संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| त्रयश्चत्वारिंशतिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - त्रयश्चत्वारिंशतिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत त्रयश्चत्वारिंशतिः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।देवदेव उमाकान्त प्राणात्प्राणतर प्रभो ।त्वया संसूचितं पूर्व विद्यानां सिद्धिनिर्णयम् ॥१॥तन्मे कथय देवेश यद्यहं तव वल्लभा ।श्रीशिव उवाच ।सारात्सारतरं देवि रहस्यमपि गोपितम् ॥२॥तव प्रीत्या महेशानि कथ्यते श्रृणु साम्प्रतम् ।काली तारा चिन्नमस्ता वीरसाधनमार्गतः ॥३॥याममात्रेण सिध्यन्ति नात्र कार्या विचारणा ।साधनारहिते देवि वर्णलक्षद्वये शिवे ॥४॥कालिका सिद्धिदा प्रोक्ता तारा श्रीशैवतत्त्वके ।छिन्नमस्ता चतुःषष्टिलक्षजापेन सिध्यति ॥५॥चतुरशीतिलक्षैस्तु सुन्दरी सिद्धिदा क्कचित् ।बाला कोट्यर्धजापेन बगला पञ्चसप्ततिः ॥६॥श्रीएमहाराजमातङ्गी वर्णलक्षैस्तु सिध्यति ।सिद्धविद्या महेशानि मासलक्षेण सिध्यति ॥७॥महालक्ष्मीश्च भुवना तथा धूमावती प्रिये ।विद्यागुणनयोगेन सिध्यन्त्येव न चान्यथा ॥८॥विद्यामात्र महेशानि विद्यानामार्णयोगतः ।मातकार्णकृतेनैव गुणानां भाजनं चरेत् ॥९॥तावल्लक्षैर्महेशानि सिध्यत्येव न चान्यथा ।भरवस्य तु योगेन शाबरं सिद्धिदायकम् ॥१०॥निर्मित नवनाथैस्तु आदिनाथस्तु भैरवः ।दशाविद्याक्रमे देवि दशधा फलमीरितम् ॥११॥एको मनुश्चेत्संसिद्धस्तदा सर्वेsपि सिद्धिदाः ।षट्पञ्चाशद्देशभेदैः शाबरे भेदभाजनम् ॥१२॥भैरवस्य तु संयोगाच्छाबरं सिद्धिदायकम् ।महाकालस्य संयोगाद् बटुकस्य च योगतः ॥१३॥शाबरं सिद्धिदं देवि तच्च वै द्विविध भवेत् ।नाथोक्तं शम्भुसम्प्रोक्तं नाथोक्तं द्विविधं भवेत् ॥१४॥शिवोक्तरूपभेदन तत्र नाथाभिधे शिवे ।चतुरशीतिसिद्धोक्तं नाथोक्तं द्विविधं भवेत् ॥१५॥एका चेद्देवता सिद्धा तदा सिद्धं जगत्त्रयम् ।तत्रापि बटुकेनैव सिद्धं स्थावरजङ्गमम् ॥१६॥अथाद्यो हेतुबटुको द्वितीयो बटुकः स्मृतः ।त्रिपुरान्तकबटुकस्मृतीयः परिकीर्तितः ॥१७॥वह्निवेतालबटुकश्चतुर्थः परिकीर्तितः ।अथाग्निजिह्वबटुकः पञ्चमः परिकीर्तितः ॥१८॥श्रीकालवटुको देवि करालबटुकस्तथा ।तथैकपादबटुको श्रीभीमबटुकस्तथा ॥१९॥त्रैलोक्यबटुकश्चैव श्रीसिद्धबटुकस्तथा ।दश वै बटुकाः ख्याताः कलौ प्रत्यक्षसिद्धिदाः ॥२०॥मातृकासुतसंज्ञाख्या बटुकाः पूर्वमीरिताः ।महाक्रोधस्य योगेन सिध्यन्ति किन्नरीगणाः ॥२१॥कालिकायां महाकालश्चाक्षोभ्यस्तारिणीमनौ ।त्रिपुरायां तु राजेशो बगलायाञ्च त्र्यम्बकः ॥२२॥मातंग्यां तु महेशश्च भुवनेश्यं महेश्वरः ।नारायणो महालक्ष्म्यां महादेवोsथ वा प्रिये ॥२३॥छिन्नायां तु करालः स्यात्सिद्धायां कुक्कुटेश्वरः ।धूम्रायां तु अघोरः स्यादिति संक्षेपतो मतम् ॥२४॥शक्त्या विना शिवे सूक्ष्मे नाम धाम न विद्यते ।शिवं विना चित्कलायां न कलात्वं क्कचिद्भवेत् ॥२५॥बीजाङ्कुरन्याययोगात् शिवशक्त्यात्मकं महः ।सदा जागर्ति देवेशि नानारूपाणि दर्शयन् ॥२६॥सर्वभावे तु बटुको महाकालस्तथैव च ।तारिण्यां बटुकः प्रोक्तः कल्यां कालः प्रकीर्तितः ॥२७॥श्रीक्रोधमण्डलं देवि पातालाम्नायगोचरम् ।यथा पराख्यमन्त्रे तु शिवशक्त्यात्मकं महः ॥२८॥सदा जागर्ति देवेशि व्याप्त ब्रह्माण्डमण्डलम् ।बिन्दुयुक्ता भवेच्छैवी सर्गान्ता शक्तिसंज्ञिका ॥२९॥बिन्दुसर्गान्वितायां तु शिवशक्तिमयी कला ।बीजाङ्कुरन्याययोगात्सदा तिष्ठति तिष्ठति ॥३०॥वीरसाधनमार्गेण शिथिलोsपि च सिध्यति ।शक्तिमन्त्रे शम्भुमन्त्रे शाबर गाणपे तथा ॥३१॥कौले वौद्धे वैदिके च क्रूरमन्त्रेsपि पार्वति ।महाविद्याक्रमे देवि सिद्धविद्याक्रमे तथा ॥३२॥विद्याक्रमेsपि देवेशि वीरसाधनमार्गतः ।सर्वं सिध्यति देवेशि नात्र कार्या विचारणा ॥३३॥जीवहीने यथा जीवो मृतसञ्जीवनीक्रमात् ।पुनर्जीवो यथा भूयात्तथा साधनयोगतः ॥३४॥सर्वं सिध्यति देवेशि नात्र कार्या विचारणा ।मन्त्रमात्रे महेशानि वीरसाधनमाचरेत् ॥३५॥बटुके हनुमन्मन्त्रे गारुडे चेटकेsपि च ।वेताले धूम्रवेताले वीरसाधनमाचरेत् ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥३६॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे विद्यासिद्धिनिर्णयो नाम त्रयश्चत्वारिंशतिः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP