्वकार्यार्थसिद्धये ।मृद्वासनं समारूढं कोमलं चूडकं तथा ॥१॥योनित्वग्विष्टरमप्यस्थिभूम्यासनं तथा ।कूचासनं तथा देवि तथैव सुरतासनम् ॥२॥मुण्डासनं तथा देवि पञ्चमुण्डासनं तथा ।त्रिमुण्डमेकमुण्डं वा आसनार्थं प्रकीर्तितम् ॥३॥चिताsपि आसने शस्ता श्मशानं सर्वथोत्तमम् ।चूडकं च तथा प्रोक्तं तथैव च शवासनम् ॥४॥मृतासनं तथा प्रोक्तं महाशवमथासनम् ।वीरासनं महेशानि महावीरासनं तथा ॥५॥योनिपुष्पासनं देवि कीर्तितान्यासनानि च ।तत्रादौ सम्प्रवक्ष्यामि मुण्डानां लक्षणं शुभम् ॥६॥यस्य साधनमात्रेण साक्षाच्छिवमयो भवेत् ।ब्रह्मक्षत्रियविट्शूद्राश्चतुर्धा चास्थि जातयः ॥७॥श्वेता रक्ता तथा पीता कृष्णा वैडूर्यका मता ।इत्येतन्मुण्डरहस्ये प्रोक्त देवि महेश्वरि ॥८॥सद्यःकृतं त्रिरात्रस्थं सप्तरात्रस्थगं तथा ।त्रिसप्तरात्रमध्यस्थमुत्तमादिक्रमाच्छ्रुणु ॥९॥उत्तमं मध्यमं चैव ह्यधमं ह्यधमाधमम् ।सद्यःकृतं तु यन्मुण्डमुत्तमं परिकीर्तितम् ॥१०॥त्रिरात्रमध्यगं मुण्डं मध्यगं परिकीर्तितम् ।षड्रात्रोत्तरगं मुण्डमधमं परिकीर्तितम् ॥११॥त्रिसप्तरात्रमध्यस्थं कीर्तितं ह्यधमाधमम् ।सद्यःकृतं तु युन्मुण्डं सर्वकार्ये प्रकीर्तितम् ॥१२॥त्रिरात्रमध्यगं मुण्डं मालायन्त्रे प्रकीर्तितम् ।षड्रात्रोत्तरगं मुण्डं पात्रकार्ये विनिर्दिशेत् ॥१३॥त्रिसप्तरात्रमध्यस्थं मालायन्त्रादिके मतम् ।षण्मासमध्यगं मुण्डं सामान्यं तदुदीरितम् ॥१४॥श्रीदेव्युवाच ।कालिकापरिशिष्टे तु ह्यन्यथा परिकीर्तितम् ।त्रिरात्रमध्यगं मुण्डं मालार्थं परिकीर्तितम् ॥१५॥षड्रात्रोत्तरगं मुण्डं सामान्यं तदुदीरितम् ।सद्यःकृतं तु यन्मुण्डं सामान्यं तदुदीरितम् ॥१६॥श्रीशिव उवाच ।सद्यःकृतं यन्मुण्डं मालायन्ते प्रशस्यते ।पात्रार्थसाधने शस्तं ह्यभावात् सप्तरात्रिकम् ॥१७॥सद्यःकृतं तु यन्मुण्डं साधनार्थं प्रकीर्तितम् ।उत्तमं मुण्डमादाय हस्तमात्रं खनेद्बुधः ॥१८॥कुलवृक्षस्य मूले वा स्मशाने वा चतुष्पथे ।निर्जने शून्यगेहे वा तस्योपरि जपं चरेत् ॥१९॥बलिं दत्त्वा प्रयत्नेन दिक्पालेभ्यो विशेषतः ।दिग्बन्धभूतशुद्धयादीन् कृत्वा वै जपमाचरेत् ॥२०॥यावत्संख्यं मनुं जप्त्वा तद्दशांशेन होमयेत् ।सिद्धमुण्डं पुरा कृत्वा मालादीन्कारयेत्प्रिये ॥२१॥स्वेच्छामृतं द्विवर्षं च वृद्धं स्त्रियं द्विजं तथा ।अन्नाभावे मृतं कुष्ठं सप्तरात्रोर्ध्वगं तथा ॥२२॥एवं चाष्टशवं त्यक्त्वा वीरसाधनमाचरेत् ।वीरासनमिदं प्रोक्तं कालिकाप्रीतिकारकम् ॥२३॥सप्तरात्रोत्तरं प्राप्तं चान्तरिक्षे स्थितं शवम् ।शूले निपातितं वाsपि पात्रार्थे शस्यते प्रिये ॥२४॥अन्तरिक्षे स्थितं देवि षण्मासोत्तरगं तथा ।मालिकायां प्रशस्तं च त्वधःस्थं सप्तरात्रजम् ॥२५॥शनिभौमदिने वापि शरीरं मृतसंभवे ।चतुर्दश्यां पौर्णमास्याममायां दीपकोत्सवे ॥२६॥संक्रान्त्यां चाष्टमीयुक्ते तथा दुर्गोत्सवे प्रिये ।एवं वीरदिने देवि तथा वीररणागमे ॥२७॥जाते मुण्डं शुभं शस्तमथ शूलादिके स्थितम् ।खङ्गेन हननं कृत्वा गृहीत्वा जपमाचरेत् ॥२८॥सहस्रमणिभिर्माला धार्या सर्वाङ्गके प्रिये ।रुद्राक्षबद्धारणं स्यात् कालीमन्त्रेण शुध्यति ॥२९॥माला तु त्रिविधा प्रोक्ता उत्तमा मध्यमाsधवा ।दन्तक्षमालया चैव राजदन्तेन मेरुणा ॥३०॥उत्तमा मालिका प्रोक्ता कालिकाकर्षिणी परा ।कर्णनेत्रान्तरस्थो यो महाशेङ्खेति कीर्तितः ॥३१॥महाशङ्खमयी माला पञ्चाशन्मणिनिर्मिता ।मध्यमा मालिका प्रोक्ता ताराजापे प्रकीर्तिता ॥३२॥अस्थिभिर्वा नृमुण्डैर्वा किञ्च वा नृललाटजाम् ।देहे देहान्तरस्था वा माला प्रोक्ता कनिष्ठिका ॥३३॥छिन्नादेव्या विधौ देत्रि एवं हि त्रिविधा मता ।सम्मुखौ यौ उभौ दन्तौ राजदन्तौ प्रकीर्तितौ ॥३४॥करालास्यमहाकाल्या दानवा भक्षिताः पुरा ।त्रैलोक्यग्रासिनौ दन्तौ राजदन्ताविति स्मृतौ ॥३५॥राजदन्तेति संज्ञा वै देव्या पूर्वं कृता प्रिये ।यौ दैत्यचर्वकों दन्तौ मम कार्यकरावुभौ ॥३६॥तस्मात्प्रीतेन मनसा मेरुकार्ये नियोजितौ ।कालिकासंहितायां च मतमन्यत्प्रकीर्तितम् ॥३७॥मुखं देव्या महेशानि येन दन्तेन राजते ।तेन कारणतो देवि राजदन्तेति कीर्तितम् ॥३८॥अन्यत् श्रृणुष्व दन्तेषु राजते राजदन्तकः ।सूर्याग्निसोमसूत्रैश्च माला कार्या प्रयत्नतः ॥३९॥वसया मज्जया वाsपि नाडिभिर्वा शुभा मता ।स्वयम्भुवाक्ता या नाडी सा नाडी सर्वतोत्तमा ॥४०॥स्वयम्भुवाक्तं यत्सूत्रं तत्सूत्रं सर्वतोत्तमम् ।पण्यस्त्रीनिर्मितं सूत्रं कुमारीनिर्मितं तथा ॥४१॥ततो द्विजेन्द्रपुण्यस्त्रीनिर्मितं ग्रन्थिवर्जितम् ।कुण्डाक्तं चैव गोलाक्तं स्वयम्भुवाक्तं तथैव च ॥४२॥ततो मातङ्निनीहस्तात् प्राप्तं तु सर्वतोत्तमम् ।नाड्या संग्रथनं कार्यं रक्तेन वाससा प्रिये ॥४३॥इयं तु सिद्धिदा माला कालिकाकृष्टिकारिणी ।या काली सैव तारा स्यात् या तारा सैव कालिका ॥४४॥या काली सैव छिन्ना स्यात् या छिन्ना सैव तारिणी ।या सुन्दरी सैव काली सर्वसिद्धिप्रदा मता ॥४५॥चतसॄणां न भेदोsस्ति भेदभाक् नरकं व्रजेत् ।मालापात्रासनं चैव चतसॄणां शुभं मतम् ॥४६॥मन्त्रध्याने विशेषोsस्ति तथा नाम्नि विरोधता ।प्रयोगादिविशेषोsस्ति सुन्दरयामेव पार्वती ॥४७॥तिसॄणां न विशेषोsस्ति त्रिशक्तिरिति कीर्तिता ।श्मशानेषु च बाह्येषु कालिका तिष्ठते सदा ॥४८॥तस्माद्वीरासनं शस्तं तथैव वीरसाधनम् ।वीरासनादिकं कर्म तथैव वीरसाधनम् ॥४९॥समन्त्रं सबलिं चैव सदिग्बन्धादि चोच्यते ।अखण्डाङ्गं शवं शस्तं सखण्डं मुण्डमुच्यते ॥५०॥रक्ताक्तं यदि देवेशि तदा त्याज्यं प्रयत्नतः ।प्रमादाद्यदि देवेशि नहि त्यजति साधकः ॥५१॥तदैव मरणं तस्य ह्यन्यथा शुभमेव हि ।इत्येतत्कथितं देवि संक्षेपेण तवाज्ञया ।वीरसिद्धयादिकं कर्म श्रृणु यत्नेन साम्प्रतम् ॥५२॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यतारासंवादे आसनकथनं नाम नवमः पटलः ॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP