संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्|
पञ्चपञ्चाशतिः पटलः ।

श्रीशक्तिसङ्ग्मतन्त्रम् - पञ्चपञ्चाशतिः पटलः ।

तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.
Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise.


श्रीदेव्युवाच ।
देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
श्रीदेवि उवाच ।
यन्न कस्यापि सम्प्रोक्तं तदेव कथ्यते श्रृणु ॥१॥
तर्जन्यां रजतं धार्यं स्वर्णं धार्यमनामयोः ।
एष एव कुशः प्रोक्तो न कुशो वनसम्भवः ॥२॥
स्वर्णे शक्तिस्तु सन्धार्या रजते बीजमीरितम् ।
षट्कूर्चधारणादेव षडैश्वर्यमयो भवेत् ॥३॥
तर्जन्या धारणादेव भूतादीन् तर्जयेत् क्षणात् ।
दशविद्याक्रमेणैव दशधा रौप्यधारणम् ॥४॥
बीजं शक्तिः कीलकञ्च यथायोगक्रमेण च ।
सामान्योपासकेनैव कीलकं लेख्य धारयेत् ॥५॥
अङ्गाङ्गिमन्त्रयुक्तेन बीजधारणमाचरेत् ।
पूर्णदीक्षादिसंयुक्तः शक्तिधारणमाचरेत् ॥६॥
षट्पारायणसंयुक्तो द्वितयं धारयेत्प्रिये ।
देवता त्वधिदेवी च तथा प्रत्यधिदेवता ॥७॥
अधिष्टात्री च देवेशि प्रतिपूर्वा तु पञ्चमी ।
केवलं मन्त्रजापो हि पञ्चधा परिकीर्तितः ॥८॥
अङ्गाङ्गिभेदयुक्तो हि साक्षाच्छिवमयो भवेत् ।
षट्कं षट्कं च सन्धार्य षडैश्वर्यसमो भवेत् ॥९॥
दशाङ्गुलिषु बीजानां स्वर्णे सन्धारणात्प्रिये ।
दशविद्याधिपो भूयान्नात्र कार्या विचारणा ॥१०॥
कूर्चबीजं त्रिशक्तौ तु सुन्दर्यां च पराभिधम् ।
बगलायां स्वबीजं च कमलायां तु कामलम् ॥११॥
भैरव्यां वाग्मवं धार्यं मातंग्यां कामबीजकम् ।
धूम्रायां च वसोर्धारां सिद्धविद्याविधौ स्वकम् ॥१२॥
स्त्रीबीजं चाङ्कमात्रे तु परायां तत्पराद्वयम् ।
राजराजेश्वरी विद्याविधौ शाम्भवमेव तु ॥१३॥
पवित्रार्थ धारणीयं मुद्रारूपेण वा प्रिये ।
धार्यं पवित्ररूपेण केवलं नहि धारणा ॥१४॥
षडाम्नाये महेशानि बीजषट्कविधारणम् ।
षड्दर्शने च षट्ताराः पंच आयतने भवेत् ॥१५॥
शिवशक्तिप्रभेदेन केवलं शक्तिभेदतः ।
अङ्गाङ्गिमन्त्रभेदेन धारणं तु समाचरेत् ॥१६॥
अनामायां धारणाद्दि त्रैलोक्यविजयी कविः ।
भाले बीजं चाङ्गुलौ तु मुद्रां नाम हृदम्बुजे ॥१७॥
करे तत्तन्मयी माला नाल्पस्य तपसः फलम् ।
दन्ताख्यमाला श्रीकाल्यां तारिणी नरशङ्खजा ॥१८॥
छिन्नमस्ताविधौ शस्ता नरास्थिमालिका शुभा ।
रक्तचन्दनजा माला बीजाख्या त्रिपुराविधौ ॥१९॥
स्वयम्भूमालिका देवि भैरव्यां मालिकाविधौ ।
गुञ्जामाला तु मातंग्यां धूम्रायां खरदन्तजा ॥२०॥
हरिद्राख्या तु ब्रह्मास्त्रे कमलाख्या रमाविधौ ।
वाण्यां श्रीभुवनेश्वर्यां स्फाटिकी परिकीर्तिता ॥२१॥
श्वेतगुञ्जा सिद्धविद्याविधौय प्रोक्ता महेश्वरि ।
शङ्खमाला वैष्णवे तु रुद्राक्षः शक्तिमात्रके ॥२२॥
भद्राक्षः शरभे प्रोक्तो गणेशे गजदन्तजा ।
त्रिपुरायां पुत्रजीवो गोविन्दे तुलसी मता ॥२३॥
सर्वमन्त्रे च रुद्राक्षः शक्तिमंत्रे तु वा नहि ।
रत्नस्वर्णरौप्यमयी तथा ताम्रमयी शिवे ॥२४॥
औदुम्बरबीजमयी वटबीजमयी तथा ।
पूगीफलमयी माला जातीफलमयी तथा ॥२५॥
मधुमत्याकर्षणार्थं वीरविद्याविधावपि ।
प्रवालः सूर्यमन्त्रे च मौक्तिकं शक्तिमात्रके ।
इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥२६॥

इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे रत्नसङ्केतकं नाम पञ्चपंचाशतिः पटलः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP