संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| एकषष्टिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - एकषष्टिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत एकषष्टिः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।श्रीशिव उवाच ।तव प्रीत्या महेशानि कथ्यते श्रृणु पार्वति ॥१॥सुन्दरीं बालिकां रम्यां चार्वङ्गीं चारुहासिनीम् ।रुद्रवर्षमध्यगतां नववर्षान्महेश्वरि ॥२॥घृणालज्जाविनिर्मुक्तां भक्तभक्तां सुचञ्चलाम् ।मनसा दीक्षितां बालां मञ्चके स्थापयेन्नरः ॥३॥न्यासान्विधाय तद्देहे चक्रन्यासक्रमेण च ।तद्देहे देवतां पूज्य सबल्यन्तं महेश्वरि ॥४॥सम्पूज्य प्रजपेद्देवि सर्वसिद्धीश्वरो भवेत् ।x x x x x x x x ॥५॥प्रजपेत्परमेशानि वाक्सिद्धिं विविधां लभेत् ।ब्रह्माण्डगोलके सर्वं यत्किञ्चिज्जगतीगतम् ॥६॥सर्वं हस्तगतं भूयान्नात्र कार्या विचारणा ।शतं पादे शतं नाभौ शतः x x शतं हृदि ॥७॥शतद्वयं x x शतमोष्ठे च चक्षुषि ।शतं मौलौ महेशानि सहस्रेण पुरस्क्रिया ॥८॥एवं क्रमं समासाद्य सर्वसिद्धीश्वरो भवेत् ।मनोरथमयी सिद्धिः कोटिसिद्धीश्वरत्वकम् ॥९॥वाक्सिद्धिर्विविधा देवि तस्य हस्तगता भवेत् ।कलौ युगे तु सम्प्राप्ते शक्तियोगो महान्भवेत् ॥१०॥शक्तियोगः परं योगः शक्तियोगः परं तपः ।शक्तियोगः परं धाम शक्तियोगः परा कला ॥११॥शक्तियोगं विना देवि यः कालीं परिपूजयेत् ।इह क्षोभमवाप्नोति परत्र नरकं व्रजेत् ॥१२॥सिद्धिहानिर्भवेद्देवि मन्त्रोच्चारणमात्रतः ।तत्र बालाभिधो योगः सर्वयोगोत्तमोत्तमः ॥१३॥सर्वदा कारयेद्देवि सर्वदा पूजयेच्छिवम् ।न जपैर्न तपस्याभिर्नोपवासव्रतादिभिः ॥१४॥न द्रव्यैर्न कुलद्रव्यैः स्वर्णरत्नादिभिः प्रिये ।तृप्ता नहि भवेद्देवि शक्तिपूजां विना शिवे ॥१५॥सर्वांगं विक्षिपेद्देवि महाकालकलान्वितः ।मुखे बिन्दुं विभाव्याथ सूर्यचन्द्र x x ॥१६॥चन्द्रं वक्त्रे हरार्ध्यं च x x सम्भाव्य पार्वति ।मूर्द्धादिनाभिपर्यन्तं ईकारं परिचिन्तयेत् ॥१७॥एवं रूपं तु कौमार्या विभाव्य परमेश्वरि ।पूजयेद्देवताबुध्या सर्वसिद्धीश्वरो भवेत् ॥१८॥ईकारद्वयसंयोगात्कामकामं प्रयोजयेत् ।वज्रं भवति देवेशि कामद्वन्द्वं कलात्मकम् ॥१९॥बिन्दुयुग्मं च ऐंकारस्त्वीकारस्तु त्रिबिन्दुतः ।ईदृग्रूपः शिवः प्रोक्त ईकारात्मा सदाशिवः ॥२०॥निर्गुणस्तु परातीतः शक्त्यां संकल्पितः सदा ।x x x शक्त्या सर्वदा सुनियन्त्रितः ॥२१॥त्रैलोक्यं च त्रिनाडी च त्रितत्त्वं त्रिगुणात्मता ।त्रिचैतन्यं त्रिलयत्वं त्रितारात्वं त्रिराशिता ॥२२॥त्रैकाल्यं चैव तार्तीयं वह्नित्रितयतापि च ।महाकामकलारूपे सर्वदा तिष्ठति प्रिये ॥२३॥अविनाशी सदास्थायी तारुण्यामृतविग्रहा ।महाकामकला देवि सर्वदा तिष्ठति प्रिये ॥२४॥भावनावशतां याता x x x संस्थिता ।अत एव भकारस्य शिवरूपत्वमेव च ॥२५॥x x x भकारस्तु त्रिबिन्दुतःअत एव भवेद्वज्रं कामरूपं सनातनम् ॥२६॥एतज् ज्ञानयुतो देवि कालीरूपो भवेद् ध्रुवम् ।कूर्चं काली तथा माया ध्रुवबीजक्रमेण ॥२७॥त्रिसन्धिक्रमयोगेन सङ्गमः क्रमयोगतः ।औधापत्रं त्रिसूत्रं च दूर्वापत्रं द्विसूत्रकम् ॥२८॥त्रिपुण्ड्रं भवति शिवे कलासप्तकसंयुतम् ।कलापञ्चकयुक्तं वा त्रिपुण्ड्रं सिद्धिदायकम् ॥२९॥लाप्य यत्नेन देवेशि पूर्वयोगपरायणः ।कुलवारे कुलतिथौ मासर्त्तुपक्षयोगतः ॥३०॥ज्ञात्वा सम्पूजयेद्देवि सर्वसिद्धीश्वरो भवेत् ।प्रतिपल्लेशमात्रेण कलामात्रेण चाष्टमी ॥३१॥अमा कलात्रिमात्रा तु षट्कला तु चतुर्द्दशी ।दानाध्ययनकर्मादौ तिथिः प्रोक्ता महेश्वरि ॥३२॥सूर्योदयमनुप्राप्य या तिथिश्चोदयं भवेत् ।सा तिथिः सर्वकार्याणां कर्त्री प्रोक्ता महेश्वरि ॥३३॥होमजापपूजनादौ घटिका त्र्युत्तरा तिथिः ।महानिशाव्यापिनी तु सा तिथिः शुभदायिका ॥३४॥व्रते श्राद्धे चोपवासे द्वितीया तिथिरीरिता ।परा मध्याह्नसंव्याप्या तदा पूर्वैव चाष्टमी ॥३५॥जन्माष्टमी निशाव्याप्या नक्षत्रान्ता जयन्तिका ।दानाध्ययनकर्मादौ परैव परिकीर्त्तिता ॥३६॥चतुर्थी परमेशानि कीर्त्तिता परमेश्वरि ।अमासोमयुता या तु सा परैव महेश्वरि ॥३८॥अमायुक्ता न कर्तव्या प्रतिपञ्चण्डिकार्चने ।शुक्ला परैव प्रतिपत्तथा यमतिथिः परा ॥३९॥भद्रोत्तरं तिथिं व्याप्त तृतीया च तु सा तिथिः ।गौरीपूजाविधौ शस्ता सर्वदुःखविनाशिनी ॥४०॥त्रिंशन्नाडी सप्तमी स्यात्तदन्ते कालिकातिथिः ।द्वितीये वेदघटिका वर्धमाना प्रदृश्यते ॥४१॥पूजादौ प्रथमा प्रोक्ता दानाध्ययनकर्मणि ।व्रते श्राद्धे द्वितीया तु प्रोक्ता श्यामाष्टमी तिथिः ॥४२॥पूर्वाष्टमी कृष्णपक्षे शुक्लपक्षे परा तिथिः ।श्रावणे सप्तमी कृष्णा शुक्लपक्षे नभेक्षणा ॥४३॥अष्टमी रात्रिसंयुक्ता प्रदोषाख्या तिथिस्तु सा ।शिवपूजाविधौ शस्ता सर्वसिद्धिकरा भुवि ॥४४॥कुलवारयुता चेत्स्यात् शक्तिपूजाविधौ तिथिः ।सा सोमवारसंयुक्ता शिवपूजाविधौ तिथिः ॥४५॥शिवं शक्तिं भरवं च रमां चैव प्रपूजयेत् ।विशेषफलदा प्रोक्ता रात्रिपूजा महेश्वरि ॥४६॥प्रदोषस्त्रिविधो देवि तत्क्रमं श्रृणु सादरम् ।सप्तमी शाङ्करीसन्धौ प्रदोषो रजनीमुखे ॥४७॥प्रदोषो रजनीवक्त्रे द्वादशी च त्रयोदशी ।तत्सन्धौ च प्रदोषः स्यात् त्रिविधः शनियुग्वरः ॥४८॥चतुर्दश्यपि च परा पूर्वार्द्धं रात्रिसंयुता ।सप्तमी सोमसंयुक्ता श्रावणे कृष्णपक्षजा ॥४९॥अष्टमी रात्रिसंविद्धा सा तिथिः शिवशक्तिजा ।शिवं प्रदोषे सम्पूज्य शक्तिं रात्रौ प्रपूजयेत् ॥५०॥अष्टमी रससंव्यापी द्वितीया दृश्यते यदि ।भौमयुक्ता पूर्वयोगाद् भौमाक्ता चाष्टमी तु या ॥५१॥सा तिथिः सर्वकार्याणां कर्त्री प्रोक्ता महेश्वरि ।अष्टम्यां अष्टमीपूजा नवम्यां नवमी तथा ॥५२॥योगे पूजा शुभा देवि पूजा प्रोक्ता महेश्वरि ।नवम्यां मङ्गलदिने पूर्ववेधे प्रपूजयेत् ॥५३॥अष्टमी नवमीसन्धौ पूजनात्फलदायिनी ।एकोद्दिष्टं तु पूर्वाह्णे त्वपराह्णे तु पार्वणम् ॥५४॥समयोगे परा ग्राह्या पञ्चधा भागयोगतः ।प्रथमं प्रहरं त्यक्त्वा तृतीयप्रहरावधि ॥५५॥प्रजपेद् यामयुग्मेन शिवां भक्तवरप्रदाम् ।प्रथमप्रहरो देवि शिवस्य परिकीर्तितः ॥५६॥परशम्भोर्द्वितीयस्तु तृतीयः शक्तिगोचरः ।रुद्रविष्णुब्रह्मणस्तु मुहुर्ताख्यश्चतुर्थकः ॥५७॥शिवशक्त्यभिधो योगो मध्ययामयुगे भवेत् ।तत्र यद्यत्कृतं कर्म तदनन्तफलप्रदम् ॥५८॥मध्ययामद्वये देवि पूजयेद्धोमयेज्जपेत् ।तर्पयेद्भोजयेच्छक्तिं सर्वसिद्धिं स विन्दति ॥५९॥सन्ध्यायां शम्भुपूजा स्यान्मधरात्रौ तु कालिकी ।प्रथमप्रहरे देवि पूजासाधनमाचरेत् ॥६०॥द्वितीयप्रहरे पूज्य द्विविधं जपमाचरेत् ।तदन्ते योगकृच्छक्तौ शिवतुल्यो नरो भवेत् ॥६१॥महानिशा स्थिता नित्या तिथिपूजाविधौ स्मृता ।अमाभौमसमायुक्ता पूर्वविद्धा तु या तिथिः ॥६२॥सा तिथिर्बलिदानादौ साधने प्रथमा स्मृता ।योपवासे तिथिर्देवि सा तिथिः शिवपूजने ॥६३॥कृष्णाष्टम्यां दिवा भुक्त्वा रात्रौ भुक्त्वा च पार्वति ।एकादश्यामहोरात्रं भुक्त्वा चान्द्रायणं चरेत् ॥६४॥पूर्वेद्युरपरेद्युश्च या तिथिः समरूपिणी ।पूर्वोपोषणकायार्थ परान्ते भोजनं चरेत् ॥६५॥श्राद्धे चापि पराह्णाख्या तिथिश्चोक्ता महेश्वरि ।मातृश्राद्धं तु पूर्वाह्णे पितृश्राद्धं पराह्णिकम् ॥६६॥प्रथमे चापराह्णाख्या द्वितीये कामनाडिका ।हेमन्ते पूर्वाह्णाख्या च क्रमेण पार्वणं भवेत् ॥६७॥ज्येष्ठपूर्वाह्णयोगाख्या क्रमेण पूर्ववत्तिथौ ।पार्वणं भैरवमते कौलश्राद्धं प्रकीर्तितम् ॥६८॥कलानाद्युत्तरं देवि तिथिरस्ति यदा शिवे ।परैव श्राद्धकालादौ तिथिः प्रोक्ता महेश्वरि ॥६९॥सूर्योदयमनुव्याप्य तिथि व्याप्ता तिथिस्तु या ।सा तिथिः स्नानदानादौ तीर्थश्राद्धे तु केवला ॥७०॥अष्टादशघटीभूता तिथिरस्ति यदा शिवे ।तदन्ते सा यदा देवि परवै श्राद्धकर्मणी ॥७१॥चैत्रीया नवमी शुक्ला मध्याह्नव्यापिनी तिथिः ।अष्टमी नवमीयुक्ता शुक्लपक्षे तिथिः शुभा ॥७२॥कौलश्राद्धं तत्र कुर्यात्कुलपूजार्थमेव च ।तदुद्देशेन संकल्पस्त्वधिवासादिकं भवेत् ॥७३॥तत्तिथौ स्नानदानादि कार्यं भवति पार्वति ।अमा च पौर्णिमा देवि परास्नानविधौ तिथिः ॥७४॥चतुर्दशीं समारभ्य नवम्यन्तं महेश्वरि ।रात्रिविद्धा तिथिः सर्वा शुभदा परमेश्वरि ॥७५॥तथैव ग्रहणे देवि तिथिः परैव कीर्तिता ।चक्षुषा दर्शनं राहोर्यत्तद्ग्रहणमुच्यते ॥७६॥चक्षुषा दर्शनं राहोर्मुक्तिर्गहणमोचने ।पुरश्चरणकार्ये तु सूर्यचन्द्रग्रहस्त्वयम् ॥७७॥इति संक्षेपतः प्रोक्तं विशेषं श्रृणु सादरम् ।देवश्चन्द्रो यस्य भवेत् स देवश्चन्द्र ईरितः ॥७८॥देवस्य चन्द्र इत्युक्तः सदेवश्चन्द्र इत्यपि ।वाक्येsपि ध्वनिसादृश्याद्देवि चन्द्रेषु मुख्यता ॥७९॥चक्षुषा दर्शनं राहोरित्यत्र मुख्यता तथा ।चन्द्रोदयव्यापिनी तु स्नाने स्यात्कालरात्रिका ॥८०॥देवतादर्शनार्थञ्च मध्ययामद्वया तिथिः ।प्रथमं प्रहरं त्यक्त्वा तृतीयप्रहरावधि ॥८१॥आद्यः शैवाभिधो योगो द्वितीया शाक्तसंज्ञिका ।द्वयं मिलित्वा देवेशि योगः स्वाराज्यवाचकः ॥८२॥स्वाराज्ययोगो देवेशि यत्किञ्चिज्जगतीगतम् ।स्वाराज्ययोगे देवेशि क्रीडन्ति कालिकागणाः ॥८३॥तत्र यद्यत्कृतं देवि श्रृणोति देवता स्वयम् ।न वीरसाधनैर्देवि न शक्तिपूजनादिभिः ॥८४॥स्वयम्भूकुसुमाद्यैर्वा न तथा वरदा भवेत् ।यथा स्वाराज्ययोगेन क्षणात्सिध्यति पार्वति ॥८५॥न धनैर्न तपस्याभिर्न च तीर्थव्रतादिभिः ।स्वाराज्ययोगमात्रेण देवता वरदा ध्रुवम् ॥८६॥स्वयम्भूकुसुमं याति वीरसाधनसिद्धयः ।क्रूरा पुरस्क्रिया भूयाद् योगः पूर्वं तु सूचितः ॥८७॥भाग्येन प्राप्यते नित्यं स एव देवता स्वयम् ।आद्यस्य घटिकावेदं वर्जयित्वा महेश्वरि ॥८८॥द्वितीयास्यां तु नाडीनां चतुष्कं संत्यजेच्छिवे ।मध्यार्द्धयामयोगोsयं देवानामपि दुर्लभः ॥८९॥कालीयोगाभिधो योगः सर्वयोगोत्तमोत्तमः ।कुलवारर्क्षसंयोगात्कामवीराभिधो भवेत् ॥९०॥पूर्वयोगात्क लवीरो द्वितीयः काममोहनः ।तत्र यद्यत्कृतं देवि देवतादर्शनप्रदम् ॥९१॥तद्योगे परमेशानि कुमारीं तु सुलक्षणाम् ।चारुनेत्रां सुचतुरां वालां गानपरायणाम् ॥९२॥सिंहासने तु संस्थाप्य देवीवत् परिपूजयेत् ।ध्यात्वा कामकलां तत्र स्वस्मिन्नपि महेश्वरि ॥९३॥सर्वसिद्धीश्वरो भूयाद्देवताभावतत्परः ।तया यदुक्तं देवेशि तदेव भवति ध्रुवम् ॥९४॥विभाव्य परितो यन्त्रं यन्त्रबिन्दौ कुमारिकाम् ।सम्पूजयेन्महेशानि ततश्चावरणं भजेत् ॥९५॥ध्यानोक्तदेवताभावस्तत्र चेद्भाग्ययोगतः ।तदैव सिद्धिमाप्नोति सा देवी भवति ध्रुवम् ॥९६॥एतस्याभ्यासमात्रेण पृथिवीसत्त्वमाप्नयात् ।विविधां सुन्दरीं पृथ्वीं यत्रैव कुर्तुमिच्छति ॥९७॥ततैव क्षणमात्रेण सम्भवन्ति महेश्वरि ।सा पृथ्वी बहुभारार्ता क्लिश्यमाना पुराsभवत् ॥९८॥तदा स्तम्भचतुष्कं च दत्तं श्रीकालिकाम्बया ।धर्मो ज्ञानं च वैराग्यमैश्वर्यं तदनन्तरम् ॥९९॥धर्मस्तम्भो भवेदाद्यो वृषरूपः सुचारुधृक् ।चतुष्पदसमायुक्तः पृथिवीं पाति भेदतः ॥१००॥रक्तवर्णः सुन्दरस्तु धर्मस्तम्भः प्रकीर्तितः ।ज्ञानस्तम्भो द्वितीयः स्यात्सर्वं यत्करगं क्षणात् ॥१०१॥ब्रह्माण्डगोलकं ज्ञानं चिद्घनानन्दतत्परम् ।स स्तम्भस्तु द्वितीयः स्यात्तद्रूपं श्रृणु पारति ॥१०२॥सिंहरूपः कृष्णवर्णश्र्छटया श्वेतया युतः ।पुच्छं च मस्तके प्रोक्तं कटिः सूक्ष्मा महेश्वरि ॥१०३॥वैराग्यं तु तृतीयं स्याद् हंसरूपं पुरातनम् ।निर्वाणदीक्षया युक्तं चतुश्चरणदीक्षया ॥१०४॥सर्वं निर्मुक्तया शक्त्या युक्तं वैराग्यमुच्यते ।ऐश्वर्यं च चतुर्थं स्याद्गजरूपं पुरातनम् ॥१०५॥गजसिद्धिबलेनैव पूर्वं संसाधितेन च ।या सिर्द्धिगजरूपेsथ साररूपा महोज्वला ॥१०६॥यत्रैव दृश्यते देवि तत्रैव गजनाथता ।वृक्षाणां प्रस्तराणाञ्च कीटादीनां च पार्वति ॥१०७॥तावन्नाथत्वतां देवि यद्दृष्ट्वा जायते सह ।ऐश्वर्यरूपं कृत्वा तु भाराणां तु चतुष्टयम् ॥१०८॥नाथसंस्थापिता पृथ्वी चतुरस्रा महोज्वला ।बीजाङ्कुरन्याययोगादत्र चैते भवन्ति च ॥१०९॥विष्णुपूर्वं चतुष्कं च चतुर्वेदास्तथैव च ।अथर्ववेदच्छायया तु चत्वारो गुणराशयः ॥११०॥वाक्चतुष्कं च राजादिचतुष्कं च त्रिकालता ।महावाक् सिद्धिरपरा चतुर्थी परमेश्वरि ॥१११॥आधारानन्तमारभ्य पृथिवीशब्दतः शिवे ।ततस्तु पृथिवी देवी सुधाब्धिस्तत्र तिष्ठति ॥११२॥मूलाधारं पीतवर्णं चतुरस्रं महोज्वलम् ।पृथिव्याभ्यासयोगेन पृथिवीयजमाप्नुयात् ॥११३॥पृथिवीं तु जले नीत्वा सुधाम्भोधौ निधाय च ।स्वाधिष्ठाने षट्दले तु सुधाम्भोधिः प्रतिष्ठति ॥११४॥जलं वह्नौ ततो नीत्वा पञ्चवायौ प्रवेशयेत् ।तमाकाशे समानीय चोन्मन्यां लयमाचरेत् ॥११५॥हंसपीठ ततो नीत्वा परशम्भौ निवेदयेत् ।शिवस्वरूपो भवति शिवता तस्य जायते ॥११६॥एवं योगः समाख्यातः किमन्यच्छ्रोतुमिच्छसि ।श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि रहस्यं परमं शुभम् ॥११७॥श्रीशिव उवाच ।किं तद्रहस्यं देवेशि संशयं वद सत्वरम् ।श्रीदेव्युवाच ।शिवशम्भो प्राणनाथ सर्वकर्षणकारक ॥११८॥वाञ्छाकल्पलतानाम्नीं बालां मे वद सत्वरम् ।श्रीशिव उवाच ।वाञ्छाकल्पलतायोगः सर्वयोगोत्तमोत्तमः ॥११९॥पूर्वां कुमारीमानीय नखाग्रान्तां प्रवीक्षयेत् ।शतं भाले शतं केशे शतं सिन्दूरमण्डले ॥१२०॥शतद्वयं x x शतं x x शतं x x ।शतं नेत्रे शतं नाभौ सहस्रेण पुरस्क्रिया ॥१२१॥एवं क्रमेण देवेशि वाञ्छाकल्पलता भवेत् ।शतं पादे शतं नाभौ रोमावल्यां शतं भवेत् ॥१२२॥शतं हृदि शतं नेत्रे शतमात्रं कपोलयोः ।शतं भाले च शतकं वदने प्रजपेच्छिवे ॥१२३॥स्पृश्यावलोक्य प्रजपेत् त्रैलोक्यविजयी भवेत् ।राजा भवति देवेशि कामिनीसिद्धिमाप्नुयात् ॥१२४॥वश्याकर्षणसम्मोहो वयःस्तम्भरसायनम् ।रसं खङ्गं पादुकाञ्च वेतालं यक्षिणीगणम् ॥१२५॥खेचरी परकायं च मृतसंजीवनी तथा ।गोपनीयं गोपनीयं किमन्यच्छ्रोतुमिच्छसि ॥१२६॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे योगकथनं नामैकषष्टिः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP