संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| चतुःपञ्चाशतिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - चतुःपञ्चाशतिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत चतुःपञ्चाशतिः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।तन्मे कथय देवेश यद्यहं तव वल्लभा ॥१॥श्रीशिव उवाच ।तव प्रीत्या महेशानि रहस्यमपि कथ्यते ।मालायन्त्राणि सर्वाणि दुर्गञ्चैव तृतीयकम् ॥२॥त्रयाणां नहि भेदोsस्ति रत्नलेखनधारणे ।फलमेकं महेशानि द्रुतसिद्धिकरं भुवि ॥३॥बिन्दुरत्नविशीर्णाङ्गे कृमिकीटविवर्जिते ।दोषो न रत्ने देवेशि काश्मीरे मौक्तिके शिवे ॥४॥प्रवाले कथितो दोषः साङ्गं जलयुतं शुभम् ।मौक्तिकानामष्टजातिर्वंशादिक्रमयोगतः ॥५॥त्रिविधानि प्रवालानि हीरस्पर्शौ चतुर्विधौ ।अन्यो नियमो नास्त्यत्र रत्नं बहुविधं भवेत् ॥६॥बिन्दुत्रिबिन्दुवर्णादि नवसङ्करजातितः ।तत्रापि फलमेतद्धि कीर्तितं परशम्भुना ॥७॥मध्यं विद्धं कोणमष्टं वक्त्रे रेखा विजृम्भितम् ।न तद्यन्त्रं दोषकरं यत्सिद्धगुरुदर्शितम् ॥८॥न तद्यन्त्रं दोषकरं यत्सिद्धगुरुदर्शितम् ।जापे वै केवला सिद्धा यन्त्राणां गणनायकाः ॥९॥स्वर्णे वर्षार्द्धमात्रेण फलं भवति निश्चितम् ।रौप्ये वर्षोत्तरं देवि शिरोवस्त्रे द्विपक्षतः ॥१०॥कटिवस्त्रे त्रिपक्षान्ते फलं यच्छति मुद्रिका ।तथावरणवस्त्रे तु फलमत्रं प्रकीर्तितम् ॥११॥गारुत्मते पक्षमात्रात् सिद्धिर्भवति निश्चितम् ।प्रद्मरागे षड्दिनानां युग्मात् सिद्धिर्भवेद् ध्रुवम् ।पञ्चरात्रेण गोमेदे मनोवांछितकामदा ॥१३॥हीरके त्रिदिनेनैव वैडूर्ये दिनसप्ततः ।परिसे तत्क्षणादेव सिद्धिर्भवति निश्चितम् ॥१४॥इन्द्रनीले वेददिनैः सिद्धिर्भवति निश्चितम् ।प्रवाले मासदशकैर्मौक्तिके वसुमासतः ॥१५॥सिद्धिर्भवति देवेशि नात्र कार्या विचारणा ।मुद्रा माला तथा दुर्गं नाल्पस्य तपसः फलम् ॥१६॥रुद्रप्रयोगे देवेशि कर्त्ता हर्त्ता प्रजायते ।अन्ययोगं प्रवक्ष्यामि कामनाद्रव्यभेदतः ॥१७॥हरिद्रावत्सनाभेन दशयन्त्राणि लेखयेत् ।त्रैलोक्यनिग्रहे शक्तिर्दशाहेन भवेद् ध्रुवम् ॥१८॥वत्सनाभं समानीय दीपाग्रे तु प्रदर्शयेत् ।तैलं पतति यद्भूमौ तदान्यं घ्राणहोमतः ॥१९॥वत्सनाभं कृष्णवर्णं तैलाक्तं परमेश्वरि ।तेन मुद्रात्रयं लेख्य दीपे प्रज्वालयेन्नरः ॥२०॥त्रैलोक्याकर्षणं कुर्यान्मार्ज्य चोच्चाटनं चरेत् ।पुनर्लिख्य प्रतापाद्धि पुनराकर्षयेद् ध्रुवम् ॥२१॥पुनर्माज्य महेशानि त्रैलोक्याकर्षणं चरेत् ।विषेण प्रलिखेन्मुद्रां संपुटीकृत्य दीपके ॥२२॥प्रत्यहं दाहयेद्दिवि त्रैलोक्यनिग्रहो भवेत् ।विषाष्टकेन संलिप्य दाहयेदविचारयन् ॥२३॥यन्नाम्ना विलिखेद्देवि तमेव मारयेद् ध्रुवम् ।रत्नपीठे लिखेद्देवि भावयेत् प्रतिबिंबयेत् ॥२४॥ऊर्ध्वरेखा च वा देवि तथा पातालरेखिका ।हीरके परिसे नीले यथैव विलिखेत्तथा ॥२५॥कारयेद्यत्नतो देवि लेखयेदपि पार्वति ।रत्नेsपि विलिखेद्देवि यथाकामनया प्रिये ॥२६॥पुनर्लेख्य पुनर्मार्ज्य तदेव फलमश्नुते ।अन्यपीठादपि शिवे फलमत्राधिकं भवेत् ॥२७॥परिसे हीरके देवि कनिष्ठानां च पर्वणः ।मानं प्रोक्तं महेशानि गोमेदे स्यादनामिका ॥२८॥गारुत्मते मध्यमायां मध्यपर्वार्धमुद्रिका ।कारयेत्परमेशानि त्रैलोक्यविजयाय च ॥२९॥तर्जनी पूर्ववद्वापि पीठवैडूर्यसम्भवे ।इन्द्रनीले मध्यमायां मध्यमार्धं महेश्वरि ॥३०॥पद्मरागे तु तर्जन्या मध्यमे न्यूनमेव च ।पुष्परागे त्वनामाया मध्यं न्यूनानना भवेत् ॥३१॥वृद्धाया मध्यमा नामा न्यूना मुद्रा सुवर्णजा ।तदस्यार्द्धा सुवर्णे स्याद्रत्नवल्ल्यर्धरूपके ॥३२॥वर्तुलं चतुरस्त्रं वा वस्वस्त्रं वा षडस्रकम् ।नवास्त्रं ध्वजरूपं वा पीठं प्रोक्तं मया तव ॥३३॥न रत्नसदृशं पीठं न भूतं न भविष्यति ।यन्त्रसिद्धं जीवचक्रं यथा कौले प्रकीर्तितम् ॥३४॥यथा चीने कपालाख्यं यत्रपीठं सुसिद्धिदम् ।यथा जैने दिव्यपीठं बार्हस्पत्ये तु कीलकम् ॥३५॥तथा मुद्रादुर्गविधौ पीठमेतत्प्रकीर्तितम् ।अन्यत्र वर्षाद्या सिद्धिः सा रत्ने क्षणमात्रतः ॥३६॥द्रुतसिद्धिकरं पीठं रत्नपीठं महेश्वरि ।विंशत्यङ्के शताङ्के तु सहस्रदिक्सहस्रकम् ॥३७॥समाङ्कमात्रे देवेशि कोष्ठके नवकोष्ठके ।स ब्रह्मा स शिवः प्रोक्तं स स्वाराट् ईशतां व्रजेत् ॥३८॥अहो ज्ञानवतां ज्ञानी मुद्रादुर्गपरायणः ।शिव एव महेशानि नात्र कार्या विचारणा ॥३९॥एतत्सिद्धे महेशानि क्षणादिन्द्रत्वकारकः ।नवीनविष्णुनिर्माणं विधीनां दशपञ्चकम् ॥४०॥कर्तुं शक्रोति देवेशि नात्र कार्या विचारणा ।शिवताण्डवतन्त्रे तु यन्त्रं सिध्यभिधे परे ॥४१॥अङ्कार्णवसर्वस्तेतु अङ्कचूडामणावपि ।अक्षोभ्यकक्षपुट्यां तु खेचरीसिद्धिनामनि ॥४२॥संक्षेपेण मया प्रोक्तं विस्तरोsत्र प्रदर्शितः ।नवकोष्ठे समाङ्काख्ययन्त्राणि सिद्धिदानि च ॥४३॥पूर्वसिद्धानि कार्याणि ततश्च प्रत्ययं चरेत् ।कोट्यङ्कयन्त्रं देवेशि लिख्य धर्मे प्रतापयेत् ॥४४॥यन्नाम्ना तापयेद्देवि तमेवाकर्षयेद् ध्रुवम् ।पद्माङ्कमेतत् संलिख्य स्थापनीयमधोमुखम् ॥४५॥तत्र स्थित्वा जपेच्छक्तिं सर्वाकर्षणकुन्नरः ।पञ्चाशत्पद्मपर्यन्तं समाङ्के फलमेककम् ॥४६॥सर्वं हस्तगतं भूयान्नात्र कार्या विचारणा ।जलस्थलगता लोका यत्किञ्चिज्जगतीगतम् ॥४७॥स्त्रीहेमरत्नखङ्गादि पातालतलमप्यलम् ।सर्वमाकर्षयेत्तोर्णं कालीताराप्रसादतः ॥४८॥कालीताराप्रसादेन महामधुमतीं लभेत् ।मधुमत्याः प्रसादेन यत्किञ्चिद् गोलगोचरम् ॥४९॥सर्वमाकर्षयेत्तर्णं नात्र कार्या विचारणा ।गोपालसुन्दरी देवी यथा प्रोक्ता मया तव ॥५०॥कालीतारा मया प्रोक्ता ताराकाली तथा परा ।काली कालो कालकाली ताराक्षोभ्यस्तथैव च ॥५१॥अक्षोभ्यतारा देवेशि प्रत्येकं योजयेच्छिवे ।तस्योच्चारो भवेदादौ तत्पीठमादिमं मतम् ॥५२॥कालीपीठे यजेत्तारां तारापीठें तु कालिकाम् ।कालीपीठ यजेत्कालं तथैवाक्षोभ्यतारिणीम् ॥५३॥मेधा वा कमला लक्ष्मी रामा संवश्यकर्मणि ।इत्याद्यं प्रोक्तमाकर्षे x x x शक्तिपूजने ॥५४॥पीठतेतन्मया प्रोक्तं रहस्यातिरहस्यकम् ।गोपनीयं गोपनीयं गोपनीयं महेश्वरि ॥५५॥अवाच्यं कुरु देवेशि स्वयोनिरपरा यथा ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतिमिच्छसि ॥५६॥ इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे रत्नसङ्केतकथनं नाम चतुःपञ्चाशतिः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP