संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| पञ्चमः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - पञ्चमः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत पञ्चमः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।ब्रह्मत्वं कथमित्युक्तं वदस्व मयि शंकर ।श्रीशिव उवाच ।अथातः संप्रवक्ष्यामि तच्छृणुष्व प्रियंवदे ॥१॥xxसंयोगे यत्सौख्यं सामरस्यात्मकं परम् ।परानन्दरसो मुक्तिरिति संख्या प्रकीर्तिता ॥२॥xxxsधिकतो देवि शिवजन्म प्रजायते ।xxxsधिकतो देवि कन्यारूपी स्वयं शिवा ॥३॥साम्याद्देवेशि ब्रह्मत्वं निर्गुणोsयं निराकृतिः ।निर्गुणत्वं कथं देवि तदेव कथ्यते श्रृणु ॥४॥क्रियमाणस्ततो देवि बुद्धिस्तु कुण्ठतां गता ।तदेव निर्गुणत्वं च निराकारत्वमम्बिके ॥५॥अनेकधा वर्ण्यमानमेकमेवास्ति केवलम् ।यथा यथा यस्य बुद्धिस्तथा तेन प्रवर्ण्यते ॥६॥वर्णनाशक्तिरूपं च तद्ब्रह्म परिकीर्तितम् ।पूर्वं संवर्णितं यत्तु सगुणं तत्प्रकीर्तितम् ॥७॥अवर्ण्यं यन्महेशानि निर्गुणं तत्प्रकीर्तितम् ।ब्रह्मानन्दसमुत्पत्तिर्निर्गुणाsपि प्रदृश्यते ॥८॥निर्गुणा समता खण्डे न खण्डसमता परे ।एवं समरसानन्दो मुक्तिरित्यभिधीतये ॥९॥xxxद्भवं सौख्यं ब्रह्मानन्देति तं विदुः ।तदुद्भवे महासौख्यं परब्रह्मेति कीर्तितम् ॥१०॥शक्तिदर्शनजं सौख्यं स्वर्ग इत्यभिधीयते ।सौख्यानन्दो भवेन्मुक्तिरित्युक्तं कालिकागमे ॥११॥पुनर्गमागमं सौख्यं विरक्तिः परिकीर्तिता ।विपरीतं ब्रह्मतत्वं महानन्दस्तदुद्भवः ॥१२॥आलोकनं ब्रह्मपदस्पर्शनं ब्रह्मदर्शनम् ।संयोगो ग्रहणं देवि वियोगः संक्रमः स्मृतः ॥१३॥ध्वनिर्वाद्यादि देवेशि संक्षेपतो मतं शिवे ।परतत्त्वे स्वात्मशक्तौ स्वात्माकारे शिवे सदा ॥१४॥शरीरस्थे xxxx सामरस्यं विलोक्यते ।एतदभ्यासकार्यार्थ शक्तिसंभोगभावना ॥१५॥एदं सुखं यथा देवि यथा कुण्डलिनी शिवे ।सौख्यानन्दे समायाते सति निर्गुणता मता ॥१६॥असिधाराव्रताख्येयं कालिका कीर्तिता भुवि ।शक्तियोगाच्छिवे ब्रह्मरूपत्वं कीर्तितं मया ॥१७॥सब्रह्मभावनां कृत्वा पूर्वं परशिवः स्थितः ।सर्वसंहारकं कर्म कृत्वोद्दण्डं विधाय च ॥१८॥बृहद्दण्डं विहायाथ शिवो ध्यानपरो ह्यभूत् ।ध्यानस्य संश्रुतिर्जाता सा ब्रह्मभावनां गता ॥१९॥तदभ्यासनिमित्तार्थं शक्तेराकर्षणं कृतम् ।देव्या ज्ञातं शिवो भ्रष्टो मार्गच्युतिपरायणः ॥२०॥शिवस्य बुद्धिस्मरणं दत्तं देव्या कृपा कृता ।एवं बुद्धिः कृता देव्या शिवो यातु ममोत्तरे ॥२१॥मानसे धृतमात्रेण शिवेनाकर्षणं कृतम् ।शिवाकर्षणकं कर्म मम मिथ्यात्वदायकम् ॥२२॥इत्येवं मानसे धृत्वा मंत्रः काल्या प्रकाशितः ।कालिका कामसुरता महाकालसमन्विता ॥२३॥सा एव आदिनाथोक्तं परब्रह्मेति गीयते ।सच्चिदात्मस्वरूपेयं ब्रह्मरूपाsथ निर्गुणा ॥२४॥त्वया स्वनिर्मिता शक्तिः शिवाग्रे स्वर्गमागता ।साधनार्थं मया दत्तेत्येवं श्रीकालिकाsब्रवीत् ॥२५॥सदाशिवः परशिवः पूर्वाभ्यासेषु तत्परः ।एवं शक्तेः साधनाच्च काली काम्युमुपागतः ॥२६॥काल्यग्रे शिवशक्तिस्तु या काल्या निर्मिता पुरा ।अतिगर्वान्तितः शम्भुर्द्वितीया सुन्दरी मम ॥२७॥पूर्वा काली महाविद्या सा वै सुन्दरिका न हि ।एकस्मिन्दिवसे देवि द्वाभ्यां शक्तया समन्वितः ॥२८॥प्रपञ्चमूलो हि शिवः कालाभ्रसन्निभा वदेत् ।द्वितीयवाक्येsपि तया घोरदंष्टेति संवदेत् ॥२९॥तृतीयवाक्ये देवेशि द्वितीयां सुन्दरीं प्रति ।त्रैलोक्यसुन्दरी प्राणप्रिये मम स्वरूपिणी ॥३०॥इत्युक्ता दक्षिणा देवी ब्रह्मरूपाद्यचण्डिका ।आदिशक्तिः पूर्णरूपा क्रोधाविष्टा बभूव च ॥३१॥तदा तु सुन्दरं रूपं सौभाग्यार्णवकं परम् ।राजराजेश्वरीरूपं बिभ्रती परमेश्वरी ॥३२॥तदा परशिवः शम्भुर्विस्मयाविष्टलोचनः ।प्रकर्षेण तु पञ्चानां संयोगो युगपद्भवेत् ॥३३॥प्रपञ्चातीतशीलेन गदिता परमेश्वरि ।महाप्रपञ्चरूपा त्रै कोटिब्रह्माण्डनायिका ॥३४॥षोडशी वै तदा जाता महाश्रीचक्रनायिका ।आद्या श्रीदक्षिणाकाली द्वितीया कालभैरवी ॥३५॥तृतीया राजराजेशी विद्या या परिकीर्तिता ।तस्याः कृपाकटाक्षेण राजराजेश्वरो ह्यभूत् ॥३६॥न्यासजालादिकं सर्वं पूजामंत्राण्यनेकधा ।तदैव च षडाम्नाया ऊर्ध्वाम्नायादिकाः प्रिये ॥३७॥पूर्वा प्रकृतिरूपा स्यान्मूलविद्या प्रियंवदे ।तदाम्नायप्रपञ्चोsयं निर्मितः परमेश्वरि ॥३८॥काद्यं मतं कादिमतं हाद्यं हादिमतं प्रिये ।ककारो ह्यादिभूतस्तु हकारस्त्यन्तगो मतः ॥३९॥क्षकारो मेरुसंज्ञस्तु स्वराः षोडश कीर्तिताः ।कहेत्येवं महामंत्रस्तूत्तराम्नायगोचरः ॥४०॥उत्तराम्नायराज्ञी च श्रीमहातारिणी तु सा ।सुन्दरी कालिकारूपा श्रीमहाब्रह्मतारिणी ॥४१॥तारिणीद्वितयं देवि सर्वदा तिष्ठति प्रिये ।एवं युग्मात्मको मन्त्रः कादिहादिमतात्मकः ॥४२॥प्रथमः कादिवर्णो वा हादिकः प्रथमोsय वा ।कादिः प्रथमवर्णः स्यात् हादिश्चरम ईरितः ॥४३॥वीरेश्वराणां गणना नास्त्येव प्रियवादिनि ।मातृकेति तथेत्युक्ता तदक्षरसमन्विता ॥४४॥सम्पूर्णमातृका देवि विद्यात्वेन न संशयः ।तस्मात्कादिमतं चाद्यं कीर्तितं प्रियवादिनि ॥४५॥कादिहादिश्चादिवर्णैर्गृह्यते यदि भाविनि ।कादिहादिस्तु सर्वत्र मंत्रः प्रोक्तो महेश्वरि ॥४६॥ककाराद्ब्रह्मरूपत्वं सुन्दरी परशिवात्मिका ।कलौ कादिमतं पुण्यं पूर्वमेकं स्थितं प्रिये ॥४७॥एवं संसारसिध्यर्थं प्रपञ्चो निर्मितः पुरा ।आगमे बहवो भेदाः षड्दर्शनप्रकारजाः ॥४८॥अन्येsपि कोटिशो भेदाः सन्त्येव प्रियवादिनि ।धर्मशास्त्रं चतुर्वेदाः पुराण व्याकृतिस्तथा ॥४९॥न्यायमीमांसावेदान्तसांख्यपातञ्चलं तथा ।काव्यदिबहवो भेदाः प्रपञ्चा एव कीर्तिताः ॥५०॥यदारभ्य धृतं रूपं सुन्दरं परमेश्वरि ।तदारभ्य प्रपञ्चोsयं सर्वत्र परिवर्तते ॥५१॥यदि कादिमतं चैकं वर्तते सत्यवादिनि ।तदा पुमांसो देवेशि महाकालस्वरूपिणः ॥५२॥स्त्रियः श्रीकालिकारूपा भवन्त्येव न संशयः ।इत्येवं हि प्रपञ्चार्यं शाक्तं वैष्णवशाम्भवम् ॥५३॥गाणपं सौरबौद्धं च षड्दर्शनमितीरितम् ।मतानि बहुसंख्यानि संजातानि सुरेश्वरि ॥५४॥वैदिके शास्त्रनिन्दा स्याच्छाक्ते वैष्णवनिन्दितम् ।वैष्णवे शैवनिन्दा स्यात्सौरे गणपतेस्तथा ॥५५॥गाणपत्ये सौरनिन्दा सौरे वीरस्य निन्दनम् ।चीने जैनस्य निन्दा स्यात् जैने कापालिकस्य च ॥५६॥कापालिके बौद्धनिन्दा बौद्धा नानाविधा मताः ।एवं भिन्नमतान्याहुः पुराणाद्येषु शाम्भवि ॥५७॥वेदानां चैव शाखा वै बहवः परिकीर्तिताः ।एवं निन्दा समापन्ने भेदे जाते महेश्वरि ॥५८॥नैकत्र तु मनो लग्नं क कस्य प्रियवादिनि ।सर्वत्रान्योन्यनिन्दा तु प्रपञ्चेंन प्रकाशिता ॥५९॥भिन्नं भिन्नं प्रशंसन्ति निन्दन्ति च परस्परम् ।न विद्या सिद्धिमान्पोति संभ्रमन्ति पिशाचवत् ॥६०॥अन्योन्यं यदि निन्दा न तदैवैक्यं प्रजायते ।तस्मादैक्यसुसिध्यर्थं कालिका भवतारिणी ॥६१॥पुनर्वै दैत्यनाशार्थं रूपं सुन्दरमेवतु ।संबिभ्रती महादेवी शुम्भाद्याखिलनाशिनी ॥६२॥सप्तप्रेतैकपर्यङ्कराजिते शवहृच्छिवा ।श्वेतरूपमहाकालहृदयाम्भोजवासिनी ॥६३॥कोटिकालानलज्वाला सेवनीया विधानतः ।सर्वं सर्वादिभूतेयं कोटिसिद्धिप्रदायिनी ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥६४॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यतारासंवादे ब्रह्मवीरायोगो नाम पञ्चमः पटलः ॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP