संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| अष्टमः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - अष्टमः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत अष्टमः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।विद्यासिद्धिं विना देव सिध्यति न हि वा वद ।यक्षिण्यादिमहासिद्धिस्तस्य हस्ते कथं भवेत् ॥१॥श्रीशिव उवाच ।एतज्ज्ञानवशाद्देवि सर्वं सिध्यति नान्यथा ।अपसरोमण्डलं देवि किन्नरीमण्डलं तथा ॥२॥गन्धर्वमण्डलं देवि सिद्धगुह्यकमण्डलम् ।पिशाचमण्डलं चैव भूतिनीमण्डलं तथा ॥३॥नागिनीमण्डलं देवि डाकिनीमण्डलं तथा ।कुष्माण्डमण्डलं देवि तथा शाबरमण्डलम् ॥४॥दशविद्याक्रमेणैव श्रीक्रोधमण्डलेन वा ।पार्षन्मण्डलयोगेन सर्वाः सिध्यन्ति सिद्धयः ॥५॥मण्डलत्रितये देवि अप्सराद्याः सुसुद्धिदाः ।मन्त्रसिद्धिविधानेन सर्वाः सिध्यन्ति केवलम् ॥६॥काली तारा सुन्दरी च त्रियोगात्सिध्यति ध्रुवम् ।अन्यथा नैव सिध्यन्ति नात्र कार्या विचारणा ॥७॥इति संक्षेपतः प्रोक्तं दीक्षां तत्र श्रृणु प्रिये ।कादितन्त्रोक्तमार्गेण पूर्णदीक्षा प्रकीर्तिता ॥८॥बृहत् - श्रीक्रमतंत्रोक्ता ऊर्ध्वाम्नायस्वरूपिणी ।सुधाशांतवतंत्रोक्ता शान्तिनिर्वाणरूपिणी ॥९॥पराताण्डवतंत्रोक्ता शाम्भवाख्या प्रकीर्तिता ।शक्तिसङ्गमतंत्रोक्ता शाम्भवाख्या प्रकीर्तिता ॥१०॥ऊर्ध्वाम्नायपरिज्ञानं पराप्रासादचिन्तनम् ।महाषोढापरिज्ञानं नाल्पस्य तपसः फलम् ॥११॥पर्यायनित्याविज्ञानं नित्यानित्यप्रपूजनम् ।षष्टिजपप्रकारश्च नाल्पस्य तपसः फलम् ॥१२॥पञ्चषोढापरिज्ञानं शक्तिन्यासस्य चिन्तनम् ।नामपारायणं नाम मंत्रपारायणं तथा ॥१३॥युगनित्यापरिज्ञानं नाल्पस्य तपसः फलम् ।पूर्णाभिषेकषट्कं च कालिकामंत्रचिन्तने ॥१४॥नीलसाधनकं कर्म नाल्पस्य तपसः फलम् ।चरणत्रयचिन्ता च शाम्भवादौ परिक्रिया ॥१५॥काली तारा नामधर्मो नाल्पस्य तपसः फलम् ।अनिरुद्धसरस्वत्याः समा विद्या न चास्ति वै ॥१६॥एतस्या ज्ञानमात्रेण किन्न सिध्यति भूतले ।श्रीविद्यायां महेशानि वीरसाधनमाचरेत् ॥१७॥अहोरात्रे कलौ तारा सुन्दरी सुप्रसीदति । सुन्दर्यां नीलगान्धर्वौ कर्तव्यौ सिद्धिमिच्छता ॥१८॥महादिव्यक्रमेणैव महावीरक्रमेण च ।महानीलक्रमेणैव कादिहादिकहात्मिका ॥१९॥सिध्यन्त्येत्र महेशानि ए ह्रीं श्रीं च पशुक्रमात् ।अन्या दिव्यक्रमेणव एता अपि महेश्वरि ॥२०॥स्वयम्भूपुष्पक्रमतः कालिका सिद्धिदा भवेत् ।स्वजातपुष्पक्रमतः साधना भैरवीमनौ ॥२१॥स्वयम्भूक्रमयोगेन किन्न सिध्यति भूतले ।वाचा सर्वं तु भवति वाग्भवं तेन कीर्तितम् ॥२२॥वाग्भवं ब्रह्मरूपं च ह्यर्धनारीश्वरः स्वयम् ।शिवशक्तयात्मकं बीज यो जानाति स साधकः ॥२३॥वाग्भवं सर्वमूलं तु शक्तिचक्रात्मकं प्रिये ।शक्तेः समरसानन्दसंयोगे यत्सुखं प्रिये ॥२४॥तत्सौख्यरूपं देवेशि वाग्भवं बीजमीरितम् ।निर्गुणं तु निराकारं सच्चिदानन्दविग्रहम् ॥२५॥निर्द्वन्द्वं निरहङ्कारं तद्ब्रह्म परिकीर्तितम् ।ईदृशं तु परं ब्रह्म मुखादुच्चार्यते कथम् ॥२६॥मुखादुच्चार्यते सर्वं वाग्भवं मुखमुच्यते ।वाचा सर्वं संभवति जगत्स्थावरजङ्गमम् ॥२७॥शिवशक्तयात्मकं देवि वाग्भवं बीजमुत्तमम् ।शक्तिः सचेतना प्रोक्ता जडः परशिवो मतः ॥२८॥विना शक्तया निर्गुणस्य मुखादुच्चारणं कुतः ।तस्माच्छक्तिं विहायाथ सर्व जडाता मता ॥२९॥मुखे शक्तिसमायोगाद्ब्रह्मसंज्ञाsभिधीयते ।मुखे शक्तिः स्थिता नित्या वाक्शक्तिरिति कीर्तिता ॥३०॥अर्धनारीश्वरं रूपं वाग्भवं कीर्तितं प्रिये ।सर्वादिभूतं तु मुखं परब्रह्म प्रकीर्तितम् ॥३१॥मुखादुच्चारणं देवि सर्वेषां जायते प्रिये ।वाग्भवं तेन सम्प्रोक्तं ब्रह्मरूपं सनातनम् ।वाग्भवं मुखामित्युक्तं मुखं ब्रह्म प्रकीर्तितम् ॥३२॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यतारासंवादे यक्षिण्यादिमहासिद्धिविनिर्णयो नामाष्टमः पटलः ॥ N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP