संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| सप्तचत्वारिंशतिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - सप्तचत्वारिंशतिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत सप्तचत्वारिंशतिः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि यन्त्रस्थापननिर्णयम् ।श्रीशिव उवाच ।स्फाटिकं स्वर्णजं रोप्यं यन्त्रं च कारयेत् प्रिये ॥१॥यन्त्रं तु गृहमित्युक्तं यन्त्रं पीठं प्रकीर्तितम् ।यन्त्रे तु पूजिता देवि सहसैव प्रसीदति ॥२॥शालिग्रामे बाणलिङ्गे जीवचक्रे महेश्वरि ।स्थिरयन्त्रे प्रतिकृतौ नावाहनविसर्जनम् ॥३॥प्रतिष्ठाप्य महायन्त्रं न तद्यन्त्रं विसर्जयेत् ।यन्त्रप्रतिष्ठामासाद्य विद्यां तत्र विभावयेत् ॥४॥जीवन्यासं तत्र कृत्वा विद्यां तत्रैव भावयेत् ।यन्त्रप्रतिष्ठां कृत्वादौ देवं तत्र प्रतिष्ठयेत् ॥५॥तदा विसर्जनं नास्ति न चावाहनमेव च ।अन्तः कालं प्रविन्यस्य यन्त्रमेवं प्रतिष्ठयेत् ॥६॥मूर्तिं स्वहृद्गतां तत्र ध्यात्वा पूज्य विसर्जयेत् ।देवप्रतिष्ठा चेद्भूयात्तदा नैव विसर्जयेत् ॥७॥इति संक्षेपतः प्रोक्तं दशविद्याक्रमेण च ।दशधूपान् श्रृणु प्राज्ञे सावधानमना भव ॥८॥लोहबाणः षोडशाङ्गः श्रीविद्यायां प्रकीर्तितः ।कालीविद्याविधौ देवि अगुरुश्च दशाङ्गकः ॥९॥अष्टादशाङ्गं श्रीखण्डं ताराविद्याविधौ स्मृतम् ।छिन्नाविद्याविधौ देवि पञ्चाङ्गो गुग्गुलुस्तथा ॥१०॥कृष्णागुरुः पीतसारो ब्रह्मास्त्रमनुगोचरः ।आलोड्यागुरुधूपं च मातंग्यां परिकीर्तितम् ॥११॥कस्तूरी चैव कर्पूरमष्टगन्धं तथैव च ।भैरव्यां कीर्तितं देवि न विनैव शिलारसम् ॥१२॥भुवनेश्यां मया प्रोक्तं श्रीखण्डं कमलामनौ ।लाक्षागुडो हि धूम्रायां सिद्धविद्याविधौ शिवे ॥१३॥सर्वधूपस्तु संप्रोक्तः श्रृणु देवि वरासनम् ।वरासनानि देवेशि कथ्यन्ते सुमुखी भव ॥१४॥बाणदुन्दुभिवीणादिभेरीवादित्रवेणवः ।शङ्खघण्टापताकादि त्रिशतं पञ्चविंशतिः ॥१५॥स्तोत्रपाठश्च वरासनप्रयोगो हि सर्वत्र दुर्लभो मतः ।स्तोत्रपाठस्च कवचं नामसाहस्रकं तथा ॥१६॥पूजाजपस्तथा देवि वरयोगे प्रकीर्तितम् ।यदैव कार्यमुत्पन्नं यत्र कुत्रापि पार्वति ॥१७॥जपः क्कचिद्भवेद्देवि होमपूजा क्कचिद्भवेत् ।यत्र यल्लभते देवि तत्र तच्च समाचरेत् ॥१८॥तर्पणं च क्कचित्कार्यं पाठश्चैव क्कचिद्भवेत् ।पूजाहोमौ क्कचित्कार्यौ क्कचिद् ब्राह्मणभोजनम् ॥१९॥यथालाभेन कर्तव्यं शाबरादौ विशेषतः ।वरप्रयोगे देवेशि द्विधा वाsसनसंहतिः ॥२०॥देहासनानि देवेशि परिभाषासनानिच ।भद्रादीनि महेशानि देहजानि भवन्ति च ॥२१॥व्याघ्रमुण्डं कम्बलाश्च चर्माणि भेषजान्यापि ।उष्ट्रजासनरूपाणि कुशादीनि यथाक्रमात् ॥२२॥परिभाषासनान्येव कथितानि मया तव ।प्रत्येकं द्विविधो भेदस्त्वासनानां महेश्वरि ॥२३॥निर्जीवानि सजीवानि सर्वसिद्धिकराणि च ।सजीवानामभावे तु निर्जीवानि महेश्वरि ॥२४॥मुख्यानि तु सजीवानि रहस्यानि महेश्वरि ।अश्वासनं गजश्चैव पल्लकी मानुषस्तथा ॥२५॥महिषो वृषभश्चेति भल्लुको वानरस्तथा ।व्याघ्रश्वजम्बुको देवि मेषाजौ परमेश्वरि ॥२६॥उष्ट्रश्च मृगभेदश्च कुशमृत्प्रकृतिश्च वा ।कुक्कुरः कुक्कुटो देवि मकरः शरभस्तथा ॥२७॥गवयः शूकरश्चैव शिविरः शबरः स्मृतः ।तरणिश्च रथश्चिव शकटश्च सुखासनम् ॥२८॥दण्डिका दोलिकाचक्रं चक्रदोला गृहाभिधां ।पादासनमथारोहो नारिकेलासनं तथा ॥२९॥पूगो मधुकश्चाम्रश्च वटोश्वत्थसतालकौ ।खर्जुरः पिप्पलः प्लक्षः शमी जंबुस्तथैव च ॥३०॥तारा काली छिन्नमस्ता श्रीविद्याकल्पवृक्षजम् ।कुक्कुरः कच्छपः खड्गी गजाख्यं च सुखासनम् ॥३१॥गजाश्वासनकं देवि तथा नररथं शिवे ।वृषभाख्यो हयाख्यश्च महिषाखोsपि पार्वति ॥३२॥नरयानं राजयानं छत्रयानञ्च पार्वति ।तथा नरपतेर्यानं अश्वनाशाभिधं तथा ॥३३॥गजनाथाभिधं देवि साम्राज्याख्यरथस्तथा ।वरासनानि देवेशि कथितानि मया तव ॥३४॥शतं सप्तति देवेशि भेदांस्तेषां श्रृणु प्रिये ।ब्रह्मक्षत्रियविट्शूद्रजातिभेदैश्चतुर्विधाः ॥३५॥देशभेदैर्महेशानि संख्यां श्रृणु महेश्वरि ।अश्वाः पञ्चविधाः प्रोक्ता जातयोष्टादश स्मृताः ॥३६॥वाह्लीकाश्चव काम्बोजाः कोंकणैराकसम्भवाः ।वनजोत्थाः पञ्चमाः स्युवर्णांस्तेषां श्रृणु प्रिये ॥३७॥सर्वेsपि सूर्यहयाः स्युर्वर्णभेदाद् ग्रहत्वता ।सूर्यः सोमस्तथा भौमो बुधश्च गुरुरेव च ॥३८॥शुक्रः शनिस्तथा राहुः केतुश्च नवमः स्मृतः ।नववर्णक्रमेणैव पञ्चवर्णक्रमेण च ॥३९॥प्रत्येकसंकरत्वेन नवतिश्चन्द्रन्यूनता ।पञ्चवर्णक्रमेणैव पञ्चविंशतिभेदभाक् ॥४०॥सपादशतसंख्या तु श्यामकर्णसमागमात् ।अन्योन्यसंसृष्टिभेदात्त्रिशतं पञ्चसप्ततिः ॥४१॥गजाश्वासनकं देवि तथा नररथं शिवे ।वृषभाख्यो हयाख्यश्च महिषाख्योsपि पार्वति ॥३२॥जरयानं राजयानं छत्रयानञ्च पार्वति ।तथा नरपतेर्यानं अश्वनाथाभिधं तथा ॥३३॥गजनाथभिधं देवि साम्राज्याख्यरथस्तथा ।वरासनानि देवेशि कथितानि मया तव ॥३४॥शतं सप्तति देवेशि भेदांस्तेषां श्रृणु प्रिये ।ब्रह्मक्षत्रियविट्शूद्रजातिभेदैश्चतुर्विधाः ॥३५॥देशभेदैर्महेशानि संख्यां श्रृणु महेश्वरि ।अश्वाः पञ्चविधाः प्रोक्ता जातयोष्टदश स्मृताः ॥३६॥वाह्लीकाश्चव काम्बोजाः कोंकणैराकसम्भवाः ।वनजोत्थाः पञ्चमाः स्युर्वर्णांस्तेषां श्रृणु प्रिये ॥३७॥सर्वेsपि सूर्यहयाः स्युर्वर्णभेदाद् ग्रहत्वता ।सूर्यः सोमस्तथा भौमो बुधश्च गुरुरेव च ॥३८॥शुक्रः शनिस्तथा राहुः केतुश्च नवमः स्मृतः ।नववर्णक्रमेणैव पञ्चवर्णक्रमेण च ॥३९॥प्रत्येकसंकरत्वेन नवतिश्चन्द्रन्यूनता ।पञ्चवर्णक्रमेणैव पञ्चविंशतिभेदभाक् ॥४०॥सपादशसंख्या तु श्यामकर्णसमागमात् ।अन्योन्यसंसृष्टिभेदात्त्रिशतं पञ्चसप्ततिः ॥४१॥फलमेषां महेशानि कथ्यते श्रृणु साम्प्रतम् ।सूर्यवर्णं समारुह्य विंशत्साहस्रकं जपेत् ॥४२॥त्रैलोक्यविजयी भूयान्नात्र कार्या विचारणां ।कवचे स्तोत्रपाठे च नामसाहस्रके तथा ॥४३॥संख्यां सामान्यतः प्रोक्ता गजान्तकसहस्रकम् ।सोमवर्णं समारुह्य दिक्सहस्रं शिवां जपेत् ॥४४॥कीर्तिलक्ष्मीपतिर्भूयान्नात्र कार्या विचारणा ।भौमवर्णं समारुह्य त्रिसहस्रं मनुं जपेत् ॥४५॥दरिद्रोsपि धनाढ्यः स्यान्नात्र कार्या विचारणा ।बुधवर्णं समारुह्य त्रिंशत्साहस्रकं जपेत् ॥४६॥रोगी रोगात्प्रमुच्येत दरिद्रो धनमाप्नुयात् ।गुरुवर्णं समारुह्य नवसाहस्रकं जपेत् ॥४७॥नवनिधीश्वरो भूयान्नात्र कार्या विचारणा ।भृगुवर्णं समारुह्य त्रिसहस्रं जपेत्सदा ॥४९॥सर्वबाधाविनिर्मुक्तो मानवः स्यात् सुरोपमः ।राहुवर्णं समास्थाय सहस्राणां तु सप्ततिः ॥५०॥प्रजपेन्मानवो यस्तु स च लक्ष्मीपतिर्भवेत् ।केतुवर्णं समारुह्य पञ्चविंशत्सहस्रकम् ॥५१॥प्रजपेन्मानवो यस्तु परराज्यजयी भवेत् ।श्वेतवर्णं समारुह्य लक्षसंख्यं मनुं जपेत् ॥५२॥शत्रुसेनां विनिर्जित्य राजभोक्ता नरो भवेत् ।अश्वव्याघ्रासनं कृत्वा दिक्साहस्रं जपं चरेत् ॥५३॥सोत्रं वा कवचं नाम यत्किंचित् प्रजपेच्छिवे ।वाञ्छाकामी नरो भूयात् त्रैलोक्यविजयी भवेत् ॥५४॥जीवासनानि देवेशि भवन्त्येतानि निश्चितम् ।यद्यत्कामयते कामं तत्तदाप्नोति निश्चितम् ॥५५॥जपमात्रे पाठमात्रे होमादौ कल्पितानि च ।श्वेतरौप्यासनं कृत्वा त्रिलक्षं प्रजपेद्विभुः ॥५६॥इन्द्रादीन् समरे जित्वा विजयी भुवि जायते ।श्वेतवर्णासनं कृत्वा सूर्यसाहस्रकं जपेत् ॥५७॥त्रैलोक्यविजयी राजा किंकरो निधिभुग्भवेत् ।श्वेतचित्रासनं कृत्वा मन्त्रमात्रं जपेच्छिवे ॥५८॥रक्तवर्णे नरः स्थित्वा सहस्रं प्रत्यहं जपेत् ।शत्रुसेनां विनिर्जित्य मासाद्राज्यमवाप्नुयात् ॥५९॥कृष्णवर्णं समास्थाय पञ्चसाहस्रकं जपेत् ।शत्रवो दासतां यान्ति कालीताराप्रसादतः ॥६०॥पीतवर्णं समास्थाय मन्त्रं लक्षमितं जपेत् ।राजराजो नरो भूयान्नाय कार्या विचारणा ॥६१॥नीलवर्णाश्वमास्थाय लक्षार्धं जपमाचरेत् ।सर्वसिद्धीश्वरो भूयान्नात्र कार्या विचारणा ॥६२॥हरिताश्वे नरः स्थित्वा लक्षद्वयमिदं जपेत् ।पृथ्वीपतिपदं प्राप्य त्रैलोक्यभोगभाग्भवेत् ॥६३॥धूसराश्वं समाश्रित्य नित्यं पञ्चसहस्रकम् ।मासमात्रेण वेतालः किङ्करो भवति ध्रुवम् ॥६४॥श्यामवर्णं समासाद्य चत्वारिंशत्सहस्रकम् ।प्रजपेन्मानवो यस्तु विष्णुरव न संशयः ॥६५॥कपिलाश्वं समारुह्य लक्षं जपति भूमिपः ।विकलाश्वे नरः स्थित्वा त्र्लोकं वशमानयेत् ॥६६॥कर्बुराश्वे समारुह्य विश्वं जयति जापतः ।त्रिशतं प्रजपेन्नित्यं मासमात्रेण सिद्धिकृत् ॥६७॥धूम्रवर्णं समारुह्य सर्वज्ञः साधको भवेत् ।नानावर्णे नरः स्थित्वा प्रत्यहं शतमात्रकम् ॥६८॥शतमात्रप्रजापेन मासाद्देवी वरप्रदा ।द्वित्रिवेदवाणषट्कवर्णैः स्थित्वाsयुतं जपेत् ॥६९॥धनभोगं तथा राज्यं लोकेशत्वं विभुत्वता ।क्रमेण फलमेतद्दि कथि तं परमेश्वरि ॥७०॥चतुरासनयोगो हि सर्वत्र यदि चेद्भवेत् ।साधकस्य सदा देवि किं तद्यन्न करे स्थितम् ॥७१॥अष्टादशगतित्वेन तावद्वाक्सिद्धिमाप्नुयात् ।संकल्पमात्राद्देवेशि सिद्धिर्भवति निश्चितम् ॥७२॥ श्लक्ष्णाश्वानां फलं प्रोक्तं कोङ्कणानां फलं शिवे ।एतद्वै शून्यवादैश्च कीर्तितं परमेश्वरि ॥७३॥काम्बोजानां पक्षमात्रान्सिध्यति जपमात्रतः ।बाह्लीकानां फलं देवि दिवसत्रयगोचरम् ॥७४॥फलं तु पार्वतीयानां मासाद्भवति निश्चितम् ।वर्णानां साम्यता देवि पञ्चानां च वियुज्यते ॥७५॥गत्या पञ्चविधत्वञ्च पर्वतानां विशेषतः ।गुणिताः पञ्चसंख्याभिस्रयस्त्रिंशत्सहस्रकम् ॥७६॥तथाष्टशतसंख्यानां मया प्रोक्ता महेश्वरि ।नानालयप्रभेदेन कलौ त्यर्बुदसंख्यकाः ॥७७॥अश्वाः प्रोक्ता मया देवि पक्षच्छेदस्तदा कृतः ।कवचं स्तोत्रपाठश्च नामसाहस्रं कीर्तितम् (?) ॥७८॥जपमात्रेsपि कर्तव्यं सर्वसिद्धिमभीप्सुभिः ।शङ्कराणां फलं देवि ह्येवमेव भवेद् ध्रुवम् ।अश्वासनं तु सम्प्रोक्तं श्रृणु त्वं कुञ्जरासनम् ॥७९॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे अश्वासनं नाम सप्तचत्वारिंशितः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP