संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| षोडशः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - षोडशः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत षोडशः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि नवरात्रस्य निर्णयम् ।नवरात्रे समायाते किं कर्तव्यं च तद्वद ॥१॥नवरात्रीति किन्नाम कथं जातं किमात्मकम् ।श्रीशिव उवाच ।नवशक्तिभिः सयुक्तं नवरात्रं तदुच्यते ॥२॥एकैव देवदेवेशि नवधा परिनिष्ठिता ।शयनं बोधनाख्यं च नवरात्रं द्विधा भवेत् ॥३॥शयनं चैत्रमासीयमाश्विनस्थं तु बोधनम् ।द्वाभ्यां तु समुपोष्यैव सर्वसिद्धिं लभेन्नरः ॥४॥निराहारी फलाहारी त्वेकभक्तो दृढव्रतः ।नक्तभोजी हविष्याशी यथाशक्तया समाचरेत् ॥५॥नवरात्रव्रतासक्तो नवनाथो भवेद्ध्रुवम् ।गौडकाश्मीरद्रविडमार्गेण त्रिविध भवेत् ॥६॥अमायुक्ता न कर्तव्या प्रतिपक्तालिकार्चने ।अष्टम्यन्तं समाचर्य ततोsष्टम्यान्तु होमयेत् ॥७॥अर्धरात्रे समायाता मूलविद्याsपि पार्वति ।साsष्टमी सर्वकार्याणां कर्ती भवति निश्चितम् ॥८॥होमपूजादिकं तत्र कुर्याद्यत्नेन पार्वति ॥द्वितीये दिवसे चेत्स्यात्तदेवोपोषणं चरेत् ॥९॥प्रतिपद्युक्तमल्पं वा यदि न स्यात्परेsहनि ।अमायुक्तं तदा कुर्यात्त्यक्त्वा षोडशनाडिकाः ॥१०॥घटिकाः षोडश त्याच्या आद्याः प्रतिपदस्तु याः ।कलशस्थापनं कुर्यात्कल्याणं जायते ध्रुवम् ॥११॥नवम्यां पारणं कुर्याद्दशम्यां तु विसर्जनम् ।काश्मीराख्यक्रमं देवि श्रृणु यत्नेन पार्वति ॥१२॥नवरात्रं निराहारो होमोsष्टम्यां समाचरेत् ।नवम्यां विप्रभोज्यं स्याद्दिग्वेधे पारणां चरेत् ॥१३॥नवरात्रं निराहारो निर्विकल्पो जितेन्द्रियः ।अष्टमीनवमीसन्धौ होमsष्टम्यां समाचरेत् ॥१४॥नवम्यां विप्रभोज्यं साद्दशम्यां पारणं चरेत् ।केरलाख्यः क्रमः प्रोक्तो निर्णयं श्रृणु पार्वति ॥१५॥तिथिक्षये तथा वृद्धौ यथोक्तेन तु वर्त्मना ।अष्टमीनवमीप्राप्तौ पूर्ववेधे न दुष्यति ॥१६॥अष्टम्यामर्धरात्रौ तु यत्किञ्चित्कुरुते नरः ।तत्तदक्षय्यमायाति नवदुर्गाप्रयोगतः ॥१७॥एकोत्तरप्रवृद्ध्या वा स्तोत्रजापदिकं चरेत् ।प्रथमेsन्हि कृतं यावत्तावत्कुर्याच्च वा सुधीः ॥१८॥उदयास्तमयं जप्त्वा त्रैलोक्यविजयी भवेत् ।नवरात्रव्रते स्त्रीणा x x योगो यदा भवेत् ॥१९॥सैव देवी न सन्देहस्ताम्पूज्य विजयी कलौ ।ताम्बूलागुरुकस्तूरीदिव्याम्बरविभूषणैः ॥२०॥शक्तीनां नवरात्रादौ ताम्बूलभक्षणं सदा ।सूर्योदयं समारभ्य पुनः सूर्योदयान्तरम् ॥२१॥ताबज्जप्त्वा निरातङ्कः सर्वसिद्धीश्वरो भवेत् ।एकासनगतो भूत्वा नवरात्रं तु शाम्भवीम् ॥२२॥मुद्रामालम्बयेद्देवि नवनाथाधिपो भवेत् ।गृहारामे च कर्तव्या निर्जने पर्वतेsपि वा ॥२३॥अधोमुखं वा देवेशि नवरात्रं निरम्बुभुक् ।स्वमाच्छाद्य मृदा देवि तत्र संस्थापयेद् घटम् ॥२४॥यवाङ्कुरान्समारोप्य शाम्भवीं मुद्रिकां चरेत् ।दृढासनी वास हयनी यथादिष्टं समाचरेत् ॥२५॥कापालिकावधूतानां व्रतमेतन्मयोदितम् ।आज्ञा भवति देवेशि तदैवोपोषणं चरेत् ॥२६॥आज्ञा यदि न जायेत तदा ग्रामाधिपस्य च ।देशाधिपस्य विप्रस्य पूजकस्य स्त्रियस्तथा ॥२७॥आज्ञां गृहीत्वा देवेशि वरं प्रार्थ्य सुखी भवेत् ।भक्तप्रीता महादुर्गा स्वयमाज्ञां प्रयच्छति ॥२८॥वीरशाक्तविधानेन चण्डदर्पव्रतं चरेत् ।जिह्वां संप्रोथ्य यत्नेन द्विवेदरसनाङ्गुलम् ॥२९॥पुनरायाति सा जिह्वा तेन सिद्धीश्वरो भवेत् ।नवरात्रं समासाद्य महाष्टम्यां निशामुखे ॥३०॥देवीं सम्पूज्य यत्नेन सङ्कल्पं कामनान्वितम् ।शिरःपुष्पं कर्तयित्वा पूर्णमध्यकनिष्ठतः ॥३१॥यन्त्रमध्ये निवेद्याsथ शिवतुल्यो भवेद्ध्रुवम् ।पुनः शिरः समायाति महाचीनवरः स तु ॥३२॥अथवाsन्यप्रकारेण प्रयोगः कथ्यते श्रृणु ।नवरात्रं निराहारः श्रद्धाभक्तिसमन्वितः ॥३३॥महाष्टम्यामर्धरात्रे अङ्गुष्ठात् मस्तकावधिः ।मांसान् संकर्त्त्य यत्नेन यथोक्तं कुण्डमारमेत् ॥३४॥होमयेत्तत्र देवेशि देवी प्रत्यक्षतामियात् ।देवीदेहो भक्तेत्तद्धि नात्र कार्या विचारणा ॥३५॥अथवाsन्यप्रकारेण प्रयोगः कथ्यते श्रृणु ।नवरात्रं निराहारो गुरुभक्तो महाव्रती ॥३६॥कुण्डं पुरुषमात्रं तु कृत्वा तत्र विशेषतः ।पञ्चपल्लवकाष्ठानां वन्हिं तत्र समाचरेत् ॥३७॥अङ्गष्ठान्मस्तकान्तं हि स्वदेहं होमयेद्ब्रती ।अग्निशय्यां च वा कृत्वा देवीं पश्यति निश्चितम् ॥३८॥न चापरक्रमेणैव लतागेहप्रवेशनात् ।भवेत्कल्पलतातुल्यः साधको नात्र संशयः ॥३९॥अथवाsन्यप्रकारेण प्रयोगः कथ्यते श्रृणु ।नवरात्रं निराहारो निर्विकल्पो जितेन्द्रियः ॥४०॥यं कंचिद्वै जपेन्मन्त्रं पत्रं पुष्पं फलं तथा ।मज्जनं दन्तकाष्ठं वा तद्गेहे भोजनं च वा ॥४१॥जगत्त्रयं वशीकुर्यान्नात्र कार्या विचारणा ।अथवाsन्यप्रकारेण प्रयोगः कथ्यते श्रृणु ॥४२॥नवरात्रं निराहारो निर्विकल्पो दृढव्रतः ।यमुद्दिश्य क्रियां कुर्यात्तमेव वशमानयेत् ॥४३॥भोजनं वाsनयेद्देवि यस्य वश्यं समुद्दिशेत् ।कामबीजं साध्यनाम वशीकुर्वित चोच्चरेत् ॥४४॥स्वाहामुच्चार्य देवेशि प्रदीप्ते जठरानले ।होमयेद्यत्नतो देवि तद्गृहं वशमानयेत् ॥४५॥अथवाsन्यप्रकारेण प्रयोगः कथ्यते श्रृणु ।नवरात्रं निराहारः सत्यवादी जितेन्द्रियः ॥४६॥सहदेवी वनं गृह्य (?) नवम्यां परमेश्वरि ।पूर्वोक्तमनुना देवि पत्रान् वा पिण्डमाहरेत् ॥४७॥आजन्मान्तं वशीकुर्यात्तमेव सकुठुम्बकम् ।अथवाsन्यप्रकारेण प्रयोगः कथ्यते श्रृणु ॥४८॥नवरात्रं मौनयुक्तो वृक्षासनसमन्वितः ।पारणादिवसे प्राप्ते गोमुखं कारयेत्प्रिये ॥४९॥पूर्वोक्तमनुना देवि होमयेज्जठरानले ।स्वगेहे तत्त्वरात्रेण तद्गेहे दिवसत्रयात् ॥५०॥आजन्मान्त वशीकुर्यान्महादेवाधिकं नरम् ।अथवाsन्यप्रकारेण प्रयोगः कथ्यते श्रृणु ॥५१॥नवरात्रं निराहारो गुरुभक्तो महाव्रती ।वामाङ्गुष्ठोपरि स्थित्वा वेदरात्रं महेश्वरि ॥५२॥दक्षाङ्गुष्ठोपरि तथा वेदरात्रं महेश्वरि ।नवम्यां पारणं कुर्याद्बिल्वपिण्डं प्रदापयेत् ॥५३॥जगत्त्रयं वशीकुर्यान्नात्र कार्या विचारणा ।अथवाsन्यप्रकारेण प्रयोगः कथ्यते श्रृणु ।नवरात्रं पर्यटन् वै लोचनासनसंयुतः ॥५४॥होमं कुर्यान्महाष्टम्यां नवम्यां पारणं चरेत् ।सर्वस्वदानं कृत्वा तु त्रलोक्यविजयी भवेत् ॥५५॥अथवाsन्यप्रकारेण पुरश्चरणमुच्यते ।गोमुत्राशी महेशानि नवरात्रं महेश्वरि ॥५६॥यं कञ्चिद्वै जपेन्मन्त्रं नवम्यां होममाचरेत् ।नवम्यां पारणं कुर्याद्गोमुखेन महेश्वरि ॥५७॥देवतादर्शनं भूयाद्रात्रौ स्वप्ने महेश्वरि ।अथवाsन्यप्रकारेण प्रयोगः कथ्यते श्रृणु ॥५८॥नवरात्रं जितग्रासो मौनव्रतधरः शुचिः ।निर्द्वन्द्वो निरहङ्कारः सत्यवादी महामतिः ॥५९॥राजाकर्षणकामश्चेद्राजा सप्तदिगुन्मुखः ।पारणं चेच्छया कुर्याद्रात्रजापी सदा भवेत् ॥६०॥त्रैलोक्यं वशमायाति नात्र कार्या विचारणा ।संन्यासी शङ्करः प्रोक्तः कापाली कालभैरवः ॥६१॥दिगम्बरो महाकालो ब्रह्मचारी बटुर्भवेत् ।कृष्णवर्णः स्मृतः कृष्णो गौरो ऋषिवरः स्मृतः ॥६२॥रूपगन्धप्रभेदेन नाम प्रोक्तं महेश्वरि ।रूपजातिप्रभेदेन कुमारीनाम कीर्तयेत् ॥६३॥गन्धभेदेन देवेशि दशविद्यादिकं भवेत् ।एवं ज्ञात्वा पारणं तु कुर्याद्यत्नेन शाम्भवि ॥६४॥इति संक्षेपतः प्रोक्तं वाग्भेदं श्रृणु पार्वति ।वाक्सिद्धिर्द्विविधा प्रोक्ता शापानुग्रहकारिका ॥६५॥महाकवित्वरूपैका द्वितीया परिकीर्तिता ।शापानुग्रहरूपाया भेदान्संश्रृणु पार्वति ॥६६॥मन्त्रद्वारा महेशानि स्वप्नद्वार द्वितीयका ।प्रत्यक्षता तृतीया स्याच्चतुर्थी कर्णगोचरी ॥६७॥आकाशगोचरा बाणसंख्याख्या परिकीर्तिता ।घटस्था दर्पणस्था च जलमण्डलमध्यगा ॥६८॥एवमष्टविधा प्रोक्ता शापानुग्रहणी कला ।कवित्वाख्या महेशानि तद्भेदान् श्रृणु यत्नतः ॥६९॥अष्टदिक्शतसाहस्रं महाश्रुतिधरी तथा ।दूतकाव्यं च घटिकाशतकाख्यं महेश्वरि ॥७०॥वाक्सिद्धिर्गदिता देवि लतारूपं श्रृणु प्रिये ।महाचीनद्रुमलतावेष्टितः साधकोत्तमः ॥७१॥रात्रौ यदि जपेन्मन्त्रं सैव कल्पलता भवेत् ।मुखे चन्द्रस्तु सीमन्ते रविः संकीर्तितो बुधैः ॥७२॥नेत्रे कामः कर्णयुगे सनत्कुमार एव च ।अधरेsमृतवाणीशो जिह्वायां तु सरस्वती ॥७३॥कल्पद्रुमः कलियुगे कामधेनुर्ललाटयोः ।वाञ्छामणिः स्पर्शमणिः x x x परिकीर्तितौ ॥७४॥दक्षिणावर्तकम्बुस्तु कण्ठदेशं प्रकीर्तितः ।चिन्तामणिर्हृदम्भोजे शेषो वेण्यां प्रतिष्ठति ॥७५॥सप्तस्वर्गा मस्तकान्ते सप्तपातालकं नसि ।पादयोरवताराश्च जङ्घयोर्देवतागणाः ॥७६॥नाभौ ब्रह्मा त्रिसूत्रे तु त्रिगुणात्मा सदाशिवः ।रोमावल्यां महाविष्णु x x ब्रह्माण्डगोलकम् ॥७७॥पृष्ठवंशे राक्षसाश्च भाग्यलक्ष्मीर्मुखाम्बुजे ।दानलक्ष्मीः करयुगे हृदये करुणाभिधा ॥७८॥x x युग्मे वीरलक्ष्मीर्देहः सौम्याभिधो भवेत् ।कुलशास्त्रे कीर्तिलक्ष्मीर्माने खङ्गाभिधा भवेत् ॥७९॥अनेककोटिब्रह्माण्डं x x मध्ये प्रतिष्ठति ।तत्त्वाग्निवेदभुवने द्वीपादौ लोकशक्तयः ॥८०॥वार्तालापे चतुर्वेदाः सर्वशास्त्राणि वै कठौ ।ब्रह्माण्डगोलके यच्च यत्किंञ्चिज्जगतीतले ॥८१॥तत्सर्वं शक्तिदेहे तु सर्वदा व्याप्य तिष्ठति ।शक्ति x x x मारभ्य मोक्षान्तपूर्वगं शिवे ॥८२॥सर्वं तिष्ठति देवेशि क्रोधे संहारशक्तयः ।महामन्त्रास्तथा हासे महाविद्याः कटाक्षयोः ॥८३॥वृक्षो जीवो लता जीवप्रदात्री परिकीर्तिता ।चीनद्रुमलतायास्तु माहात्म्यं परमेश्वरि ॥८४॥विचित्रमेतद्देवेशि श्रृणु यत्नेन साम्प्रतम् ।अन्यवृक्षस्य मूलञ्च प्रोक्तं भूमितलं भवेत् ॥८५॥एतद्वृक्षस्य मूलं तु मध्यभागे विराजते ।मध्ये भूमिर्महेशानि शाखाश्च परितः स्मृताः ॥८६॥अधःशाखस्तूर्द्ध्वशाखो मूलं मध्ये च भूमिका ।जलं तत्रव देवेशि प्रयागं तत्र कीर्तिता ॥८७॥ब्रह्माण्डगोलं पुष्पं वै फलं बीजं च पार्वति ।तत्रैव तिष्ठति प्राज्ञे वृक्षश्चलति सर्वदा ॥८८॥वाणी वसति सानन्दा स्वेच्छाकारी निरङ्कुशः ।परमानन्दरूपा तु लता तस्याः प्रकीर्तिता ॥८९॥महानन्दस्वरूपाख्या चिदानन्दस्वरूपिणी ।पूर्णानन्दस्वरूपा सा महासमरसात्मिका ॥९०॥ब्रह्मानन्दस्वरूपा सा चिद्धनानन्दरूपिणी ।लता प्रोक्ता महेशानि संयोगनन्दरूपिणी ॥९१॥जगत्त्रयं सैव सूते पञ्चभूतानि सैव च ।संहारकर्ती सैव स्यान्मोक्षरूपा तु सा मता ॥९२॥ब्रह्मरूपा तु सैव स्यान्मुक्तयस्तु चतुर्विधाः ।यन्मूलज्ञानमात्रेण सदा तिष्ठन्ति पार्वति ॥९३॥सालोक्यश्चैव सारूप्यं सायुज्यं च तृतीयकम् ।सान्निध्यं च चतुर्थं स्यात्सर्वं शक्तौ प्रतिष्ठति ॥९४॥नवशक्तिसमायुक्तो नवरात्राभिधो भवेत् ।कलावर्षं तु चैत्राख्यमाश्विनाख्यं तदुत्तरम् ॥९५॥द्वाविंशद्वर्षपर्यन्तं कीर्तितं परमेश्वरि ।द्वात्रिंशद्वर्षपर्यन्तं प्रोक्ता दीपावली कला ॥९६॥तदुत्तरं दारुणा स्यात्सर्वं श्रृणु महेश्वरि ।वर्षद्वादशपर्यन्तं मोहरात्रिः प्रकीर्तिता ॥९७॥संयोगे योगनिद्रा स्यान्महानिद्रा विसर्जने ।आनन्ददीप्ता देवेशि विपरीता प्रकीर्तिता ॥९८॥x x लापी सदा भूयात्सिन्दुराङ्कितभालकः ।x x साहस्रसन्दर्शान्मुक्तो भवति मानवः ॥९९॥x x दर्शे दिव्यरूपः सिद्धो भवति मानवः ।भक्तियुक्तः प्रसन्नात्मा देवतातिथिपूजकः ॥१००॥अधोभागे वृक्षमूलमन्यवृक्षश्च तिष्ठति ।ऊर्द्ध्वे शाखास्तत्र पुष्पं फलं तत्र तदुत्तरम् ॥१०१॥शुष्कं बीजं भवेद्ब्रह्मा आलवालञ्च मूलके ।जलं तत्र प्रदेयं स्याद्वृक्षकः पुरुषाधमः ॥१०२॥स्वमूलञ्चन जानाति पररक्षार्थमुद्यतः ।चीनद्रुमलतायास्तु मूलं चैवालवालकम् ॥१०३॥पुष्पं फलं तथा बीजमेकत्रैव प्रतिष्ठति ।स्वरक्षकः स्वयं देवि जलबिन्दुर्वटस्थितः ॥१०४॥ध्वजस्तस्य च नालं स्यादिति संक्षेपतो मतम् ।सर्वमेकत्र सिद्धञ्च वृक्षे भिन्न महेश्वरि ॥१०५॥पूर्ववृक्षस्तु निर्जीवः सजीवोsयं महेश्वरि ।सर्वसिद्धः परः प्रोक्तो वृक्षोsप्येवं महेश्वरि ॥१०६॥इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ।श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ॥१०७॥यज्ज्ञनयोगतो देव त्रैलोक्यविजयी भवेत् ।श्रीशिव उवाच ।महाकल्पलतामूले विचिन्त्य स्वेष्टदेवताम् ॥१०८॥मनोगतः समायोज्य चित्तं कोणगतं चरेत् ।तद्रूपः सन्महादेवि ध्यानयोगं समभ्यसेत् ॥१०९॥घटिकापञ्चकध्यानाद् वायुतुल्यो नरो भवेत् ।घटिकादशकध्यानात्पृथिव्यां जयमाप्न्नुयात् ॥११०॥घटीपञ्चदशघ्यानाद्वह्निनाsसौ न दह्यते ।घटिकाविंशतिध्यानात्सर्वाकर्षणकारकः ॥१११॥घटिकात्रिंशतिध्यानात्पूर्णसिद्धिमवाप्नुयात् ।अहोरात्रेण देवेशि मूलादीन्जपति प्रिये ॥११२॥दिवसत्रितयध्यानादणिमाद्यष्टकं लभेत् ।ध्यानयोगं समभ्यस्य कुण्डलीध्यानभाग् भवेत् ॥११३॥मार्गं विना महेशानि गतिश्चैव कथं भवेत् ।मार्गदर्शनकार्यार्थं लता प्रोक्ता किमिच्छसि ॥११४॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे नवरात्रनिर्णयो नाम षोडशः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP