संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| पञ्चचत्वारिशतिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - पञ्चचत्वारिशतिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत पञ्चचत्वारिशतिः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।देवेश शङ्कर स्वामिन्सुरादिकारणोत्तम ।त्वया संसूचितं पूर्वं वरासनविनिर्णयम् ॥१॥देवताsवाहनं देवि सूतकद्वयनिर्णयम् ।यन्त्रप्राणनिर्णय च विसर्जनविनिर्णयम् ॥२॥शिवशक्तिक्रमेणैव सम्प्रदायविनिर्णयम् ।दशविद्याक्रमेणैव दशधूपविनिर्णयम् ॥३॥पूर्वं संसूचितं नाथ न मह्यं तु प्रकाशितम् ।तत्सर्वं कथय स्वामिन् यद्यहं तव वल्लभा ॥४॥श्रीशिव उवाच ।रहस्यातिरहस्यं ते कथं च कथयाम्यहम् ।तथापि तव संप्रीत्या कथ्यते श्रृणु साम्प्रतम् ॥५॥सर्वादिभूतरूपत्वात् सूतकस्य विनिर्णयम् ।वरासनं चान्यभागे सर्वं संकथ्यते श्रृणु ॥६॥जातसूतकमादौ स्यात्तदन्ते मृतसूतकम् ।सूतकद्वयसंयुक्तः स मन्त्रो नैव सिध्यति ॥७॥गुरुकुण्डलिनीध्यानं विवाहः परिकीर्तितः ।द्विरागमो भवेत्स्नानं संयोगस्तर्पणं भवेत् ॥८॥अर्घ्यदानं भवेद्गर्भो गायत्री त्वष्टमासिकम् ।भूतशुद्धयादि प्राणान्तं तत्रावयवकल्पनम् ॥९॥देहावाप्तिर्मातृकया प्राणायामस्तु संस्क्रिया ।ध्यानोच्चारे महेशानि बालकोत्पत्तिरीरिता ॥१०॥मन्त्रोच्चारणतो देवि जातसूतकमीरितम् ।जातसूतस्य दोषस्य शमनार्थं महेश्वरि ॥११॥दश विशंति पञ्चाशद्ययाशक्त्या जपेच्छिवे ।दशाङ्गादि पुरश्चर्या संस्कारा दश वै शिवे ॥१२॥इदमादि मयादिष्टमन्तिमं श्रृणु साम्प्रतम् ।संस्काराः सप्तनवकास्तथा जाड्यं हृदि शिवे ॥१३॥प्रसन्नाञ्जलिस्तु तच्चक्रं तत्सिसद्धिसाधनं तथा ।सोsहं भावो मातृकाप्तिः पञ्च चैतन्यमेलनम् ॥१४॥अङ्गज्ञानञ्च तादात्म्यं तदनन्तरमीरितम् ।विसर्जनं महेशानि मृतसूतकमीरितम् ॥१५॥मृतसूतकशान्त्यर्थं दशविंशति वा जपेत् ।तेन तस्य निवृत्तिर्हि भवत्येव न संशयः ॥१६॥केरलश्चैव काश्मीरो गौड़मार्गस्त्रयात्मकः ।सम्प्रदायत्रये प्रोक्तं त्रितयं त्रितयं भवेत् ॥१७॥शैवकेरलकं देवि शक्तिकेरलकं तथा ।शिवशक्तिकेरलाख्यं त्रितयं परिकीर्तितम् ॥१८॥शुद्धोग्रगुप्तभेदेन नवधा केरलं भवेत् ।नवधा चैव काश्मीर गौडं च नवधा भवेत् ॥१९॥विलासाख्यस्त्रिधा देवि भेदश्चान्ये भवन्ति च ।केरलाख्ये सम्प्रादये हृदये च विसर्जनम् ॥२०॥मनुहृद्देवतां शम्भुं सहस्रारे विसर्जनम् ।काश्मीराख्ये सम्प्रदाये सहस्रारे विसर्जनम् ॥२१॥गौड़मार्गे महेशानि हृदये च विसर्जनम् ।विसर्जनं च सम्प्रोक्तं निर्णयं सूतकस्य च ॥२२॥श्रृणु यत्नेन देवेशि रहस्यं कथ्यते मया ।मन्त्रस्य सूतकं प्रोक्तं मनुष्यस्य यथा भवेत् ॥२३॥जातसूतकमादौ च तदन्ते मृतसूतकम् ।द्वितये सूतके देवि न मन्त्रोच्चारमाचरेत् ॥२४॥सन्ध्यां च मानसीं कुर्यादर्व्यान्तां परमेश्वरि ।शालिग्रामं च प्रतिमां न स्पृशेत्कर्हिचित्प्रिये ॥२५॥स्पर्शात् पाणी नरो भूयान्नात्र कार्या विचारणा ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥२६॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे सूतकविनिर्णयो नाम पञ्चचत्वारिंशतिः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP