संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| प्रथमः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - प्रथमः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत प्रथमः पटलः । Translation - भाषांतर आदिनाथ उवाच ।कालि कालि महाकालि प्रिये दक्षिणकालिके ।कादिहादिमताधीशे षष्टिसिद्धिप्रदर्शिनि ॥१॥सब्रह्मरूपिणि शिवे रहस्यमपि कथ्यताम् ।पूर्वं संसूचितं देवि न मह्यं कथितं त्वया ॥२॥तन्मे कथय देवेशि यदि मे करुणा तव ।श्रीकाल्युवाच ।रहस्यं सर्वगोप्यं यत्तदेव कथ्यते श्रृणु ॥३॥एकं दशं शतं देव सहस्रं त्वयुतं तथा ।गदितं नियुतं देव तदेव लक्षवाचकम् ॥४॥ततश्च प्रयुतं देव दशलक्षप्रवाचकम् ।कोटिश्च दशकोटिश्च त्वर्बुदं च दशार्बुदम् ॥५॥खर्वश्च काष्ठखर्वश्च निखर्वं दिङ्निखर्वकम् ।जलधिश्चान्तमध्यं च वृन्दमब्जं ततः परम् ॥६॥लयश्चैव महेशान ततः प्रोक्तो महालयः ।शंखश्चैव महाशंखः पद्मं च महापद्मकम् ॥७॥मुकुन्दः कुन्दनीलश्च महानीलश्च शंकर ।मकरः कच्छपश्चैव परार्धं तदनन्तरम् ॥८॥पारे परार्द्धं च तथा चातः संख्या न विद्यते ।अनन्तं तत्तदग्रे स्यादित्युक्तं कालिकागमे ॥९॥दशोत्तरक्रमाज्ज्ञेया संख्या चैषा महेश्वर ।आगमग्रन्थसंख्या च कथ्यते श्रृणु साम्प्रतम् ॥१०॥पंचाशद्वै महाभारो ग्रन्थसंख्या प्रकीर्तिता ।एकं दशं शतं ज्ञेयं सहस्त्रं नियुतं तथा ॥११॥प्रयुतमर्बुदं खर्वं वृन्दखर्वं निखर्वकम् ।शङ्खं पद्मं समुद्रोsय मध्यमं वान्त्यमेव च ॥१२॥पराख्यं परमे चैव परार्द्धं तत्परार्द्धकम् ।दशोत्तरक्रमेणैव संख्या लक्षणसंग्रहे ॥१३॥द्वात्रिंशदक्षरं यत्र स ग्रन्थेति निगद्यते ।सैव श्लोकेति गदितस्तारनेत्रसमुद्भवः ॥१४॥एतन्मध्ये महेशानि सर्व यामलडामराः । तंत्राणि त्वर्णवश्चैव चूडामणिशतत्रयम् ॥१५॥चिन्तामणीः कल्पतरुः कल्पाः सर्वे प्रतिष्ठिताः । कामधेनुः पारिजातस्त्वमृतं दर्पणं तथा ॥१६॥सोपानसंहिताश्चापि तथोपसंहितादयः ।सांख्यायनावर्तनत्वात्तथा मूलावतारकाः ॥१७॥पुराणान्युपसंख्यानि रहस्यानि बहूनि च ।बृहद्रहस्योज्जाबाले हृदयानि बहूनि च ॥१८॥कौमुद्यादीनि देवेश तथैव चन्द्रिका शिव । पातंजलादिकादीनि तथा सारस्वतादिकाः ॥१९॥उपतंत्राणि सर्वाणि पर्यायम्नायकागमाः ।बृहत्संज्ञानि देवेश यथायोगक्रमेण च ॥२०॥उपशब्दो बृहच्छक्तिस्तन्त्रयामलगोचरः ।श्रीशिव उवाच ।ग्रन्थ नाम त्वया प्रोक्तं कियत्कुत्र स्थितं वद ॥२१॥कियद्वै मर्त्यलोकेषु स्वर्गपातालयोः कियत् ।श्रीकाल्युवाच ।पंचाशद्वै महाभारैः षट्त्रिंशत्संख्यकं भुवि ॥२२॥मनुसंख्या स्वर्गलोके पाताले दश वै स्थिता ।एवमागमसन्दोहः कथितस्ते मया तव ॥२३॥शैवं शाक्तं गाणपत्यं सौरं वैष्णवमेव च ।महावीरं पाशुपतं वैष्णवं वीरवैष्णवम् ॥२४॥वीरशैवं तथा चान्द्रं स्वायम्भुवमनन्तरम् ।पांचरात्रं गारुडं च केरलं शाबरं तथा ॥२५॥श्रीसिद्धशाबरं देव तथैव कालशाबरम् ।कुमारीशाबरं देव विजयाशाबरं तथा ॥२६॥कालिकाशाबरं दिव्यशाबरं वीरशाबरम् ।श्रीनाथशाबरं देव तारिणीशाबरं परम् ॥२७॥श्रीशम्भुशाबरं रुद्रसंख्या शाबरजातयः ।रक्तघोरस्तथा शुक्लो घोरविण्मूत्रकस्तथा ॥२८॥भक्षघोरस्तथा वांत्यो घोरघोरतरः स्मृतः ।वीणाघोरस्तथा नीलः सर्वभक्षाभिधस्ततः ॥२९॥घोराघोरस्तथा सिद्धो घोराश्चैकादश स्मृताः ।मायाकापालिकं चापि बीरबौद्धागमौ तथा ॥३०॥जैनागमो रक्तशुक्लपटसंबंधिजातयः ।चीनभेदास्तु बहवो द्विशतेति प्रकीर्तिताः ॥३१॥बौद्धानां शतभेदाः स्युर्दश पाशुपते स्मृताः ।कौले भेदाष्टकं चाबधूतं वैदिकशास्त्रकम् ॥३२॥यथावर्णानुधर्मेण योजनीयं प्रयत्नतः ।येषु येषु च वर्णेषु ये ये धर्माः प्रकीर्तिताः ॥३३॥तेषु तेषु च ते धर्मा योजनीयाः प्रयत्नतः ।ब्राह्मणेन तथा कार्यं ब्राह्मण्यं न विनश्यति ॥३४॥अथान्यवर्णेष्णेवं हि कर्तव्यं मृडशंकर ईश्वर ।एतद्ग्रन्थरहस्यं च यो जानाति स चेश्वरः ॥३५॥एतद्धि ग्रन्थबाहुल्यान्नोक्तमत्र मया तव ।श्रीशिव उवाच ।शिवतत्त्वें सूचितं यत्तद्वदस्व प्रियंवदे ॥३६॥सिद्धविद्या महाविद्या लघुविद्या तथा मता ।त्रिधातु कथ्यमाना हि पुनर्मर्त्ये न दर्शितम् ॥३७॥तदेव कथ्यतां देवि संख्या चादौ वद प्रिये ।श्रीकाल्युवाच ।दश संख्या महाविद्या तस्या नामानि वच्म्यहम् ॥३८॥सिद्धविद्या महाविद्या विद्येत्येवं गुणक्रमः ।चतुर्युगादिरूपेण कथं सिद्धा च किंविधा ॥३९॥का वा सिद्धाः सत्ययुगे का वा सिद्धिर्महेश्वर ।का वा सिद्धाश्वान्ययुगे सर्वं ते कथ्यते श्रृणु ॥४०॥सत्ययुगे सिद्धविद्या सुन्दरी भुवनेश्वरी ।काली तरिति देवेश सिद्धविद्याः प्रकीर्तिताः ॥४१॥कालिका सिद्धविद्या च सर्वदैव महेश्वर ।छिन्नमस्ता च बगला मातङ्गी कमला तया ॥४२॥एता एव महाविद्या विद्यां संश्रृणु वल्लभ । धूमावती भैरवी च विद्यात्वेन प्रतिष्ठिताः ॥४३॥काली तारा महाविद्या षोडशी भुवनेश्वरी । भैरवी छिन्नमस्ता च विद्या धूमावती तया ॥४४॥बगला सिद्धविद्या च मातङ्गी कमलात्मिका ।एता एवमहाविद्याः सिद्धविद्याः प्रकीर्तिताः ॥४५॥वीरनाथमते देव युगभेदात् त्रिधा गतिः ।काली छिन्ना सुन्दरी च सिद्धविद्या च तारिणी ॥४६॥बगला कमला धूमा महाविद्यान्तरं भवेत् ।मातङ्गी भैरवी चैव त्रिपुटा शूलिनी तथा ॥४७॥वनदुर्गा च त्वरिता विद्यात्वेन महेश्वर ।तोतला त्रिपुटा माया कान्हेशी भ्रमरांकिका ॥४८॥भोगवती तथा क्लिन्ना हंसारूढा च कुक्कुटी ।त्रिकंटकी च देवेश महाविद्याः प्रकीर्तिताः ॥४९॥नित्यामतमिदं प्रोक्त श्रृणु कुब्जामतं शिव ।वज्रप्रस्तारिणी भोगवती पद्मावती तथा ॥५०॥महामधुमती सिद्धिर्मृतसञ्जीविनी तथा ।अघोरा राजमातङ्गी मातङ्गी हिंगुलाम्बिका ॥५१॥कालरात्रीति देवेश महाविद्याः प्रकीर्तिताः ।श्रीशिव उवाच ।सामान्यतः छिन्नयोक्तः विशेषो बहु तत्र च ॥५२॥मया ज्ञातोsस्ति विश्वेशि शिष्यभावं भज प्रिये ।श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि सिद्धविद्यादिर्निर्णयम् ॥५३॥श्रीशिव उवाच ।सिद्धविद्या महाविद्या भेदत्रयक्रमेण च ।विद्यामंत्रक्रमेणैव द्विधा जातिः प्रकीर्तिता ॥५४॥स्त्रीपुंनपुंसकत्वेन त्रिधा जातिः प्रकीर्तिता ।चतुर्युगक्रमेणैव भेदभेदान्तरं शिवे ॥५५॥सत्ये काली च श्रीविद्या कमला भुवनेश्वरी ।सिद्धविद्या महेशानि त्रिशक्तिर्बगला शिवे ॥५६॥महाविद्या सत्ययुगे मातङ्गी भैरवी शिवे ।धूमावती च विद्या स्यात्त्रेतायां श्रृणु पार्वति ॥५७॥काली तारा सुन्दरी च सिद्धविद्याः प्रकीर्तिताः ।मातङ्गी भुवना लक्ष्मीर्महाविद्याः प्रकीर्तिताः ॥५८॥धूमावती भैरवी च विद्यात्वेन महेश्वरि ।द्वापरे कालिका तारा रोचिनी भैरवी तथा ॥५९॥सिद्धविद्या महेशानि सुन्दरी भुवना रमा ।धूमावती महाविद्या मातङ्गी कमला तथा ॥६०॥विद्यात्वेन महेशानि धूमा च बगला शिवे ।विद्यात्वेन महेशानि कलौ काली तु केवला ॥६१॥काली तारा छिन्नमस्ता सिद्धविद्याः कलौ मता ।सुन्दरी भैरवी लक्ष्मीर्मातङ्गी भुवनेश्वरी ॥६२॥महाविद्या महेशानि धूमा च बगला शिवे ।विद्यात्त्वेन महेशानि कलौ संकीर्तिता मया ॥६३॥उन्मत्तभैरवमते भेदोsन्यः कथ्यते श्रृणु ।काली तारा महाविद्या षोडशी भुवनेश्वरी ॥६४॥भैरवी छिन्नमस्ता च विद्या धूमावती तथा ।बगला सिद्धविद्या च मातङ्गी कमलाम्बिका ॥६५॥त्रयोदश महाविद्या युगभेदात्त्रिधाsपि च ।एता एव महाविद्याः त्रियुगं व्याप्य संस्थिताः ॥६६॥कलौ काली कलौ काली कलौ काली तु केवला ।साधिता कालनाथेन प्रत्यक्षा कालिका कलौ ॥६७॥कलौ कालीं विहायाथ यः कश्चित्सिद्धिकामुकः ।स चक्षुषा विना रूपं दर्पणे द्रष्टुमिच्छति ॥६८॥कलौ कालीं विहायाथ यः कश्चिद्राज्यमिच्छति ।स हि शीतनिवृत्यर्थं हिमशैलं निषेवते ॥६९॥कलौ कालीं विहायाथ यः कश्चिन्मोक्षकामुकः ।स भोजनं विना नूनं क्षुन्निवृत्तिमभीप्सति ॥७०॥कलौ कालीं विहायाथ यः कश्चिच्छक्तिमिच्छति ।स च शक्तिं विना देवि मनसा x x यथा ॥७१॥कलौ कालीं विहायाथ यः कश्चित्भक्तिकामुकः ।स सिद्धान्नं परित्यज्य तृणाद्भोजनमिच्छति ॥७२॥कलौ कालीं विहायाय यःकश्चित् काम्यमिच्छति ।स तु दुःखनिवृत्यहर्तं पापानि कुरुते सदा ॥७३॥स दरिद्रो महामूर्खो मम द्रोही स एव तु ।युगत्रयेsपि देवेशि कलिपूर्वेषु तत्त्वतः ॥७४॥अन्यां विद्यामपि भजन्सिद्धिमाप्नोति मानवः ।कालौ काली स्पर्शमणिर्नान्यविद्या कदाचन ॥७५॥श्रीमहाकालिका विद्या कलौ पूर्णफलप्रदा ।अज्ञानाज्ज्ञानतो वापि सलीलं वा सहेलया ॥७६॥स्मृताsपि सिद्धिदा काली सकृदेव महेश्वरि ।चतुर्युगानां राज्ञी वै कालिका परिकीर्तिता ॥७७॥विद्याराज्ञी सिद्धविद्या कलौ शीघ्रफलप्रदा ।नामैक्याद्रूपसाम्याच्च महाविद्या प्रकीर्तिता ॥७८॥कलिर्हि यस्या दासश्च पादपूजां करोति च ।सकृन्नम स्मृतं येन कालिकाया महेश्वरि ॥७९॥तस्य सेवापरः सोsयं कलिबाधा न तस्य हि ।कलिर्यच्छति वित्तानि हेमश्रीशैलभूरुहान् ॥८०॥स्वयमागत्य यत्नेन ददाति प्रतिवासरम् ।एतद्वै सिद्धिबाहुल्यं मया वक्तुं न शक्यते ॥८१॥वरदानेषु च रता तेनेsयं दक्षिणा स्मृता ।सेयं दक्षिणकाली तु सिद्धिभूमिरितीरिता ॥८२॥कालिका षोडशी तारा वामाचारप्रिया मता ।छिन्नमस्ता च बगला वाममार्गाधिदेवता ॥८३॥मातङ्गयाद्या महादेवि वाममार्गेण सिद्धिदाः ।कमला भुवना बाला तथा धूमावती शिवे ॥८४॥दक्षिणाचारयोगेन सिद्ध्यत्येव न संशयः ।वामाचारेणापि तथा सिध्यत्येव महेश्वरि ॥८५॥भैरवी वामसंतुष्टा बाला दक्षिणवामगा ।वसंतसुन्दरी विद्या तथा सङ्गीतसुन्दरी ॥८६॥वामदक्षिणयोगेन सिध्यत्येव न संशयः ।रेणुका दक्षिणाचारा त्वन्या देव्यश्च दक्षिणाः ॥८७॥मर्दिनी वाममार्गेण प्रत्यक्षा भवति ध्रुवम् ।बालायामुभयाचारः श्रीविद्यायां तथैव च ॥८८॥लोपामुद्रा दक्षिणेति त्रिषु लोकेषु विश्रुता ।सैव वामप्रिया देवी वामाच्छीघ्रफलप्रदा ॥८९॥काली तारा छिन्नमस्ता सुन्दरी बगलामुखी ।भैरवी चैव मातङ्गी वामाचारप्रिया सदा ॥९०॥मातङ्ग्यां बगलामुख्यां दक्षिणाख्योsपि वर्तते ।मातङ्ग्यां लघुमातङ्ग्यां सुमुखी वामतत्परा ॥९१॥क्कचिद्गणेशरुद्रेषु विष्णुसौरस्वयम्भुवे ।वामाचारो वैदिकेsपि भैरवा वामतत्पराः ॥९२॥क्षेत्रपाला वामपराश्चीनाः कापालिकास्तथा ।तथा पाशुपता देवा वाममार्गे प्रतिष्ठिताः ॥९३॥बौद्धाश्च केरला ये च वीरवैष्णवशांभवाः ।चान्द्रास्त्वघोरा देवेशि वामद्वारपरायणाः ॥९४॥बार्हस्पत्यादयोsप्यन्ये भेदा वामपरायणाः ।चीना वामपरा देवि वौद्धाचारपरायणाः ॥९५॥गोपालसुन्दरी विद्या तथा नृसिंहसुन्दरी ।श्रीब्रह्मसुन्दरी विद्या तथैव वामसुन्दरी ॥९६॥सुन्दरीगणपो देवि तत्पूर्वोsपि हयाननः ।यक्षिण्याद्याः सर्वविद्याः कामिनीयोगनायिकाः ॥९७॥वाममार्गेण सिध्यन्ति नान्यथा सिद्धिदाःण क्कचित् ।एवं च दक्षिणामूर्तिर्हयग्रीवगणेशयोः ॥९८॥वामदक्षिणयोगेन उभयाचारतत्परा ।शैवे शाक्ते गाणपते सौरे स्वायम्भुवे तथा ॥९९॥चान्द्रे चीने पांचरात्रे वैष्णवे वेदिकेsपि च ।कापालिके महेशानि वाममार्गोsत्र कारणम् ॥१००॥वाममार्गप्रकारेण सर्वं सिध्यति नान्यथा ।वाममार्गं विना देवि न हि सिध्यन्ति देवताः ॥१०१॥तोतला तुलजा दुर्गा त्रिपुटा त्रिजटासुरी ।वामाचारेण सिध्यन्ति दक्षिणे क्षोभकारकाः ॥१०२॥अत्रार्थे प्रत्ययो देवि सिद्धभैरव एव च ।अन्यथा भ्रममाणोsयं नरो भवति नान्यथा ॥१०३॥सुन्दरी वामदक्षस्था कालिका वाममार्गगा ।काली तारा छिन्नमस्ता सुमुखी च मतङ्गिनी ॥१०४॥बगला देवदेवेशि वाममार्गपरायणा ।वामाचारं विहायाथ कालीं तारा च भैरवीम् ॥१०५॥महापिशाचिनीं देव छिन्नमस्तां विशेषतः ।योपासनं कर्तुकामस्तस्य पातो भविष्यति ॥१०६॥स दरिद्रो मम द्रोही सुतहारी प्रजायते ।विशेषात्सर्वमन्त्रेषु कुलाचारः प्रकीर्तितः ॥१०७॥तदा सिद्धाः सर्वविद्या नात्र कार्या विचारणा ।सुरेश्वरी महाविद्या शाक्ते सर्वा महेश्वरि ॥१०८॥मंत्रमण्डलगा विद्या वामाचारेण सिद्धिदाः ।वामाचारेण सिध्यन्ति ह्यप्सरादिगणाः शिवे ॥१०९॥वाममार्गं विना देवि न हि सिध्यन्ति कुत्रचित् ।वामाचारः प्रधानोsत्र सर्वेषु दर्शनेषु च ॥११०॥आदौ शाक्तं ततः शैवं वैष्णवं गाणपं तथा ।सौरं चान्द्रं जैनधर्मं स्वायम्भुवमनन्तरम् ॥१११॥वामे चान्तर्भविषन्ति चैते वैजातिजातयः ।एवं दर्शनमार्गेsपि न हि वामे करोति चेत् ॥११२॥तस्य सिद्धिर्न देवेशि मम वैरी प्रकीर्तितः ।सर्वस्मादधिको वामधर्मः प्रोक्तः कुलागमे ॥११३॥तत्रापि कालिकाताराविधौ प्रियतरः स्मृतः ।बाममार्गं परित्यज्य यः कालीं भक्तितोsर्चयेत् ॥११४॥तस्य क्रिया च विफला महापशुरितीरितः ।तत्राम्नायेsपि देवेशि श्रेष्ठमध्यमभेदतः ॥११५॥अधमस्तु तृतीयः स्यान्नितयं त्रितयं त्रिषु ।यथाक्रमेण तत्र स्यात्तत्र श्रृणु हि चोत्तमम् ॥११६॥षड्दर्शनादिमन्त्राणां षट्सु स्यानेषु योजनम् ॥तत्र पूर्णाभिषेको हि पूर्णरूपः प्रकीर्तितः ॥११७॥तत्र पर्यायभेदोsपि वाममार्गप्रधानतः ।शैवे च वैष्णवे शाक्ते सौरे सुगतदर्शने ॥११८॥बौद्धे पाशुपते सांख्ये मंत्रकालमुखेsपि च ।दक्षिणे वामः सिध्यन्ति वैदिकादिष्वपि प्रिये ॥११९॥विनालिपिशिताभ्यां तु पूजनं निष्फलं भवेत् ।एवं दशसु विद्यासु षडाम्नाये तु वामता ॥१२०॥मध्यमाम्नाय आख्यातः कनिष्ठं संश्रृणु प्रिये ।कुब्जादिभेदैर्देवेशि पूर्वाम्नायादि कल्पनम् ॥१२१॥कथितस्ते कनिष्ठोsत्र सूक्ते पूर्वं प्रकीर्तितम् ।कादिः काली महाशक्तिर्हादिस्त्रिपुरसुन्दरी ॥१२२॥कादिहादिप्रभेदेन द्विधाम्नायार्थसंहतिः ।कुलार्णवे तंत्रकौले वीरचूडामणावपि ॥१२३॥सिद्धान्ते त्रैपुराख्ये च तथा ज्ञानार्णवद्वये ।श्रीमूर्तिसंहितांयां च तथैव समयार्णवे ॥१२४॥एतत्तन्त्रे मुख्यधर्मो वामान्मायादिकारणम् ।कादित्त्वाद्ब्रह्मरूपत्वं हादित्वाच्छिवरूपता ॥१२५॥ब्रह्मरूपे महाचारे न दिवा न निशा प्रिये ।न वा प्रयासकरणं नास्ति शुद्ध्यादिकारणम् ॥१२६॥स्वेच्छया सर्वमेतद्धि तस्माद्विद्या महोत्तमा ।कादिः कालीति शक्तिश्चेत्युपक्रम्य प्रकीर्तिता ॥१२७॥कादिकाली हादिकाली कलौ काली तु केवला ।सुन्दर्या हादिरूपत्वं शिवतां शृणु पार्वति ॥१२८॥हादित्वाच्छिवरूपत्वं शिवरूपत्वभावना ।कायक्लेशादिकं स्नानं न्यासपूजादिकं बहु ॥१२९॥एवं च क्रमबाहुल्यात् कलौ सिध्यति वा न वा ।तस्मात्सर्वयुगे देवि काली तारा फलप्रदा ॥१३०॥सुन्दर्यां तु कुलाचारो राजसः परिकीर्तितः ।दिव्योsपि कीर्तितो देवि काली राजसतामसौ ॥१३१॥दिव्योsपि वीरबाहुल्यं तेन शीघ्रफलप्रदा ।कादिस्तु कामराजो हि हादिर्लोपा परेरिता ॥१३२॥इदं वटेशसम्मत्या पारिभाषिकमीरितम् ।कादयो मनवः सन्ति बहवः परमेश्वरि ॥१३३॥न तत्र कादिता कापि हादावपि महोत्तमे ।हादयो मनवो देव षट्त्रिंशत्पद्मसंख्यकाः ॥१३४॥न तत्र हादिता क्कापि षोडश्यामेव हादिता ।कादित्त्वं कालिकायां च तेन प्रोक्तः कहात्मकः ॥१३५॥काल्यामपि हादिकादिभेदाः सन्त्येव भूरिशः ।न तत्र कादिहादित्वं लोपायां न तु हादिता ॥१३६॥लोपायां सुन्दरीभेदः कामराजादयो यथा ।न तत्र कादिहादित्वं हादिः श्रीषोडशी परा ॥१३७॥ हादौ तु नियमाः प्रोक्ता यमसंयमनादयः ।कादौ तु नियमो नास्ति स्वेच्छया धर्ममाचरेत् ॥१३८॥नित्याश्लिष्टं कादिमतं परिभाषामयं मतम् ।शक्तिसङ्गमनामानं महाकादिमतं शिवे ॥१३९॥कादि हादि तद्द्वयं च त्रितयं यत्र तिष्ठति ।चिच्छक्तिः कादिरूपा स्याद्धादिश्चज्ज्ञानगोचरा ॥१४०॥चिदानन्दस्वरूपाख्यं शिवशक्त्यात्मकं महत् ।शक्तेः प्राधान्यं काल्यां च सर्वदा परिकीर्तितम् ॥१४१॥सुन्दर्यां तु क्वचित्कापि समयेषु प्रधानता ।काल्यां शक्तिं विहायाथ यः कश्चिज्जपमाचरेत् ॥१४२॥स दरिद्रो महादुःखी योगिनीचर्वणः स तु ।सुन्दर्यां ब्रह्मचारित्वं काले चानन्दरूपता ॥१४३॥एवं हि कादिहादीनां संज्ञा प्रोक्ता महेश्वरि ।सर्वप्रपंचसिध्यर्थं गोपनार्थं महेश्वरि ॥१४४॥गौडकेरलकाश्मीरसम्प्रदायानुसारतः ।दीक्षा विद्याविधौ कार्या तारायां च विशेषतः ॥१४५॥कालिकायां च सुन्दर्यां पूर्णदीक्षादि विंशतिः ।कादिहादिमतद्वन्द्वे ह्यभिषेकविधिं चरेत् ॥१४६॥स्वस्वविद्या गुरूणां च नामानुकूलतश्चरेत् ।दक्षकाश्मीरगौडाख्यनानाभेदप्रविस्तरैः ॥१४७॥अमुकानन्दनाथान्तनामाज्ञां च प्रदापयेत् ।पूर्णाभिषेकः सुन्दर्यां षोडश्यामेव कीर्तितः ॥१४८॥अभावे लघुषोडश्यां परिभाषामनावपि ।राजराजेश्वरी विद्या पञ्चमी परसुन्दरी ॥१४९॥श्रीमहाषोडशी पूर्णा पूर्वदीक्षितपूर्तिदा ।अन्यभेदेsपि कर्तव्यं संक्षेपात्परिकीर्तितम् ॥१५०॥तथा कामकला काली दक्षिणायामपि स्मृता ।महाविद्यासु सर्वासु ह्यभिषेकः शुभावहः ॥१५१॥तत्र स्वस्वमतेनैव नामदानं प्रकीर्तितम् ।काली तारा छिन्नमस्ता त्वेकरूपास्ति पार्वति ॥१५२॥तथा नवाक्षरी काल्यामुच्यते सृष्टिकाविधौ ।गुह्यकाली सैव विद्या तत्त्वानां नवकैर्युता ॥१५३॥सप्तप्रेतसमासीना महागुह्येश्वरी परा ।दशवक्त्रा कार्यमत्र नाम ध्येयं स्वकल्पतः ॥१५४॥गुरुणोक्तप्रकारेण सम्प्रदायानुकूलतः ।यथा दशसु विद्यासु गुरवः सन्ति पंक्तिशः ॥ १५५॥तथा दशसु विद्यासु षोढान्यासाः प्रकीर्तिताः ।ते ते पूज्याः सपर्यादौ सर्वसिद्धिप्रदायकाः ॥१५६॥सुंदर्यामपि देवेशि कामराजादिके तथा ।स्वप्नावत्यां च लोपायां मधुमत्यादिभेदतः ॥१५७॥सर्वत्र भिन्ननामानो गुरवः परिकीर्तिताः ।कालीक्रमागमोक्तेन कालिका फलदा ध्रुवम् ॥१५८॥कुलार्णवोक्तसन्मार्गात्सुन्दरी फलदा क्कचित् ।अर्णवाः सर्वसामान्याः सर्वधर्मषु तद्गतिः ॥१५९॥विना पूर्णाभिषेकेण कालीं तारां च सुन्दरीम् ।ये जपन्ति नरा देवि ते नरा यमकिंकराः ॥१६०॥तस्मातु सर्वथा कार्यस्त्वभिषेकः शुचिस्मिते ।आम्नायैर्हादिकादीनामभिषेको ध्रुवं चरेत् ॥१६१॥साङ्गद्वये महेशानि पुरैव कथितं मया ।परायामपि देवेशि तत्र प्रासादयोगतः ॥१६२॥भेदाष्टकेsपि गदिता सम्प्रदायानुकूलतः ।आम्नायविद्याभेदेsपि ह्यभिषेकविधिः स्मृतः ॥१६३॥दशलक्षप्रभेदैश्च कालीविद्या कलौ स्थिता ।दशपूर्वैः सप्तलक्षैः सुन्दरी कीर्तिता भुवि ॥१६४॥त्रिनिखर्वा तु तारा स्याच्छिन्नायाः खर्वमात्रकम् ।पंचाशीतिसहस्रैश्च लक्षपंचकसंयुता ॥१६५॥भुवनेशीमहाविद्यां बगलां श्रृणु सादरम् ।तत्त्वलक्षा तु बगला सहस्रनवतिर्गता ॥१६६॥धूमावती महाविद्या षडशीतिस्तु भैरवी ।मातङ्गी नेत्रलक्षा च कमला लक्षपञ्चका ॥१६७॥एते श्रृङ्खलिकायोगात्प्रस्तारात्तु विनिर्गता ।सामान्यमुख्यभेदेsपि दीक्षानाम प्रकीर्तितम् ॥१६८॥सप्तसप्ततिभेदेन सुन्दरी तु प्रतिष्ठिता ।चत्त्वारिंशत्प्रभेदेन भैरवी भुवि कीर्तिता ॥१६९॥भुवनेश्यष्टभेदा स्यान्मातङ्गी पञ्चधा स्मृता ।कमला शतभेदा च षट्त्रिंशद्बगला स्मृता ॥१७०॥धूमावती पञ्चभेदा तारा त्रिर्वा त्रयोदश ।दशधा कालिका छिन्ना तथा षोडशधा स्मृता ॥१७१॥श्रीकाल्या दशभेदानां भेदे दीक्षा प्रकीर्तिता ।दक्षिणा सूर्ययुग्मा च स्मशाना दशधा स्मृता ॥१७२॥भद्रकाली षोडशधा कालकाली तथाष्टधा ।गुह्यकाली च नवधा सप्तधा कामकालिका ॥१७३॥नवधा धनकाली च सिद्ध काली त्रयोदश ।चन्द्रकाली विंशतिधा हंसकाली च सप्ततिः ।एवं भेदोsपि कर्तव्यः किमन्यच्छ्रोतुमिच्छसि ॥१७४॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्ड श्रीमदक्षोभ्यमहोग्रतारासंवादे परिभाषा नाम प्रथमः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP