संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| एकोनचत्वारिंशतिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - एकोनचत्वारिंशतिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत एकोनचत्वारिंशतिः पटलः । Translation - भाषांतर श्रीदेव्युवाचदेवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।मुण्डासनमिदं ब्रूहि यद्यहं तव वल्लभा ॥१॥श्रीशिव उवाच रहस्यातिरहस्यं च तव स्नेहात्प्रकाश्यते ।चन्द्रत्रिपञ्चमुण्डानि वसुरन्ध्राभिधानि च ॥२॥दशमुण्डानि देवेशि रुद्रमुण्डानि पार्वति ।दिक्विदिक्क्रमयोगेन कीलान्यारोप्य साधयेत् ॥३॥महामुण्डं मध्यभागे परितो मुण्डसञ्चयः ।कालरात्रिदिने देवि वीररात्रिदिने तया ॥४॥मोहरात्रिदिने देवि शिवरात्रिदिने तथा ।अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ॥५॥मुण्डसाधनकं कृत्वा मालापात्रादिकं चरेत् ।यन्त्रं वा कारयेद्देवि त्रैलोक्याधिपतिर्भवेत् ॥६॥अचूडकप्रकारेण वीरासनक्रमेण च ।मृतासनक्रमेणापि साधयेद्वीरसाधनम् ॥७॥मृद्वासनं पूर्वभागे चूडकं दक्षिणे भवेत् ।कोमलं पश्चिमे प्रोक्तं मुण्डमुत्तरगोचरम् ॥८॥वीरासनं मध्यभागे जप्त्वा त्रैलोक्यनायकः ।एकवीरं त्रिवीरं वा पञ्चाष्टनववीरकम् ॥९॥दशवीरं रुद्रवीरमासनाय प्रकल्पयेत् ।मुण्डपक्षेsपि देवेशि मध्ये वीरं महोत्तमम् ॥१०॥मृद्वादिमध्ययोगेन साधनाभेदभाजनम् ।श्मशानं वा चिता शस्ता चास्थिभूम्यासनं तथा ॥११॥योनित्वागासनं देवि दशाहमृतकासनम् ।एवं क्रमेण देवेशि आसनानि बहूनि च ॥१२॥एषामेकतमं कृत्वा कालीं तारां प्रसाधयेत् ।एकान्ते शून्यसदने पर्वते विपिने वने ॥१३॥प्रान्तरे शिवशून्ये च मातृगेहे सरित्तटे ।एकलिङ्गे शून्यदेशे श्मशाने रणमण्डले ॥१४॥कुलवृक्षे एकवृक्षे यद्वा चित्राङ्किते स्थले ।गङ्गागर्भे चतुर्मार्गे त्रिपथे देवतालये ॥१५॥वेश्यालये वा देवेशि साधयेद्वीरसाधनम् ।कीलान्यारोप्य यत्नेन दिक्पालेभ्यो बलिं क्षिपेत् ॥१६॥शूलस्थाने स्वयं गत्वा वीरवेषो महोत्तमः ।संविदुग्धं बलिद्रव्यं पञ्चगव्यं रसं तथा ॥१७॥इति संक्षेपतः प्रोक्तं किमन्यद्बहुजल्पितैः ।श्रीदेव्युवाचदेवेश श्रोतुमिच्छामि रहस्यं पूर्वसूचितम् ॥१८॥श्रीशिव उवाच रहस्यातिरहस्यं च कथ्यते श्रृणु साम्प्रतम् ।शैवे शाक्ते गाणपत्ये चान्द्रे सौरे तथार्हते ॥२०॥वैष्णवे वेदिके देवि नैवेद्यविनियोजनम् ।स्वर्णरत्नानि चान्यानि नानावस्त्राणि पार्वति ॥२१॥अनेकरससम्भोगं गुरवे विनिवेदयेत् ।गुरुपुत्राय तत्पत्न्यै तत्सुतायै निवेदयेत् ॥२२॥ब्राह्मणाय प्रदातव्यमभावे तु जले क्षिपेत् ।कूपेsरण्ये गुहामध्ये तडागे वा क्षिपेत्प्रिये ॥२३॥महादेवस्य नैवेद्यं निर्माल्यत्वं प्रगच्छति ।भक्तायामृतरूपो हि नैवेद्यः परिकीर्तितः ॥२४॥अन्येषां चैव नैवेद्यं भक्षयेद्दापयेत्तथा ।शालिग्रामे वाणलिङ्गे नैवेद्यो नैव दूष्यति ॥२५॥बलिद्रव्याणि देवेशि द्विधा भिन्नानि कारयेत् ।प्रयोगकाले देवेशि ब्राह्मणान्पूजयेद्व्रती ॥२६॥तावत्क्कापि न गन्तव्यं यावत्सिद्धिर्न जायते ।आरम्भान्तं समाप्याsय प्रायश्चित्तं ततश्चरत् ॥२७॥अङ्गाङ्गिभावमासाद्य सर्वं संसाधयेद्व्रती ।कार्यमध्ये पुनः कार्यमङ्गाङ्गित्वं भवेच्छिवे ॥२८॥पूर्वपीठं पुरा ज्ञात्वा विघ्नानुत्सार्य यत्नतः ।कार्याणि साधयेद्देवि तत्र कार्यं न वै भवेत् ॥२९॥कार्यान्तरे समारब्धे तत्र कार्यं न वै भवेत् ।न्यायाधिकरणं ज्ञात्वा पीठिकाज्ञानपूर्वकम् ॥३०॥अङ्गाङ्गित्वं पुरा ज्ञात्वा सर्वकार्याणि साधयेत् ।न हि कर्मणि कर्मणामारम्भस्तु क्कचिद्भवेत् ॥३१॥कर्मणामपि चारम्भस्त्वङ्गाङ्गित्वाद्भविष्यति ।कार्ये जातेsपि देवेशि सन्ध्यापूर्तिं समाचरेत् ॥३२॥संकल्पबाधको भूयादन्यथा परमेश्वरि ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥३३॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे मुण्डासनकथनं नामैकोनचत्वारिंशतिः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP