संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| सप्तत्रिंशतिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - सप्तत्रिंशतिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत सप्तत्रिंशतिः पटलः । Translation - भाषांतर श्रीशिव उवाच शृणु देवि वरारोहे रहस्यं महदद्भुतम् ।विना पूजां स्त्रियो x x सङ्गमे साधकोत्तमः ॥१॥सप्तजन्मदरिद्रत्वं नरके कोटिकल्पशः ।ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ॥२॥एतत्पापकृतो दोषो जायते नात्र संशयः ।वीरो वाsप्यथवा दिव्यो न बुद्ध्वा नरके व्रजेत् ॥३॥गुरुपूजाकृतिविधौ विद्योच्चारणकर्म तत् ।रहस्याख्यं कर्णकूपे दंशनं गण्ड x x ॥४॥भूतशुद्धिपरिरम्भो संभावेन्द्रियनिग्रहः ।प्राणायामस्तवाकृष्टिः न्यासस्तस्याः समाहितः ॥५॥परस्परावलोकश्च व्यानकर्म प्रकीर्तितम् ।नखदन्त x x दीनि धूपदीपप्रतापनम् ॥६॥तत्तत्तत्त्वविशेषाश्च प्रेममुद्रा प्रकीर्त्तिता ।पूजनं गायनं स्तुत्यं x x x विसर्जनम् ॥७॥ज्ञति प्रोक्तं महेशानि रहस्यमपरं शृणु ।सत्यमेतद्विना x x x सङ्गान्मन्त्रो न सिध्यति ॥८॥सङ्ग एव हि कर्तव्यः कर्तव्यं न च x x x ।पूजनीया सदा योषा मद्भावकृतनिश्चयः ॥९॥तस्यां तु x x x देवि कर्तव्यं मम साधकैः ।मम भावस्वरूपा सा मत्स्वरूपा महं च सा ॥१०॥यदि न x x देवि सा कथं भवतारिता ।भरता दृढपापेन सदृशो जायते नरः ॥११॥मद्भावप्रतिपन्नापि अधिकारी न x x x ।यादृशी तु दृढे ज्ञाने मद्भावैकपरायणा ॥१२॥कदाचित्पतितां वापि कदाचिद्वापि पूतताम् ।कदाचित् गुरुतां याति कदाचिदपि शिष्यताम् ॥१३॥इदृशं सर्वदा ज्ञानं निश्चयं यस्य योषितः ।स विष्णुः स शिवः साक्षात् स योग्यः सर्वकर्मसु ॥१४॥श्रेदेव्युवाच अहं हि जगतां धात्री जननी जन्मकारणम् ।मद्भावप्रतिपन्ना या साsहमेव सुनिश्चितम् ॥१५॥कर्तव्या x x x नैव तस्या मनोविकारणा ।मोहाद्वा गुरुमौढ्याद्वा यदा यत्कुरुते सुधीः ॥१६॥वीरो वाsप्यथवा दिव्यो अबुद्ध्वा नरकं व्रजेत् ।गुरुपत्नीं द्विजपत्नीं पितृपत्नीं प्रपूजयेत् ॥१७॥x x x नरकं यावत् तावत्कोटिगुणं भवेत् ।पापासम्भवमापन्ना नारी सर्वमयी हि सा ॥१८॥अहं च रोषसम्पन्ना नाशयामि तमीश्वर ।छिन्नशिरः शिरा तस्य द्वेषं पश्येद्भिया तपेत् ॥१९॥भयाहतोsपि पापात्मा प्राप्नोति नरकं महत् ।अथवाsपि चिरञ्जीवेन्महादुर्गतिदुर्गतिम् ॥२०॥निरन्तरं रोगपीडा जायते तस्य पापिनः ।कदाचन शिरःपीडा कदाचित्तु गुरुज्वरः ॥२१॥कदाचित् गात्रसन्तापः कदाचित्कर्णपीडनम् ।कदाचिदपि कण्डूः स्यात्कदाचित्तु विचर्चिकाम् ॥२२॥अनालोक्यं च बाधिर्यं खञ्जता कुब्जता तथा ।अन्येsपि विविधा रोगाः कुष्ठाद्याः प्रभवन्ति हि ॥२३॥चक्षुर्नाशः श्रुतिच्छेदो नासाच्छेदस्तथैव च ।करच्छेदः पादच्छेदः शिरश्छेदोsपि जायते ॥२४॥पशुपीडा राजपीडा वह्निपीडाsपि जायते ।कुलं तस्मात्त दोषेण भ्रियते नात्र संशयः ॥२५॥प्रार्थनामपि कुर्वाणो न लभेदन्नमुष्टिकम् ।मूलाहारः फलाहारः पत्राहारो जलाशनः ॥२६॥प्रायशो जायते पीडा तपःफलविवर्जितः ।तस्य स्यादसकृद्बन्धुद्रोहो भृत्याश्च तस्कराः ॥२७॥स्वगोत्रकलहो नित्यं स्वगोत्रहिंसनं सदा ।सुहृद्भिः क्रियते द्वेषो रिपुणा बध्यते स तु ॥२८॥स्वयोषाsपि विषं दद्यान्मित्रं वा सेवकोsथवा ।औषधं च भवेत्तस्य महाहालाहलं प्रभो ॥२९॥हितं पथ्यं सुहृद्वाक्यं कदाचन रोचते ।हिता न वदनात्तस्य क्कचिद्वाणी बहिर्भवेत् ॥३०॥चारूक्ता बन्धुजा वाणी विपरीतेव जायते ।तदाज्ञाकारिणो न स्युः सुहृद्भृत्यादयस्तथा ॥३१॥एकादशगृहस्थो हि ग्रहः पीडयते ध्रवम् ।अन्यथा सिद्धिमापन्ना मन्त्राः स्युर्हतसिद्धयः ॥३२॥एते ते कथिता दोषा योषि x x x सम्भवाः ।अधिकारविहीनानां अधिकारयुतेन हि ॥३३॥ईश्वर उवाच अधिकारी भवेत्कीदृक् देवेशि भवदर्चने ।कथं स्यादधिकारश्च प्रागभ्यासप्रवर्तनम् ॥३४॥महान्ममैव सन्देहो वर्द्धते जगदीश्वरि ।तदेव श्रोतुमिच्छामि सन्देहं छेदय प्रिये ॥३५॥ममानुग्रहतो देवि तदेतद्वक्तुतर्हसि ।श्रीदेव्युवाचश्रृणु देव प्रवक्ष्यामि गुह्यात् गुह्यतरं महत् ॥३६॥गोपितं सर्वतन्त्रेषु न देयं यस्य कस्यचित् ।अहमेव परं ज्ञानमहमेव परा गतिः ॥३७॥अहमेव परं ध्यानमहमेव परा श्रुतिः ।मत्तः परतरं विश्वे न किञ्चिदवलोकयेत् ॥३८॥अहमेव जगत्सर्वं जगदेवाहमीश्वर ।मद्भावभावितानां हि भवद्वै तादृशी शिव ॥३९॥एवं ज्ञानविशिष्टः स्यादधिकारी भवेच्छिव ।ब्रह्माविष्णुमहेशादिसर्वदेवमयो हि सः ॥४०॥जायमानस्य बालस्य x x x x ।सम्पर्केण विकारो हि न यथा जायते क्कचित् ॥४१॥साधकस्य तथा यस्य मतिः स्यादविकारिणी ।सोsधिकारी भवेन्नित्यं यागादौ सह योषिता ॥४२॥मद्भावप्रतिपन्ना या मत्स्वरूपाsहमेव सा ।विकारो नहि योषायां तस्यामर्पित एव हि ॥४३॥एवं यस्य स्थिता बुद्धिः सोधिकारी न संशयः ।भ्रातृ x x परित्यज्य सर्व x x विचारयेत् ॥४४॥सङ्गमे साधकश्रेष्ठः शिववत् क्रीडते भुवि ।प्रथमन्यासकाले तु यावद्धैर्य्यं न जायते ॥४५॥तावत्कामविलोपार्थं यतितव्यं प्रयत्नतः ।कामभावविलोपार्थं सङ्गं कृत्वैव x x x ॥४६॥साधयेन्सर्वकार्याणि यावज्ज्ञानं न जायते ।ततो ज्ञाने समुत्पन्ने स्वच्छन्दं विहरेत् पुमान् ॥४७॥एवं कर्तुमशक्तस्तु नाधिकारी कथञ्चन ।कुर्याज्जपं तथा होमं तर्पणं मार्जनं तथा ॥४८॥द्विजानां भोजनं चैव योषित्सङ्गविवर्जितः ।साधकस्य भवेद्यस्तु यत्स्वरूपेष्टदेवता ॥४९॥तद्वर्पणसमतेजोभिः पूर्णं भुवनमण्डलम् ।भावनाभिः स्थिरीकृत्य देवताध्यानतत्परः ॥५०॥यथास्वरूपवर्णादि चिन्तयेद्यतमानसः ।एवं यस्य मनो नास्ति तस्य प्रतिनिधिः स्मृतः ॥५१॥कुमार्यामेव कर्त्तव्यं न x x x कदाचन ।यतः स्या x x योग्यामविकाराय कल्प्यते ॥५२॥न प्रयोगादिकं क्कापि गृहस्थो निजयोषितः ।कुमारीभोजनादेव कुमारीपूजनादपि ॥५३॥कुमारीचिन्तनादेव त्रैलोक्यविजयी भवेत् ।इति संक्षेपतः प्रोक्तं गौडानां वीरयोषिताम् ॥५४॥श्रीशिव उवाच श्रृणु यत्नेन देवेशि रहस्यातिरहस्यकम् ।विना मद्यन मांसेन पुंश्चलीसेवनं विना ॥५५॥न मन्त्रसिद्धिमाप्नोति चन्द्रसौरक्रमार्चिते ।अलिना पूरितं पात्रं बलिना पूरितो अलिः ॥५६॥अलिं बलिं च रामाञ्च किन्न सिध्यति भूतले ।विशेषं श्रृणु देवेशि पूजाप्रकरणं तथा ॥५७॥विजया सर्वदा प्रोक्ता ताम्रपात्रे पयस्तथा ।मधुमिश्रा तु विजया गौडब्राह्मणकर्मणि ॥५८॥x x x नन्तरं सिर्द्धिमधुपानैर्विशेषतः ।नृत्यगीतादिभिः सर्वैर्गुरुशुश्रूषणैस्तथा ॥५९॥अष्टम्यां च चतुर्दश्यां नवम्यां सङ्क्रमे तथा ।अमायां देवदेवेशि भौमे शुक्रग्रहत्रये ॥६०॥काली तारा स्थिता तत्र पूजनाद्वरदायिनी ।स्वशक्त्या सर्वदा पूज्यानन्तरा पञ्चपर्वणि ॥६१॥नो चेन्मांसेन सम्पूज्यानन्तरा वत्सरो यदि ।अगम्यागमनं चैव तथाsभक्ष्यस्य भक्षणम् ॥६२॥सकृदुच्चारितो मन्त्रो दहत्यग्निरिवेन्धनम् ।पैष्टी गौडी तथा माध्वी तालखर्जूरसम्भवा ॥६३॥नारिकेली तथा द्राक्षी पूगी चान्यैरुपस्कृता ।पैष्टी शूद्रस्य माध्वी च क्षत्रियस्य तथा द्वयम् ॥६४॥पैष्ट्यादि सर्वं शूद्रस्य ब्राह्मणस्य न पिष्टजा ।ब्राह्मणेनैव दातव्या विना माध्वीं कथञ्चन ॥६५॥अथान्येषु प्रकारेषु नाधिकारो द्विजन्मनाम् ।अथवा कुलमद्येन पूजयेत्कुलसुन्दरीम् ॥६६॥योगिभिः पीयते मद्यं न मद्यं द्विजपुङ्गवैः ।न मद्यं पानयोग्यं स्यान्न मद्यं गुडमिश्रितम् ॥६७॥अशक्तद्विजजातीनां विधिं श्रृणु प्रयत्नतः ।ब्राह्मणस्ताम्रपात्रे तु मधु मद्यं प्रकल्पयेत् ॥६८॥अनुकल्पस्त्वशक्तानां नान्यथा पातकी भवेत् ।नो चेत्सिद्धिकरी देवि प्रजप्तैरपि कोटिभिः ॥६९॥पुरश्चरणलक्षैश्च होमानामपि कोटिभिः ।ताम्बूलेन विना यस्तु कालिकां दशधा जपेत् ॥७०॥इह क्षोभमवान्पोति परत्र नरकं व्रजेत् ।ताम्बूलं x x चक्रञ्च मुण्डमाला शवासनम् ॥७१॥सिन्दूरं खङ्गकं चैव संविदासवयो रसः ।एतान्विहाय यः कश्चित्कालीं साधितुमुद्यतः ॥७२॥इह क्षोभमवाप्नोति परत्र नरकं व्रजेत् ।कोट्यर्बुदयुगैर्देवि नहि सिध्यति तारिणी ॥७३॥चिन्मयेsयं निगदिता महाकालाय वै पुरा ।कालिकामनुजापी तु स्पृशेत्पातकिनं यदि ॥७४॥स तु संस्पर्शमात्रेण सर्वसिद्धीश्वरो भवेत् ।गद्यपद्यमयी वाणी भवेद्ब्रक्षापरम्परा ॥७५॥जायते देवदेवेशि काव्यकर्ता क्षणेन तु ।अतीतानागतं ज्ञानं वर्तमानं च पश्यति ॥७६॥तस्माxxर्मुख्यभूता सर्वसिद्धिप्रदर्शिनी ।x x चक्रं समालोच्य यत्किञ्चित्कुरुते नरः ॥७७॥तत्तदक्षय्यमायाति छिन्नविद्याप्रसादतः ।कालीं विहाय यः कश्चित् सिद्धिमिच्छति कामुकः ॥७८॥स चक्षुषा विना रूपं दर्पणे द्रष्टुमिच्छति ।शक्तिं विहाय यः कश्चित् कालिकां द्रष्टुमिच्छति ॥७९॥स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति ।कालीविद्या सिद्धविद्या महाविद्या प्रकीर्तिता ॥८०॥इयं विद्या त्रिधा देवि जप्यते स्मर्यतेsथवा ।तदैव सिद्धिया तस्य सा चान्यस्य वरप्रदा ॥८१॥तस्याः सकाशान्मन्त्रोsयं ग्राह्यो यत्नेन पार्वति ।पाणौ विचिन्त्य जप्तव्यः सिद्धिर्दिवसमात्रतः ॥८२॥कृष्णाष्टम्यां चतुर्दश्यां मङ्गलें वासरे निशि ।कृष्णपक्षे विशेषेण कारयेत्सर्वदा गृहे ॥८३॥मृदुचूडयोxx कोमले विष्टरेsपि च ।एकलिङ्गे शून्यदेशे शून्यगेहे जलार्णवे ॥८४॥श्मशाने कुलवृक्षे तु शवमुण्डे रणाजिरे ।स्वयम्भूकुसुमं वापि अथवा x x जं च वा ॥८५॥एतेषु कालिका देवि स्वय तिष्ठति निश्चितम् ।एतान् स्थानान् शुभान् विद्धि महाकौलवरप्रदान् ॥८६॥श्मशानं तु समाश्रित्य यं यश्चित्कालिकां जपेत् ।तस्य काली प्रसन्नाsस्ति नात्र कार्या विचारणा ॥८७॥x x शवे श्मशाने वा कालिकां दशधा जपेत् ।तस्य काली प्रसन्नाsस्ति नात्र कार्या विचारणा ॥८८॥मुनिदिननरमुण्डं साधनार्हं सुशस्तम् शशिदिननवमुण्डं दैवतं नोत्तमं च ।हुतवहदिनमुण्डं मालिकाद्येषु शस्तम् तपनदिनसुमुण्डं मध्यमं कार्यपात्रे ॥८९॥हायनायनमासैश्च कलामुत्पत्तिचन्द्रमा (?) ।साध्यादि क्रमतो सायं दिक्पात्रं परमेश्वरि ॥९०॥एवं सर्वं तु विज्ञाय मुण्डं लक्षणपूर्वकम् ।साध्यं सिद्धं सुसिद्धं च सुसिद्धेयं तथैव च ॥९१॥वीर च दैवतं दिव्यं क्रमेण परिकीर्तितम् ।इति संक्षेपतः प्रोक्तं श्रृण्वेतत्साधनं शुभम् ॥९२॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे शक्तिसङ्गमरहस्यकथनं नाम सप्तत्रिंशतिः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP