संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| एकोनपञ्चाशतिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - एकोनपञ्चाशतिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत एकोनपञ्चाशतिः पटलः । Translation - भाषांतर श्रीशिव उवाच ।शिवासनं समाश्रित्य कालीं तारां जपेत्सदा ।सम्राट् भोक्ता नरो भूयान्नात्र कार्या विचारणा ॥१॥श्री देव्युवाच ।शिवा देवी शिवा काली शिवारूपाsहमेव हि ।पूर्वमुक्तं त्वया नाथ विस्मृतं किं त्वया प्रभो ॥२॥शिवबलिश्च दातव्या शिवा पूज्या निरन्तरम् ।इत्यादुक्तं त्वया नाथ कथमारोहणं चरेत् ॥३॥श्रीशिव उवाच ।शिवापरिचयं कृत्वा शिवां पूज्य प्रयत्नतः ।जपेन्मन्त्रं महेशानि प्रोक्तमेतच्छिवासनम् ॥४॥एषामारोहणाभावे योग्यता वाहने नहि ।तेषां सङ्गे समूहे च तैः समं भोजनं चरेत् ॥५॥तदभावे महेशानि त्वड्निःसारणयोग्यता ।वर्त्तते चेन्महेशानि कुलाचारक्रमेण च ॥६॥सर्वं विज्ञा यत्नेन हये वा शकटे रथे ।पल्लक्यां सुखयाने वा गजे वाsपि रथेsपि वा ॥७॥अन्यमासनमादाय तत्र स्थित्वा जपं चरेत् ।शोधनं व्याघ्रवत्कार्यं प्रकृतं कथ्यते श्रृणु ॥८॥मेषासनं समारुह्य दिवारात्रं जपेन्मनुम् ।षण्मासाभ्यासयोगेन शाकिनी वरदा भवेत् ॥९॥अजासने नरः स्थित्वा निशि जप्याद्दिने दिने ।मासपञ्चकयोगेन पञ्चकामसमो भवेत् ॥१०॥उष्टासनं समारुह्य ताम्बूलपूरिताननः ।मन्त्रमात्रं जपेद्देवि मासत्रयं निरन्तरम् ॥११॥दुष्टसत्त्वविनाशश्च भवत्येव न संशयः ।मृगासने नरः स्थित्वा सर्वकालं जपेच्छिवे ॥१२॥राजराजसमो भूयाद्वायुतुल्यपराक्रमः ।एतेषाञ्च कुशेनैव प्रकृतिं कारयेत्प्रिये ॥१३॥तत्र स्थित्वा जपं कुर्यादेतदेव फलं लभेत् ।मृत्तिकाप्रकृति कृत्वा प्राणस्थापनमाचरेत् ॥१४॥तत्र स्थित्वा जपेद्देवि फलमेतद्भवेद् ध्रुवम् ।कुक्कटासनमारुद्य सर्वकालं जपेन्मनुम् ॥१५॥वेतालः किङ्करो भूयाद् भैरवः सुप्रसीदति ।कुक्कुटासनयोगेन किं तद्यन्न करे स्थितम् ॥१६॥कुक्कुरासनमारुह्य जपेदिष्टमनुं शिवे ।सर्वकामानवाप्नोति नात्र कार्या विचारणा ॥१७॥मयूरासनमासाद्य मासमात्रं जपेन्मनुम् ।कार्तिकेयसमो भूयान्नात्र कार्या विचारणा ॥१८॥शरभासनमरुह्य अहोरात्रं जपेच्छिवे ।सर्वसिद्धीश्वरो भूयान्नात्र कार्या विचारणा ॥१९॥गवयासनमारुह्य सर्वदुःखानि नाशयेत् ।शूकरासनमासाद्य त्रिकालं प्रजपेन्मनुम् ॥२०॥सर्वपापविनिर्मुक्तो मानवो भवति ध्रुवम् ।शबरासनमारुह्य मन्त्रमष्टसहस्रकम् ॥२१॥गन्धर्वाधिपतिर्भूयान्नात्र कार्या विचारणा ।शबरासनमारुह्य मन्त्रं लक्षमितं जपेत् ॥२२॥अणिमां लभते धीरो नात्र कार्या विचारणा ।तरणीं तु समारुह्य सर्वकालं जपेच्छिवे ॥२३॥महाविद्येश्वरो भूयान्नात्र कार्या विचारणा ।महानौकां समाश्रित्य कामिनीx x x चरेत् ॥२४॥x x सनमासाद्य त्रैकालज्ञानमाप्नुयात् ।रथासनं समारुह्य कामिनी x x x चरेत् ॥२६॥x x सनयोगेन ब्रह्माण्डनायको भवेत् ।शकटासनमासाद्य सर्वकालं जपेच्छिवे ॥२७॥मासत्रयप्रयोगेण त्रैलोक्यं वशमानयेत् ।शकटासनमारुह्य कामिनी x x x चरेत् ॥२८॥x x x x x x देवि कालिकारूपभाग्भवेत् ।सुखासने नरः स्थित्वा चतुर्यामं निरन्तरम् ॥२९॥जपं कुर्यान्महेशानि सर्वसिद्धीश्वरो भवेत् ।सुखासने x x कृत्वा भैरवीं प्रजपेत्सदा ॥३०॥त्रैलोक्यविजयी भूयान्नात्र कार्या विचारणा ।दण्डिकारोहणं कृत्वा जपेद्दशसहस्रकम् ॥३१॥सर्वशत्रून् विनिर्जित्य सर्वत्र जयमाप्नुयात् ।दोलासनं समाश्रित्य त्रिसन्ध्यं च सहस्रकम् ॥३२॥देवीं ध्यात्वा जपेन्मन्त्रमिष्टसिद्धिमवाप्नुयात् ।दोलासने नरः स्थित्वा x x कृत्वा प्रवीक्ष्य च ॥३३॥प्रजपेद्यदि देवेशि भवेत्स्पर्शमणिर्यथा ।चक्रासने नरः स्थित्वा त्रिसहस्रं जपेन्मनुम् ॥३४॥त्रैलोक्यभ्रामरी शक्तिस्तस्य हस्ते व्यवस्थिता ।दोलाचक्रासने स्थित्वा कालिकां वा जपेत्सदा ॥३५॥सर्वसिद्धीश्वरो भूयान्नात्र कार्या विचारणा ।पादासनं जपेद्देवि वाञ्छासिद्धिमवाप्नुयात् ।पादासनपरो भूत्वा कामिनीध्यानतत्परः ॥३७॥कामिनीकान्तया संगे हस्ताहस्तिकया शिवे ।लक्षमात्रं जपेन्मत्रं सर्वसिद्धीश्वरो भवेत् ॥३८॥कामिनीपृष्ठमाश्रित्य x x x प्रदापयेत् ।पृष्ठे रुद्रं प्रलाप्याsय लक्षमात्रं जपेच्छिवे ॥३९॥सर्वसिद्धीश्वरो भूयान्नात्र कार्या विचारणा ।पृठतो धावनं कृत्वा कामिन्या सह पार्वति ॥४०॥सर्वसिद्धीस्वरो भूयान्नात्र कार्या विचारणा ।कुररासनमारुह्य निशि जप्याद्दिने दिने ॥४१॥डाकिनीमेलनं भूयान्नात्र कार्या विचारणा ।कच्छपासनमारुह्य सर्वदा प्रजपेन्मनुम् ॥४२॥सर्वबाधाविनिर्मुक्तः सर्वसिद्धीश्वरो भवेत् ।खङ्गासनं समारुह्य त्रिसन्ध्यं प्रजपेन्मनुम् ॥४३॥सर्वसिद्धिसमायुक्तो गुटिका लभते ध्रुवम् ।सुखासने गजाख्ये तु स्थित्वा जपति शङ्करः ॥४४॥सुखासने गजाख्ये तु कामिनी x x x ।प्रजपेद्यत्नतो देवि सृष्टिकर्त्ता भवेद् ध्रुवम् ॥४५॥गजाख्यासनके स्थित्वा त्रिसन्ध्यमयुतं जपेत् ।महीपतिर्नरो भूयान्नात्र कार्या विचारणा ॥४६॥स्थित्वा नररथे देवि विद्यास्तोत्रं जपेत्सदा ।सर्वदेवेश्वरो भूयान्नात्र कार्या विचारणा ॥४७॥स्थित्वा नररथे देवि कामिनी x x x x x x ।त्रैलोक्यराज्यं लभते यदि सा चञ्चला यदि ॥४८॥पञ्चवर्णवृषे देवि तद्रथे शकटे प्रिये ।फलं तु हयवत् प्रोक्तं विशेषं श्रृणु पार्वति ॥४९॥बलीवर्द्दरथे स्थित्वा सर्वकालमसंख्यकम् ।प्रजपेन्मनवो यस्तु किङ्करोsपि धनी भवेत् ॥५०॥वलीवर्द्दरथे स्थित्वा x x x x x x चरेत् ।x x x x जपेद्देवि त्रिकालज्ञो नरो भवेत् ॥५१॥तथा वाजिरथे स्थित्वा मन्त्रमिष्टार्थदायकम् ।इष्टार्थसिद्धिर्देवेशि भवत्येव न संशयः ॥५२॥तथैव सुरथे गत्वा x x x x x x x ।वाक्सिद्धिर्लभते देवि नात्र कार्या विचारणा ॥५३॥महिषाख्ये रथे स्थित्वा त्रिलक्षाल्लोकनायकः ।तुषारमहिषे स्थित्वा लक्षं जपति शत्रुजित् ॥५४॥महानरपतेर्याने स्थित्वा जपति मानवः ।महाहयपतेर्याने स्थित्वा पञ्चसहस्रकम् ॥५५॥प्रजपेद्यन्ततो देवि इच्छासिद्धिर्भवेद् ध्रुवम् ।महागजपतेर्याने स्थित्वा चैव त्रिसन्ध्यकम् ॥५६॥त्रिसहस्रं जपेद्देवि सर्वसाम्राज्यनायकः ।मेषाख्यरथमारुह्य जपाद्विद्वेषकर्मकृत् ॥५७॥अजाख्यरथमारुह्य महाप्रीतिकरो भवेत् ।सुखासने गजे वापि सर्वाः सिध्यन्ति सिध्ययः ॥५८॥यथा पायसहोमेन सर्वकामानि संलभेत् ।तथा गजासने स्थित्वा सर्वकार्याणि साधयेत् ॥५९॥सरभे देवदेवेशि परराज्यजयी भवेत् ।करिण्यां तु महेशानि परकन्यावशं नयेत् ॥६०॥अश्विन्यां वरमाराध्य सर्वकामप्रकामकृत् ।सुखासनं समारुह्य जपेद् भैरवमादरात् ॥६१॥सर्वसङ्कटमुत्तीर्णो मासमात्रे भवेन्नरः ।गजासनं समारुह्य जपेत्सप्तशतीस्तवम् ॥६२॥सर्वबाधाविनिर्मुक्तः पक्षावर्त्तनयोगतः ।सर्वानि साधयेद्देवि कीर्त्तितान्यासनानि च ॥६३॥वरप्रयोगा देवेशि शाब्रे सर्वसिद्धिदा ।अश्वासने नरः स्थित्वा त्रिशक्तिं प्रजपेत्सदा ॥६४॥त्रैलोक्यविजयी भूयात् सर्वकार्याणि साधयेत् ।एतेषामस्थिसारेण मालिकां कारयेद्बुधः ॥६५॥तेन जापः प्रवर्तव्यस्तत्रारुह्य जपं चरेत् ।तत्र तस्यासने स्थाप्य त्रैलोक्याधिपतिर्भवेत् ॥६६॥संख्या सामान्यतः प्रोक्ता सर्वकर्माणि साधयेत् ।वीरासनानि देवेशि गदितानि मया तव ॥६७॥जपसंकल्पपूर्तिस्तु भवेन्मा भवतु प्रिये ।तथाप्यासनयोगेन शीघ्रसिद्धिर्भवेद् ध्रुवम् ॥६८॥जीवचक्रे यथा सिद्धिस्तथा जीवासने प्रिये ।रहस्यातिरहस्यं च गोप्तव्यं पशुसङ्कटे ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥६९॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे शिवसनादि नाम नामैकोनपञ्चाशतिः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP