संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| एकविंशतिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - एकविंशतिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत एकविंशतिः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।एवेश श्रोतुमिच्छामि महाचीनक्रमं परम् ।श्रीशिव उवाच ।महाचीनक्रमो देवि कथ्यते क्षिप्रतो मया ॥१॥महाचीनक्रमेणैव तारा शीघ्रफलप्रदा ।ब्रह्मचीनो दिव्यचीनो वीरचीनस्तृतीयकः ॥२॥महाचीनो निष्कलश्च चीनः पञ्चविधः स्मृतः ।महाचीनक्रमो देवि द्विविधः परिकीर्तितः ॥३॥सकलो निष्कलश्चेति सकलो बौद्धगोचरः ।निष्कलो ब्राह्मणानाञ्च द्वितीयं श्रृणु पार्वति ॥४॥न वक्तव्यं त्रिभुवने सारात्सारतरं परम् ।केचिद्देवा नराः केचिद्दानवा यक्षराक्षसाः ॥५॥नागलोकाः किन्नराश्च गन्धर्वाप्सरसां गणाः ।ये वा पशुमृगापक्षा ये केचिज्जगतीगताः ॥६॥एते जडतराः सर्वे परस्पर्खलात्मनः ।कुकल्पे निरताः सर्वे कुमार्गदर्शनोत्सुकाः ॥७॥एतेषां ब्रह्मविज्ञानमानन्दं ब्रह्मचित्सुखम् ।न जानन्ति महेशानि कथं तत्कथयामि ते ॥८॥नित्यमुक्तस्वभावो यः तस्मै तद्व्रतमीरितम् ।क्षमस्व देवि चार्वंगि न वक्तव्यं मयानघे ॥९॥श्रीदेव्युवाच ।नमस्ते वरदस्वामिन् करूणानिधये नमः ।अन्यदेवरता ये च तेsपि त्वत्पदकांक्षिणः ॥१०॥तेषामेवाधिकफलं मद्भक्तानां व्यवस्थितम् ।सिंहव्याघ्रादयो ये च ये च विघ्नानुकारिणः ॥११॥रिपवश्च तथा पापा ये चान्ये दुष्टजन्तवः ।ते सर्वे विलयं चान्ति पतङ्गा इव पावके ॥१२॥गेहं दीपशिखाकारं दृश्यते दुष्टजन्तुभिः ।केवलं प्रेमभावेन त्वयैव विभुना प्रभो ॥१३॥किंवा शवमयो भूत्वा आसने पंचदेवताः ।पृथिवी याति जडतां जडं तेजोमयं भवेत् ॥१४॥तेजो वायुस्तथा पृथ्वी आकाशं तत्प्रकाशकम् ।दानवा राक्षसा मर्त्या ये चान्ये देवतागणाः ॥१५॥राजनश्च तथा सर्वे चान्ये तत्पादवर्तिनः ।आज्ञां भजन्ति गन्धर्वाः किं पुनर्नरकिन्नराः ॥१६॥यत्र यत्र भवेद्वाञ्छा तत्र सिद्धिः करे स्थिता ।सदा तद्गामिनीं वाणीं भजते वातिनिश्चला ॥१७॥द्वन्द्वभावं परित्यज्य किमन्यद्बहुजल्पितैः ।मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् ॥१८॥अन्ते तु जायते गौरीलोके शिव इवापरः ।सिद्धो भवति मद्भक्तया कथितञ्च मया तव ॥१९॥न वक्तव्यमभक्ताय परभक्ताय पापिने ।श्रीशिव उवाच ।महाचीनक्रमं देवि द्विविधं सूचितं पुरा ॥२०॥महाचीनक्रमो देवि द्विविधैव प्रकार्तितः ।तत्रैव देवदेवेशि त्रैगुण्याद्भेदभाजनम् ॥२१॥स्नानादि मानसं शौचं मानसः प्रवरो जपः ।पूजनं मानसं दिव्यं मानसं तर्पणादिकम् ॥२२॥मानसो नियमः प्रोक्तो मानसं दन्तधावनम् ।सर्व एव शुभः कालो नाशुभो विद्यते क्कचित् ॥२३॥न विशेषो दिवारात्रौ न सन्ध्यायां महानिशि ।वस्त्रार्द्रं मानसं शौचं देहस्पर्शादि वारिणा ॥२४॥शुद्धिं न चार्चयेदत्र निर्विकल्पमनाश्चरेत् ।नात्र शुद्धेरपेक्षास्ति न च मेध्यादिदूषणम् ॥२५॥य एवं नियमैर्मन्त्रं सर्वकामसमृद्धिदम् ।गद्यपद्यमयी वाणी सभायां तस्य जायते ॥२६॥तस्य दर्शनमात्रेण वादिनो निष्प्रभा मताः ।राजानोsपि च दासत्वं भजन्ते किं परे जनाः ॥२७॥सर्वदा पूजयेद्देवीमस्नातः कृतभोजनः ।महानिश्यां शुचौ देशे बलिं मन्त्रेण दापयेत् ॥२८॥स्त्रीद्वेषो नैव कर्त्तव्यो विशेषात् पूजनं स्त्रियः ।जपस्थाने महाशङ्खं निवेश्योर्द्ध्वं जपं चरेत् ॥२९॥स्त्रियं गच्छन् स्पृशन् पश्यन् यत्र कुत्राप्यचूडके ।भक्ष्यं ताम्बूलमन्यांश्च भक्ष्यद्रव्यान्यथारुचीन् ॥३०॥मांसं मत्स्यं दधि क्षौद्रं संविदासवयो रसः ।उक्तान्यशेषभक्ष्याणि भुक्त्वा भक्ष्यं चरेज्जपम् ॥३१॥दिक्कालनियमो नास्ति स्थित्यादिनियमो न च ।न जपे कालनियमो नार्चादिषु बलिष्वपि ॥३२॥स्वेच्छानियम उक्रोsत्र महामन्त्रस्य साधने ।वस्त्रासनगेहदेहस्पर्शास्पर्शादि वारिणा ॥३३॥तैलं संलाप्य देवेशि ताम्बूलं भक्षयेत् सदा ।नानाम्बराणि संधार्य देहं वस्त्रेण मार्जयेत् ॥३४॥मन्त्रस्नानं चरेद्देवि सर्वदा मद्गताशयः ।महाचीनक्रमे देवि विप्रस्नानमिदं भवेत् ॥३५॥शुद्धिंर्न चाचरेदत्त निर्विकल्पमनाश्चरेत् ।सुगन्धिश्वेतलौहित्यकुसुमैर्चयेद्दलैः ॥३६॥बिल्वैर्मरुवकाद्यैश्च तुलसीवर्जितैः शुभैः ।वर्जयेद्बिल्वपत्रञ्च मरुं यत्नेन वर्जयेत् ॥३७॥केशान् संवर्द्धयेद्देवि सर्वदा तैलभूषितः ।अष्टम्यां च चतुर्दश्यां विशेषदिवसे सदा ॥३८॥नाधर्मो विद्यते सुभ्र किंचिद्धर्मो महान् भवेत् ।स्वेच्छानियम उक्रोsत्र प्रचरेद्धृष्टमानसः ॥३९॥कृतार्थं मन्यमानस्तु सन्तुष्टो निजमानसः ।हरेर्नाम न गृह्णीयान्न स्पृशेत्तुलसीदलम् ॥४०॥नान्यचिन्ता प्रकर्तव्या नान्यनिन्दा कदाचन ।नान्यमन्त्रं जपेद्देवि निर्विकल्पः सदा भवेत् ॥४१॥सद्यो मद्यं पिबेद्देवि मातङ्गीभिर्विहारवान् ।x x x x देवि जपं कुर्यादनन्यधीः ॥४२॥ब्रह्मीभूते मदाचारे विकल्पः कः प्रियेsस्ति वै ।भ्रूयुग्मे कुण्डले देवि सिन्दूरं तदनन्तरम् ॥४३॥कुचन्दनं त्रिपुण्डं च ततः सकेशरं शिवे ।मुण्डमाला गले धार्या कपालं पाणिसङ्गतम् ॥४४॥इत्याचारपरो नित्यं महाचीनक्रमी भवेत् ।सर्वदानन्दहृदयः सर्वदा भक्तसेवकः ॥४५॥कर्णनेत्रान्तरस्थो यो महाशङ्खः प्रकीर्तितः ।पञ्चाशन्मणिमिर्माला गोनराश्वरास्थिसंभवा ॥४६॥माला कार्या महेशानि षष्टिसिद्धीश्वरो भवेत् ।सैव तारा महेशानि नात्र कार्या विचारणा ॥४७॥श्रीदेव्युवाचशिव शङ्कर विश्वेश विश्वतारक शाश्वत ।वेदहीनाश्च ये धर्मास्तान् कथं ब्राह्मणश्वरेत् ॥४८॥श्रीशिव उवाच ।साधु देवि मम प्राणप्रिये साधकसुप्रिये ।तद्भावनासमायातस्तद्भावमाचरेत्प्रिये ॥४९॥यथा श्राद्धविधौ देवि मांसं मुख्यं प्रकीर्तितम् ।कलौ तत्र निषिद्धं स्याद्ब्राह्मणानां महेश्वरि ॥५०॥आत्मार्थं वा परार्थं वा पशून् हत्वा पशुर्भवेत् ।यावन्ति तस्य रोमाणि तावद्योनिमवाप्रुयात् ॥५१॥तस्यानुकल्पा माषाश्च मया प्रोक्तास्ति पार्वति ।सकलं तु मया प्रोक्तं निष्फलं श्रृणु पार्वति ॥५२॥यथा तद्भावनायां तु न च दोषोsस्ति पार्वति ।मणिबन्धादधः पाणिः पादौ गुल्फादधः शिवे ॥५३॥मुखं प्रक्षालयेद्देवि चीनस्नानमिदं भवेत् ।जानुभ्यामवनिं धृत्वा भूमौ मस्तकमानयेत् ॥५४॥चीनमार्गे नमस्काराः कीर्तितास्ते मया तव ।पूर्वक्रमस्य देवेशि शक्रः प्रतिनिधिर्मम ॥५५॥स्नानदानादिकं कृत्वा तथा पूजादिकं प्रिये ।न च स्नानं च मे देहो न च पापं ममास्ति वै ॥५६॥किं स्नानं कस्य च स्नानमस्नातः कृतभोजनः ।सर्वमेव हृदम्भोजे मयि सर्वं प्रतिष्टितम् ॥५७॥मयि ज्ञात्वा मन्त्रसिद्धिर्मम देवा वरप्रदाः ।तेजोरूपं जगत्सर्वं तारिणी तत्स्वरूपधृक् ॥५८॥तत्तेजसा च संस्पर्शं संभाव्य जपमाचरेत् ।भावनावशमापन्नो भवेद्योगी महाकविः ॥५९॥गुडार्द्रकरसेनैव सुरा तु ब्राह्मणस्य च ।तदभावे जलं देवि सम्भाव्य पूजनं चरेत् ॥६०॥तद्भावहृदयासन्नः सदा तद्गतमानसः ।द्वन्द्वभावं परित्यज्य सर्वसिद्धीश्वरो भवेत् ॥६१॥ब्रह्मा चैव वसिष्ठश्च तथान्ये च ऋषीश्वराः ।निष्कलक्रममार्गेण भजन्ति सततं शिवे ॥६२॥ताराभक्ता महेशानि ब्राह्मणा एव कीर्तिता ।ब्रह्मविद्या महाविद्या सर्व दुर्लभा कलौ ॥६३॥रहस्यातिरहस्यं च गोप्तव्यं पशुसङ्कटे ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥६४॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे महाचीनक्रमो नामैकविंशतिः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP