संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| एकोनषष्टिः पटलः ॥ श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - एकोनषष्टिः पटलः ॥ तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत एकोनषष्टिः पटलः ॥ Translation - भाषांतर श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।श्रीशिव उवाच ।कालीयोगरहस्यं च रहस्यातिरहस्यकम् ॥१॥कथ्यते तव देवेशि शृणु सावहिता भव ।स्त्रीनामा कालिकारूपा महाकालस्तु पुं भवेत् ॥२॥शिवशक्त्यात्मकं ब्रह्म यकिञ्चिज्जगतीगतम् ।त्रयोsग्नयस्त्रयो ग्रामाः गुणवेदाख्यतत्त्वकैः ॥३॥नाडीत्रयं च त्रैलोक्यं त्रितयं व्योमपञ्चकम् ।षट्चक्रषोडशाधारं शक्तयो रसयोस्तथा ॥४॥त्रितारस्त्रीविशेषत्वं यत्किञ्चिज्जगतीगतम् ।सर्वं शक्तिमयं विद्धि x x x च तिष्ठति ॥५॥पर्जन्यः सकलो देवो लक्षणं शृणु पार्वति ।धूम्रवर्णो वायुकरः करभाकारसन्निभः ॥६॥कृष्णवर्णो धूसरश्च वात्यापादः पृथुः स्मृतः ।अग्नि वक्त्रोsग्निनेत्रश्च वडवाहृदयः स्मृतः ॥७॥जलशाम्भवशक्त्या तु यन्त्रितः क्षणभङ्गुरः ।संयोगशब्दाद्देवेशि मेघगर्जनमीरितम् ॥८॥शद्बशक्त्या सन्निपत्य ध्वनिवाग्विनियोजितः ।कृष्णपीतरक्तश्वेतधूम्रपिङ्गलवर्णतः ॥९॥यथाकाशो भवेद्देवि तथा तारुण्यभूमिका ।x x x योगकालान्तं विपरीतं प्रकीर्त्तितम् ॥१०॥विद्युत्पातो हि बीजान्ताद्विदलामुपलत्वके (?)।जलपूर्णमहीत्वं च विपरीतं प्रकीर्तितम् ॥११॥स्त्रीरूपो वायुवेगी च सर्वदेवमयः स्मृतः ।अदृश्यजलशक्त्या तु संयुतः पुरुषार्थदः ॥१२॥सर्वदेवमयत्वं च सर्वशक्तित्वमेव च ।पर्जन्ये देवदेवेशि सदा तिष्ठति निश्चितम् ॥१३॥स पर्जन्यः x x x x माश्रित्य तिष्ठति ।x x त्रितयमाश्रित्य नाडीरूपेण तिष्ठति ॥१४॥अधोवह्निर्दक्षिणे तु सूर्यस्तिष्ठति पार्वति ।वामे चन्द्रो मध्यभागे समस्तं पद्मगोलकम् ॥१५॥परितः सकला देवाः सिद्धयः किन्नरादयः ।x x समासाद्यं सर्वे तिष्ठन्ति पार्वति ॥१६॥जलं शक्तिर्मध्यभागे वाडावः कुरुरूपधृक् ।वायूर्ध्वजगतः प्रोक्तः परितः कृष्णवर्णकः ॥१७॥x x महेशानि पर्जन्यः सर्वदास्ति च ।अविनाशी सदा स्थायी विनाशी व्योमगोचरः ॥१८॥पर्जन्यः x x च भूमिमध्ये प्रतिष्ठति ।अन्यत्र व्योमगः प्रोक्तो भूमिरन्यत्र पार्वति ॥१९॥x x पुरुषगं प्रोक्तं x x शक्तिगतं प्रिये ।फलं तत्र स्वेच्छ्या तु स्वशक्त्या परिनिष्ठितम् ॥२०॥तत्र वर्षति पर्जन्यः शक्तिसङ्गमतोद्भुतः ।ब्रह्मानन्दस्वरूपोsयमsस्मृतत्वप्रदायकः ॥२१॥अमृतं च विषं देवि शक्तौ सर्वं च तिष्ठति ।योगाभ्यासेन पुरुषे सर्वं तिष्ठति पार्वति ॥२२॥x x योगक्षणे देवि सर्वं तिष्ठति पार्वति ।अञ्जनं खङ्गवेतालयक्षिणीपादुकागणम् ॥२३॥गुटिका तिलको गुप्तिरदृश्यत्वं च खेगतिः ।परकायप्रवेशश्च चराचरपुरी गतिः ॥२४॥समस्ताः सिद्धयो देवि देहनाडीप्रयोगतः ।पुरुषाणां भवेद्देवि योगाभ्यासप्रकारतः ॥२५॥x x योगेन देवेशि परस्यापि प्रजायते ।चित्रमेतन्महेशानि रहस्यातिरहस्यकम् ॥२६॥अत एव भवेत् कालीयोगरूपाः स्त्रियः स्मृताः ।कालीरूपाः स्त्रियः सर्वाः समस्तं कालिकामयम् ॥२७॥अज्ञानादपि देवेशि फलमेव प्रयच्छति ।फलपाकविधानेन किं तद्यन्न करे स्थितम् ॥२८॥x x तत्त्वसंस्पर्शाच्छक्तिपातकरो भवेत् ।कौमारवयमारभ्य यौवनान्तं महेश्वरि ॥२९॥आमूलान्तं च विज्ञाय साधयेत्सिद्धिसाधनम् ।अभावे तु कुमारीं च पूजयेत् परमेश्वरि ॥३०॥कुमार्यै मज्जलं दत्तं तज्जलं सागरोपमम् ।कुमार्यै चार्पितं पुष्पं मलयाद्रिसमं भवेत् ॥३१॥यद्यद्दत्तं कुमार्यै तु तदनन्तफलप्रदम् ।न कुमारीसमं भाग्यं न कुमारीसमं तपः ॥३२॥न कुमारीसमा विद्या न कुमारीसमं धनम् ।न कुमारीसमं भाग्यं न राज्यमपि पार्वति ॥३३॥न कुमारीसमं तीर्थं न कुमारीसमः ऋतुः ।न कुमारीसमो योगो न भूतो न भविष्यति ॥३४॥यदन्नमर्पितं तस्यै भवेद् ब्रह्माण्डसन्निभम् ।अहो धन्यवतां मध्ये कुमारीपूजकः कलौ ॥३५॥कुमारी देवता प्रोक्ता कुमारी प्राणरूपिणी ।कुमारी भूषणं भूषा कुमारी स्पर्शरूपिणी ॥३६॥तद्धस्तसम्भवं पुष्पं तद्धस्तसम्भवं जलम् ।तद्धस्तरचितं भोज्यं देवताभ्यो निवेदयेत् ॥३७॥तासां प्रहारद्वेषं च सर्वथा परिवर्जयेत् ।स शक्तिशिवसम्पूज्यो गाणपः सर्वसात्कृतिः ॥३८॥स योगी स च संन्यासी स मेधाषट्कसंयुतः ।स वेदवित् सर्ववित् स्यात् कुमारीपूजकः स्मृतः ॥३९॥अहो धन्यवतां मध्ये कुमारीपूजकः कलौ ।तत्रापि धन्यो देवेशि शक्तिपूजापरायणः ॥४०॥तत्रापि धन्यो देवेशि x x पूजापरायणः ।x x वंशसमुद्भूतां कुमारीं भोज्य यत्नतः ॥४१॥त्रैलोक्यविजयी भूयात्कालीरूपः कलौ सुखी ।तस्यां तिष्ठति सा काली या कलौ शीघ्रसिद्धिदा ॥४२॥दर्शनात्स्पर्शनाद्भोज्याद्दानाद् ध्यानादपि प्रिये ।सिद्धिर्भवति देवेशि नात्र कार्या विचारणा ॥४३॥रहस्यातिरहस्यं च रहस्यातिरहस्यकम् ।गोपनीयं गोपनीयं स्वयोनिरपरा यथा ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥४४॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे योगनिर्णयो नामैकोनषष्टिः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP