संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| अष्टषष्टिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - अष्टषष्टिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत अष्टषष्टिः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि अचूडकविशोधनम् ।श्रीशिव उवाच ।अचूडकासने देवि सिद्धयः सकलाः स्थिताः ॥१॥तमासनं समादाय मकारपञ्चकान्वितः ।भौमाष्टम्यां चतुर्द्दश्याममायां दीपकोत्सवे ॥२॥कुलऋक्षेsपि देवेशि अचूडकासनं भवेत् ।दिग्बन्धभूतशुद्ध्यादीन्कृत्वा यत्नेन पार्वति ॥३॥वज्रोदके समारभ्य रक्ष रक्षान्तकं शिवे ।मन्त्रान्विज्ञाय यत्नेन साधयेदिष्टसाधनम् ॥४॥अन्यत्सर्वं पूर्ववत्स्यात् कोमलेsप्येवमेव तु ।मुण्डासनं प्रवक्ष्येsहं श्रृणु सावहिता भव ॥५॥भौमामायां चतुर्दश्यां मङ्गले शनिवासरे ।दीपोत्सवे च फाल्गुन्यां साष्ठरात्रिदिनेsपि च ॥६॥पूर्वकृत्यं समाप्याथ याममात्रं गते निशि ।वीरवेषो दयायुक्तो भक्तभक्तो जितेन्द्रियः ॥७॥महाबलो महाबुद्धिर्विजितः सर्वशास्त्रवित् ।खड्गहस्तो मुक्तकेशः सिंदूरतिलकान्वितः ॥८॥बलिद्रव्याणि चादाय दृढभक्तो महारुचिः ।वीरसाधनसामग्रीं सव्रतः साधकोत्तमः ॥९॥शिवाबलिं प्रदत्त्वादौ तदन्ते मुण्डसाधनम् ।शिवारूपा स्वयं देवि तत्र विघ्नहरा ध्रुवम् ॥१०॥अन्यथा विघ्नकर्तारो देवदैत्याश्च मानवाः ।सर्वविघ्नविनाशार्थं सिद्ध्यर्थं करवीं जपेत् ॥११॥स्मशाने गह्वरे नद्यां शून्यगेहेsपि साधयेत् ।स्मशाने चेन्महेशानि विधिस्तत्र स्मशानवत् ॥१२॥अन्यत्र वीरवत्कार्यं साधनं सर्वसाधनम् ।खादिरान् कीलकानष्टौ निखनेन्मन्त्रमुच्चरन् ॥१३॥महामण्डलमन्त्रैश्च सर्वविघ्नान्विघातयेत् ।मुण्डमानीय यत्नेन पञ्चगव्यं विनिक्षिपेत् ॥१४॥दुग्धेन स्नानमाचर्य ततः संविज्जलेन च ।तदन्ते सुरया स्नानं कृत्वा यत्नेन पार्वति ॥१५॥तैलं लाप्य च तन्मुण्डे सिंदूरं कज्जलं तथा ।गन्धपुष्पैश्च सम्पूज्य खनेद्धस्तार्धमानतः ॥१६॥सर्वमुण्डे विधिरयं शूलप्रोतादिके शृणु ।शूलं सम्पूजयेद्देवि समारोपं ततश्चरेत् ॥१७॥शूलराज महाक्रूर सर्वभूतप्रियंकर ।सिद्धिं सङ्कल्पितां देहि वज्रशूल नमोsस्तु ते ॥१८॥दीपं प्रज्वाल्य तत्रैव खड्गेन कर्तयेत्स्वयम् ।वीरं सम्पूज्य यत्नेन तात्कालं मुण्डमाहरेत् ॥१९॥कालीखड्गसमुद्भूत सर्वसिद्धिप्रदायक ।कलिचिन्तामणि त्वञ्च खड्गमुण्ड नमो नमः ॥२०॥पाशयुक्तो मनुरयं प्रणवं पूर्वमुद्धरेत् ।नागपाश महासिद्ध वेताल खेचरेश्वर ॥२१॥ऊर्ध्ववक्त्र महाकाय पाशहस्त नमोsस्तु ते ।एवं सम्प्रार्थ्य संग्राह्य भ्रान्तिं तत्र न कारयेत् ॥२२॥साधको भयभीतश्चेत् खड्गाराधनमुच्चरेत् ।लक्षद्वयं तत्र जपेद्वीरमार्गक्रमेण च ॥२३॥एवं साधितमुण्डस्य फलं सिद्ध्यष्टकं करे ।संसाधितेन मुण्डेन मालापात्रादिकं चरेत् ॥२४॥पात्राणां शोधनं देवि श्रृणु यत्नेन साम्प्रतम् ।इन्द्रो तदादितः सेन्दु मन्त्रेणानेन मार्जयेत् ॥२५॥ध्रुवं मण्डलमन्त्रेण भूगृहं वृत्तवह्नियुक् ।कुर्यात्तत्राधारशक्तिं कूर्मानन्तान् प्रपूजयेत् ॥२६॥व्योमाग्निशक्तिसहितमस्त्रमेतत् ध्रुवादिकम् ।अनेन मनुनाधारं स्थापयेत्तत्र मंत्रवित् ॥२७॥वह्निमण्डलमेतस्मिन्पूजयेत्तदनन्तरम् ।कोर्ह्दवज्रास्त्रबीजाभ्यां आधारक्षालितं शुभम् ॥२८॥महाशङ्खं महामन्त्री स्थापयेत्पीठके ततः ।शिवा दीर्घत्रयोपेता कालीब्रह्मरमायुता ॥२९॥दीर्घः शचीपतिर्वायुहृदयं मन्मथान्तिमम् ।शिवा दीर्घत्रयोपेता नीलाशब्दस्तु पूर्ववत् ॥३०॥मायास्मरांतिमं शम्भुं वामकर्णेन्दुसंयुतम् ।सर्वकामकालरात्रिः दीर्घालयपदान् पुनः ॥३१॥सर्वाधाराय सर्वाय सर्वोद्भवाय शब्दतः ।सर्वसिद्धिं समादाय सर्वासुरपदं ततः ॥३२॥रुधिरारुणाय सुभ्राय प्रोच्चार्य सुरभाजनम् ।आपोदेविकपालाय हृदयान्तो मनुर्मतः ॥३३॥एभिश्चतुर्भिर्मनुभिर्महाशङ्खं प्रपूजयेत् ।तन्त्रसारं जपन्मन्त्री मण्डलं तिग्मरोचिषः ॥३४॥मूलेन पूरयेत्तोयं सुधाबुद्ध्या विधानवित् ।गन्धपुष्पाक्षातान् क्षिप्त्वा त्रिखण्डं दर्शयेत्ततः ॥३५॥पीयूषरोचिषो देवि मण्डलं तत्र पूजयेत् ।वाचशक्ति रमेशक्ति मनुस्वरसमन्वितम् (?) ॥३६॥मूलतृतीयं भैरव्यां क्रोधबीजसमुज्वलम् ।अनेन मनुना मन्त्री भावयेदष्टशतं जपेत् ॥३७॥शक्तया सुधां विनिःक्षिप्य शंखयोनिं प्रदर्शयेत् ।विशेषार्ध्योक्तविधिना सर्वमन्यत्पुरोक्तवत् ॥३८॥एवं यथोक्तविधिना कपालपात्रमुत्तमम् ।अनेन पात्रवर्येण साधयेदिष्टसाधनम् ॥३९॥वाञ्छासिद्धिं खेचरीं च परकायप्रवेशनम् ।मनोरथं दिव्यदृष्टिर्वेतालगुटिके तथा ॥४०॥रसं रसायनं दिव्यं पादुकां यक्षिणीगणम् ।खङ्गसिद्धिं कुलसिद्धिं पाशं चाञ्जनमेव च ॥४१॥मूर्त्तिसिद्धिर्भैरवाष्टमहाकपालिनी शिवे ।कपालार्ध्येण देवेशि सर्वं सिध्यति निश्चितम् ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥४२॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे कपालपात्रविधिर्नामाष्टषष्टिः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP