संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| अष्टचत्वारिंशतिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - अष्टचत्वारिंशतिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत अष्टचत्वारिंशतिः पटलः । Translation - भाषांतर श्रीशिव उवाच ।पुरा स्वर्गे सुखेनासन् कामगाः खेचरा गजाः ।मुनिशापाद् गता भूमौ कलौ जाता वनेचराः ॥१॥भद्रो मन्दो मृगो मिश्रश्चतुर्द्धा जायते गजः ।पूर्वोत्तरतथायाम्यदिक्क्रमेण महेश्वरि ॥२॥पूर्वे गणेश्वरो देवि तूत्तरे नीलकण्ठतः ।पूर्वभागे गजाः प्रोक्ता दक्षिणे द्विविधा गजाः ॥३॥अत्युच्चश्चातिनीचश्च द्विविधः परिकीर्तितः ।अत्युच्चो मलयाद्दक्षे नीचो नीरधिसम्भवः ॥४॥सलोमश्चातिलोमश्च तत्रापि द्विविधः स्मृतः ।पूर्वोत्तरक्रमेणैव वसुसंख्या प्रकीर्तिता ॥५॥दक्षिणेsष्टविधः प्रोक्तस्त्वेवं षोडशधा स्मृतः ।गजासनं समासाद्य लक्षयुग्मं जपेच्छिवे ॥६॥सार्वभौमो नरो भूयाद्यथायोग्यपदक्रमात् ।भद्रासनं समासाद्य लक्षार्धं प्रजपेन्नरः ॥७॥अपि देवीं वशीकृत्य त्रैलोक्यविजयी भवेत् ।मृद्वासने नरः स्थित्वा त्रिसहस्रं जपं चरेत् ॥८॥मनसाsत्र प्रयोगेन त्रैलोक्यपदमाप्नयात् ।मृगासने नरः स्थित्वा सहस्रं प्रत्यहं जपेत् ॥९॥भैरवादीन् वशीकुर्यान्नात्र कार्या विचारणा ।मिश्रासने नरः स्थित्वा नन्दसाहस्रकं जपेत् ॥१०॥षण्मासाभ्यासयोगेन किं तद्यन्न करे स्थितम् ।दक्षदेशे गजे स्थित्वा प्रत्यहं त्रिशतं जपेत् ॥११॥शिवतुल्यः सिद्धिदाता भवत्येव न संशयः ।नीरधिस्थगजे स्थित्वा शतजप्तं जपेत्सदा ॥१२॥त्रिमासेन महेशानि राज्यलक्ष्मीमवाप्नुयात् ।पूर्वदेशे गजे स्थित्वा स्तोत्रं वा कवचं पठेत् ॥१३॥यः कुर्यान्मानवो देवि शत्रुहन्ता भवेद् ध्रुवम् ।उदग्देशे गजे स्थित्वा सहस्रं प्रत्यहं जपेत् ॥१४॥इन्दुतुल्यो रणे जित्वा भवेच्छरभसन्निभः ।पल्लकीं तु समारुह्य सर्वकालं जपेद्ध्रुवम् ॥१५॥भूमिपालों नरो भूत्वा त्रैलोक्यविजयी भवेत् ।गण्डकीं तु समाराध्य त्रिसन्ध्यं प्रजपेच्छिवे ॥१६॥अपि दासकुले जातः सोsपि राजा भविष्यति ।मानुषासनमासाद्य कालीमन्त्रं जपेत् सदा ॥१७॥नरनाथो भवेद्देवि नात्र कार्या विचारणा ।महिषासनमासाद्य सहस्राणां तु सप्ततिः ॥१८॥प्रजपेत्परमेशानि शत्रुसंहारको भवेत् ।विजये मानुषे देवि विद्वेषे वृषभे जपेत् ॥१९॥वृषभासनमासाद्य दिक्सहस्रं जपेच्छिवे ।शिवतुल्यो नरो भूयान्नात्र कार्या विचारणा ॥२०॥भल्लुकासनमासाद्य भैरवं प्रत्यहं जपेत् ।वेतालसिद्धिमासाद्य शत्रुहन्ता नरो भवेत् ॥२१॥सुग्रीवासनमासाद्य नवसाहस्रकं जपेत् ।राक्षसं वशगं कृत्वा शत्रुनाशकरो भवेत् ॥२२॥हनुमदासनमासाद्य लक्षमात्रं जपेच्छिवे ।लक्ष्मीपतिसमो भूत्वा स भूपालो भवेद् ध्रुवम् ॥२३॥जाम्बुवन्तं समाश्रित्य जपेल्लक्षार्धमादरात् ।रत्नाधिपो नरो भूयान्महामन्त्रवरो भवेत् ॥२४॥नीलासनं समाश्रित्य सहस्रार्धकमादरात् ।तथा नलासने देवि तथैव चाङ्गदासने ॥२५॥राजवर्यो नरो भूयान्महाविक्रमवान् भवेत् ।व्याघ्रासनं समाश्रित्य सर्वकालं जपेच्छिवे ॥२६॥देवीतुल्यो नरो भूयान्नात्र कार्या विचारणा ।व्याघ्रा दशविधाः प्रोक्तास्तत्क्रमं श्रृणु पार्वति ॥२७॥चित्रव्याघ्रं समासाद्य कालीमन्त्रं जपेत्सदा ।वाक्सिद्धिर्विविधा भूयान्नात्र कार्या विचारणा ॥२८॥अष्टव्याघ्रे महेशानि त्रैलोक्याधिपतिर्भवेत् ।लक्षमात्रं जपेद्देवि वल्लिव्याघ्रं श्रृणु प्रिये ॥२९॥वल्लीव्याघ्रासने स्थित्वा सर्वकालं जपं चरेत् ।मासमात्रेण सिद्धिः स्याद्देवानामपि दुर्लभा ॥३०॥धूसरासनमारुह्य त्रिसन्ध्यं त्रिशतं जपेत् ।त्रिकालज्ञो नरो भूयान्नात्र कार्या विचारणा ॥३१॥अथ बिन्दुमतो व्याघ्रं समाश्रित्य जपेत्सदा ।शत्रुराज्यं विनिर्जित्य सर्वान् कामानवाप्नुयात् ॥३२॥पक्षमात्रप्रयोगो हि महाव्याघ्रं श्रृणु प्रिये ।महाव्याघ्रासने स्थित्वा महाविद्यां जपेत्सदा ॥३३॥मासमात्रेण सिद्धिः स्यात्साधकः खेचरो भवेत् ।रोमव्याघ्रासने स्थित्वा त्रिसन्ध्यं त्रिसहस्नकम् ॥३४॥पक्षाभ्यासने देवेशि खेचरत्वमवाप्नुयात् ।कृष्णे राजासने स्थित्वा प्रत्यहं शतमात्रकम् ॥३५॥शतमात्रप्रजापेन यक्षिणीनायको भवेत् ।महाराजव्याघ्ररूपे स्थित्वा जपति कालिकाम् ।इति संक्षेपतः प्रोक्तं शिवाख्यं श्रृणु पार्वति ॥३६॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे गजव्याघ्रासनं नाम नामाष्टचत्वारिंशितः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP