संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| त्रयोदशः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - त्रयोदशः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत त्रयोदशः पटलः । Translation - भाषांतर ईश्वर उवाच ।कौलावधूतमार्गेषु तीर्थयात्रां न च व्रजेत् ।तीर्थाटनं च संन्यासं व्रतधारणमेव च ॥१॥उपवासं मुण्डनं च सर्वथा परिवर्जयेत् ।पूर्णाभिषेकः शिरसि तेन तत्र न मुण्डनम् ॥२॥कौलतीर्थानि भिन्नानि तत्र कौलो वसेत् सदा ।एकस्यामेव देवेशि सन्ति पीठानि कृत्स्नशः ॥३॥तत्पीठमधिपीठं स्यात् x x यामधिराजता ।श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि कौलतीर्थानि सर्वशः ॥४॥ईश्वर उवाच ।ब्राह्मणी तु गया प्रोक्ता राजाsयोध्या प्रकीर्तिता ।वैश्या चावन्तिका प्रोक्ता शूद्रा तु मथुरा स्मृता ॥५॥दासी मायापुरं देवि नटी गोदावरी मता ।मालाकारिणिका देवि चित्रकूटं प्रकीर्तितम् ॥६॥कुम्भकारिणिका देवि श्रीपुरं परिकीर्तितम् ।उड्ड्यानं तु महादेवि (?) सौचिकी पौंड्रवर्धनम् ॥७॥जालन्धरं कुविंदा च तन्तुवायी तु काञ्चिका ।असिमार्जनिका देवि कामरूपमिति स्मृतम् ॥८॥रजकी पुष्करं प्रोक्तं चर्मकारी तु काशिका ।अयस्करीगृहं देवि कोलापुरमिति स्मृतम् ॥९॥शौण्डिक्यास्तु गृहं देवि नेपालमिति कीर्तितम् ।केदारपीठं देवेशि नापिती परिकीर्तितम् ॥१०॥गोकर्णपीठं देवेशि त्वाष्ट्री वै परिकीर्तितम् ।उज्जयिनी भवेत्पीठं कलादिकमितीरितम् ॥११॥कालेश्वरी त्वञ्चुकी स्यात् कैवर्त्ती हस्तिनापुरम् ।शौल्किकी राजगेहन्तु जयन्ती तैलकारिणी ॥१२॥कान्यकुब्जं मागधी स्यात्सर्वत्र गृहयोजनम् ।वेश्यागृहं प्रयागः स्याच्छ्रीशैलं तु कुमारिका ॥१३॥कैलासपीठमाभीरी क्षीरिका पुंश्चली भवेत् ।हिरण्याख्यपुरं देवि स्वैरिणी परिकीर्तितम् ॥१४॥अट्टहासं च सैरन्ध्री दूतिका मरुतेश्वरम् ।ॐकारपीठं देवेशि रण्डागृहमितीरितम् ॥१५॥प्रतिवेशिनिकागेहं मलयं पीठमीरितम् ।स्वजायाया गृहं देवि विरजापीठमीरितम् ॥१६॥कुट्टन्यास्तु गृहं देवि पूर्णचन्द्रमितीरितम् ।श्रीगारुडीगृहं देवि पीठं वै देवमातृकम् ॥१७॥आम्रातकेश्वरं पीठं चाण्डालीगृहमीरितम् ।पौत्रीगृहं कामकोटं प्रपौत्र्यैकाम्बरं मतम् ॥१८॥मातुलानी अनन्तः स्यात् संविधिन्याश्चरस्थिरम् ।राजकन्यागृहं देवि माहेन्द्रमिति कीर्तितम् ॥१९॥कन्यागृहं कहादेवि जलेश्वरमितीरितम् ।स्नुषागृहं मएशानि विचित्रमिति कीर्तितम् ॥२०॥भगिन्यास्तु गृहं देवि भृगुपीठमितीरितम् ।श्यालिकाया गृहं देवि महापथ इतीरितः ॥२१॥यवनी गदिता देवि मेरुकागिरिरेव च ।या स्यात् विवाहिता कन्या तद्गृहं वामनं स्मृतम् ॥२२॥श्रीकेलिकुञ्चिकागेहं हिंगुलायाभिधं भवेत् ।पर स्त्री बिंदुतीर्थं स्यात् सर्वतीर्थं रजस्वला ॥२३॥तानि सर्वाणि तीर्थानि मातङ्गीसंगमे सकृत् ।एतत्प्रोक्तं महादेवि किमन्यच्छ्रोतुमिच्छसि ॥२४॥श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि चतुष्पीठस्य लक्षणम् ।श्रीशिव उवाच ।रहस्यं च प्रवक्ष्यामि यज्ज्ञानादमरो भवेत् ॥२५॥श्यालकस्य तु या पत्नी कुरुक्षेत्रं च तद्गृहम् ।तत्कन्याया गृहं देवि श्रीगौरीमुखसंज्ञकम् ॥२६॥तरुणी सुन्दरी रामा स्वभार्याभगिनी च या ।तज्जेष्ठा च महेशानि कनिष्ठादिक्रमेण च ॥२७॥ज्येष्ठा तु केलिकुञ्ची स्यात् कनिष्ठा केलिगेहिनी ।चतुष्पीठानि देवेशि क्रमादुच्चरितं श्रुणु ॥२८॥कुरुक्षेत्रं महेशानि गौरीमुखमथापरम् ।पञ्चभद्रं केलिकुञ्ची मोहिनी पञ्चभद्रकम् ॥२९॥तद्गोष्ठी स्तोत्रपाठो हि तत्संगप्रणतिस्तथा ।x x स्पर्शो महेशानि श्रीघतस्थापनं मतम् ॥३०॥तत्संयोगः पूजनञ्च तद्वाचस्तु प्रसन्नता ।पुष्पाञ्जल्यादिकं चैव x x नाद्यं प्रकीर्तितम् ॥३१॥कामस्थं काममध्यें च कामेन च पुटीकृतम् ।कामस्थं योजयेत्कामं कामं कामेन योजयेत् ॥३२॥वारं वारं तु x x x पूजनावरणक्रमः ।तदालापस्तत्समाजः पूजा साsत्र प्रकीर्त्तिता ॥३३॥यन्त्रं त्रिकोणमित्युक्तं तत्रस्थं परमेश्वरि । विसर्जनं वीजपातस्तद्धस्ता x x पूजनम् ॥३४॥सदा तत्संयोगस्तद्ब्रह्म तद्धस्तपरिचुम्बनम् ।उपर्यधस्तात्तत्कृत्वा तत्संयोगी नरो भवेत् ॥३५॥ चतुष्पीठसमायोगं यः करोति महेश्वरि ।तस्य देवि प्रसन्नाsस्ति नात्र कार्या विचारणा ॥३६॥तत्पीठे तन्मुखे x x दत्त्वा यत्नेन पार्वति ।लिहन् जपं प्रकुर्वीत सर्वसिद्धीश्वरो भवेत् ॥३७॥त्रिकोणामृतयोगेन कालिकां तर्पयेत्सदा ।वाग्मिता कविता चैव तद्धस्ते सर्वदा वसेत् ॥३८॥तच्चक्रं पुष्पसंयुक्तं वीक्ष्य यत्नेन पार्वति ।दिक्सहस्रं जपेद्देवि सर्वसिद्धीश्वरो भवेत् ॥३९॥संयोगीभूय सप्तव्यं चतुःप्रहरयोगस्तः ।यथालाभं च वा कुर्याद्भगिनी श्यालिका च या ॥४०॥केलिकञ्ची विशेषेण सा शुद्धा स्त्री विशेषतः ।एवं क्रमेण यः कुर्यात् सर्वसिद्धिं स विन्दति ॥४१॥इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ।श्रीदेव्युवाच ।चतुष्पीठानि प्रोक्तानि संक्षेपेण महेश्वर ॥४२॥पीठशक्तेः स्वरूपं तु ह्यनुकल्पं च मे वद ।श्रीशिव उवाच ।नारी त्रैलोक्यजननी नारी त्रैलोक्यरूपिणी ॥४३॥नारी त्रिभुवनाधारा नारी देहस्वरूपिणी ।पुंरूपं च स्त्रियो रूपं यत्किञ्चिद्रूपमुत्तमम् ॥४४॥नारीचक्रे सर्वरूपं यत्किंचिज्जगतीगतम् ।न च नारीसमं सौख्यं न च नारीसमा गतिः ॥४५॥न नारीसदृशं भाग्यं न भूतं न भविष्यति ।न नारीसदृशं राज्यं न नारीसदृशं तपः ॥४६॥न नारीसदृशं तीर्थं न भूतं न भविष्यति ।न नारीसदृशो योगो न नारीसदृशो जपः ॥४७॥न नारीसदृशो योगो न भूतो न भविष्यति ।न नारीसदृशं मंत्र न नारीसदृशो तपं ॥४८॥न नारीसदृशं वित्तं न भूतं न भविष्यति ।तरुणीं सुन्दरीं रम्यां यौवनोद्धतमानसाम् ॥४९॥मदोन्मत्तां खञ्जनेत्रीं सदा x x भिलाषिणीम् ।x x मोद्युक्तहृदयां प्रार्थयेद्विधिपूर्वकम् ॥५०॥सर्वाभरणभूषाढ्यां षोडशाब्दां x x प्रियाम् ।ईदृक्विधां समानीय पूर्ववत्सर्वमाचरेत् ॥५१॥प्रसूनतूलिकायां तु संस्थाप्य परमेश्वरि ।सर्वोपचारैः सम्पूज्य x x x x x नादिकम् ॥५२॥साङ्गां सावरणां कालीं सम्पूज्य च प्रयत्नतः ।स्वयमक्षोभितो भूत्वा तस्याः क्षोभं समाचरेत् ॥५३॥तया यदुच्यते वाक्यं तत्तथैव भविष्यति ।तद्गेहदेहस्पर्शेन पूतमेत्तच्चाराचरम् ॥५४॥तस्या गेहे महेशानि तद्भावं च समाचरत् ।नारीरूपं तु संचिन्त्य योगो जातेति भावयेत् ॥५५॥योगवद्भावयेत्सर्वं तेन सिद्धीश्वरो भवेत् ।विपरींत भाव्य जपेत्तेन सिद्धीश्वरो भवेत् ॥५६॥स्त्रीस्वरूपः स्वयं भूत्वा स्वस्वरूपा तु कामिनी ।कुचकज्जलसीमन्त कङ्कणाभरणानि च ॥५७॥कृत्वा स्वदेहे सर्वं तु तस्यां पुंरूपमाचरेत् ।यथा पुरूषसंयोगः क्रीड्यते स्त्रीत्रिकोणके ॥५८॥तथा स्त्रिया च कर्तव्यं x x धारणपूर्वकम् ।x x x तथा सर्वान्कुर्याद्यत्नेन पार्वति ॥५९॥एवंविधे योगवरे दीक्षायोगं समाचरेत् ।सर्वं सफलतां याति कालीविद्याप्रसादतः ॥६०॥गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥६१॥श्रीदेव्युवाच ।सहस्र x x सन्दर्शान्मुक्तो भवति मानवः ।सहस्र x x सन्दर्शाद्देवतादर्शनं ध्रुवम् ।चतुष्पीठानि प्रोक्तानि साधनं चिन्तनं वदं ॥६२॥श्रीशिव उवाच ।श्यालकस्य च या भार्या कुरुक्षेत्रं प्रकीर्तितम् ।तत्कन्यायास्त्रि x x च गौरीमुखमितीरितम् ॥६३॥शालिकायास्त्रिः x x यत्पञ्चभद्राभिधं च तत् ।भार्या ज्येष्ठा तु या प्रोक्ता सा चात्र केलिकुञ्चिका ॥६४॥तस्या x x विश्वभद्रं सर्वपीठोत्तमोत्तमम् ।एतासां व्यभिचारेण नामान्यन्यानि संश्रृणु ॥६५॥स्वर्गद्वारं कामबिलं महापथाभिधं परम् ।वाञ्छामणिश्चतुर्थं स्याश्चतुष्पीठानि पार्वति ॥६६॥वर्षषोडशपर्यन्तं पूर्वा पुण्योद्भवा मता ।द्वात्रिंशद्वर्षपर्यन्तममृतान्दोलिका मता ॥६७॥ततोsष्टवर्षपर्यन्तं सुधासागरनामकम् ।ततो दिग्वर्षपर्यन्तमानन्दव्रतनामकम् ॥६८॥पूर्वाषोडशपर्यन्तं महासिद्धिमुखाभिधम् ।पञ्चपीठानि पूर्वं स्यादधिराजक्रमेण च ॥६९॥तत्कन्याया महेशानि श्रृणु यत्नेन साम्प्रतम् ।अथाषोडशपर्यन्तं योगवीणा प्रकीर्तिता ॥७०॥पुष्पिता चेद्धि ब्रह्माण्डं कीर्तितं वै चतुष्ककम् ।द्वात्रिंशद्वर्षपर्यन्तं साम्राज्यगुटिकाभिधा ॥७१॥ततोsष्तवर्षपर्यन्तमानन्दतूलिका मता ।ततो दिग्वर्षपर्यन्तं सौभाग्यकमलं भवेत् ॥७२॥अथ श्रीशक्तिकागेहलक्षणं श्रुणु पार्वति ।अथाषोडशपर्यन्तं महासाम्राज्यमण्डपम् ॥७३॥स्वाराज्यमण्डलं देवि तदनन्तरगं भवेत् ।वैराज्यमण्डलं देवि ततः सर्वज्ञपीठकम् ॥७४॥पूर्वाषोडशपर्यन्तं द्वे प्रोक्ते ऋद्धिकामुकम् ।सर्वसिद्धिप्रदा देव्याः केलिकुञ्च्याः प्रकौर्तिता ॥७५॥पूर्वाषोडशपर्यन्तं विश्वरूपाभिधं भवेत् ।षोडशोत्तरगं देवि षष्टिसिध्द्यभिधं भवेत् ॥७६॥द्वात्रिंशदुत्तरं देवि सुन्दरीमोहनाभिधम् ।श्रीकालीमोहनाख्यं तु तदनन्तरमीरितम् ॥७७॥चतुर्णामपि पुष्पे चेत्पुष्पिणीयोगमाहरेतू ।रूढिजातिक्रिया चेत्स्यादधिराजाधिपं जपेत् ॥७८॥पीठानि कथितान्यत्र रूपगन्धननाम च ।प्रदद्याद्यत्नतो देवि परादिक्रमतोsपि वा ॥७९॥स्त्रीमात्रे परमेशानि योगोsयं विनिवेद्यताम् ।साधको देवदेवेशि निर्विकल्पो जितेन्द्रियः ॥८०॥कामक्रोधादिरहितो घृणालज्जाविवर्जितः ।x x x x ॥८१॥x x x x ।दृष्टदोषेsपि देवेशि मनःक्षोभं न कारयेत् ॥८२॥कृतमन्येन x x x x x x स्वस्य पार्वति ।निरन्तरं कृतं द्वित्रर्दशपञ्चभिरेव वा ॥८३॥एवं ज्ञात्वाsपि देवेशि विकाररहितो यदि ।ईदृग्विधो निर्विकल्पः साधनार्हो न चान्यथा ॥८४॥यदि दैववशाद्देवि x x चेद्वयभिचारिणी ।तथापि तस्याः सन्तोषं कारयेद्यत्नतः शिवे ॥८५॥अन्यथा नरकी भूयान्नात्र कार्या विचारणा ।सैव सृष्टिर्जगद्धात्री सैव कारणमीश्वरी ॥८६॥तस्या निवारणं देवि कर्तुं केनात्र शक्यते ।तया यत्कियते देवि सर्वं सन्तोषरूपकम् ॥८७॥मन्यमानो महेशानि साधको भवति ध्रवम् ।केलिकुञ्चीं महादिव्यां सर्वलक्षणसंयुताम् ॥८८॥तारुण्यामृतसंयुक्तां भावयेत् पूजयेत्सदा ।कादिहादिक्रमेणैव सर्वं सम्पादयेद्ध्रुवम् ॥८९॥x x x सा चेत्तदा काली प्रकीर्तिता ।गन्धरूपयुता स्यात् चेत्सिद्धविद्यादिरूपिणी ॥९०॥ शयने सुन्दरी प्रोक्ता रतिगोष्ठीषु तारिणी ।छिन्ना x xतु देवेशि माने हि बगला मता ॥९१॥श्रृङ्गारकरणे देवि महालक्ष्मीः प्रकीर्तिता ।तस्याः समाकारणञ्च मातङ्गी परिकीर्तिता ॥९२॥संयोगवार्ता भुवना निद्रार्ता भैरवी मता ।सर्वान्तरायो देवेशि दूरात्सन्दृश्यते यदि ॥९३॥हस्तेनायाति चेत् सा वै तदा धूमावती भवेत् ।स्वेच्छा x x स्पर्शकाली स्वेच्छया तु विपर्यते ॥९४॥श्रीमहादक्षिणाकाली महासाम्राज्यनायिका ।स्वेच्छादौ चेत्पुष्पयुक्ता श्रीमहाकामकालिका ॥९५॥बला x x सिद्धिकाली संक्षेपादिदमीरितम् ।स्त्रीमात्रे योजनीयं हि केलिकुञ्च्यां विशेषतः ॥९६॥आमूलात्नं च संवीक्ष्य सप्त x x x योगतः ।ओष्ठं x x नेत्रयुग्मं कपोले भालदेशके ॥९७॥x x सप्तममादिष्टं तेन सिद्धीश्वरो भवेत् ।हस्ताहस्तितया धृत्वा दिक्सहस्रं जपेन्मनुम् ॥९८॥कालिका वरदा तस्य नात्र कार्या विचारणा ।x x x समाचर्यं सहस्रं त्रिदिनं जपेत् ॥९९॥त्रिकालज्ञो भवेद्देवि नात्र कार्या विचारणा ।x x x x x x दशसाहस्रकं जपेत् ॥१००॥साधकः साधनासक्तः कल्पद्रुमसमो भवेत् ।x x x x x x ॥१०१॥दश साहस्रकं जप्त्वा दशविद्याधिपो भवेत् ।मुखे x x तु संदत्त्वा सहस्रदशकं जपेत ॥१०२॥महाकविवरो भूत्वा वादिराजो भवेद्ध्रुवम् ।चामरं रविबिम्बञ्च त्रिसूत्र ञ्च सरोरुहम् ॥१०३॥तिलपुष्पं चन्द्रबिम्बं खञ्जरीटं च पार्वति ।पृथ्वीं विकसितां x x दश स्थानानि पार्वति ॥१०४॥प्रत्येकं दिक्सहस्रं च प्रजपेत्कालिकामनुम् ।कालिका वरदा तस्य क्षणमात्रेण जायते ॥१०५॥सर्वाभावे स्वस्त्रियां च कर्तव्यं साधनं वरम् ।चतुष्कपीठाभावे तु तत्तन्नामानि कल्पयेत् ॥१०६॥गन्धर्वोद्वाहयोगेन मौल्येनापि महेश्वरि ।द्रव्यदानेन देवेशि मननं कारयेत्प्रिये ॥१०७॥मननाज्जायते माता वरदात्री न संशयः ।प्रसूनतूलिकां कृत्वा उच्चस्थाने निधापयेत् ॥१०६॥गन्धर्वोद्वाहयोगेन मौल्येनापि महेश्वरि ।द्रव्यदानेन देवेशि मननं कारयेत्प्रिये ॥१०७॥मननाज्जायते माता वरदात्री न संशयः ।प्रसूनतूलिकां कृत्वा उच्चस्थाने निधापयेत् ॥१०८॥पात्रासादनकं कृत्वा पूजाद्रव्याणी चानयेत् ।पञ्चषोढापरो भूत्वा तस्यां न्यासादिकं चरेत् ॥१०९॥साsपि चेत्स्यात् मतङ्गोत्था साsपि प्रथम x x x ।अथवा केलिकुञ्चादि प्रतिमासादि x x x ॥११०॥यदि भाग्यवशाद्देवि लभ्यते वा न लभ्यते ।दीक्षितां देवताभक्तां घृणालज्जाविवर्जिताम् ॥१११॥जपासक्तां समासाद्य सर्वं संसाधयेच्छिवे ।तस्यां न्यासादिकं कृत्वा कामसोमकलादिकान् ॥११२॥केशसंमार्जनं कृत्वा उपचारान् प्रकल्पयेत् ।स्पर्शं कृत्वा जपं कुर्याद् x x x पूजनाद्भवेत् ॥११३॥साङ्गां सावरणां कालीं सम्पूज्य परिभाव्य च ।पूजासमाप्तौ देवेशि x x x x x x x पूजनाद्भवेत् ॥११४॥यथासंख्यं जपेत्तत्र x x x x विकाशयेत् ।x x x x x x ॥ ११५॥x x x x सहस्रं तत्र संजपेत् ।x x x x x x ॥११६॥तया यदुक्तं देवेशि तदेव कारयेद्ध्रुवम् ।पूजां जानीहि देवेशि तयोक्तं योगमाचरेत् ॥११७॥योगं कृत्वा x x x तु तत्र यन्त्रं विलिख्य च ।तत्सर्वं प्रलिहन् देवि जपं कुर्यादनन्यधीः ॥११८॥पूजाजपो होमकर्म तर्पणं मार्जनं तथा ।द्विजानां भोजनं चैव सर्वदा यत्र तिष्ठति ॥११९॥शय्याभंगो भवेत्पूजा जपो जल्पः प्रकीर्तितः ।प्रवेशनं होमकर्म तर्पणं xxx भवेत् ॥१२०॥तत्क्षालनं मार्जनं स्याद् दर्शनं द्विजभोजनम् ।ईदृग्विधं महापीठं स्वयम्भूसंज्ञकं परम् ॥१२१॥यस्य दर्शनमात्रेण यावन्त्यः सन्ति सिद्धयः ।स्वयमागत्व दासत्वं कुर्वन्त्येव न संशयः ॥१२२॥अनन्तयुगपर्यन्तं वीरसाधनकोटयः ।कृता येन महेशानि तत्तुल्यं निमिषाद्भवेत् ॥१२३॥इति प्रोक्तं षष्ठिसिद्धिदातृसाधनमुत्तमम् ।त्रिसहस्रं वेदशतं षट्पञ्चाशत्तु कीर्तितम् ॥१२४॥सूर्यसाहस्रकं देवि तथा कलाशतं शिवे ।द्विशतं पंचसङ्ख्यं तु नायिकाकुलमीरितम् ॥१२५॥रहस्यातिरहस्यं च गोपनीयं स्वयोनिवत् ।वर्षादभूपो भवेत्सोहि नात्र कार्या विचारणा ॥१२६॥स एव कालीरूपः स्यान्नात्र कार्या विचारणा ।अथ वक्ष्ये महेशानि यौवनाङ्कुरमादितः ॥१२७॥सहस्रं च शतं नेत्रपञ्चाशदधिकं शिवे ।दिव्यादिव्ये च तद्द्वये चित्रिण्यादिक्रमेण च ॥१२८॥त्रैलोक्यभुवनान्येव तीर्थानि पीठपर्वताः ।पुरी वनानि ग्रामाश्च द्वीपाश्चैव क्रमेण च ॥१२९॥सागराश्च महापुर्यः समुद्राश्च प्रकीर्तिताः ।तथा नद्यादि देवेशि देशपर्यायतीर्थकम् ॥१३०॥क्रेमेण योज्यतां देवि नात्र कार्या विचारणा ।सुन्दरीपीठभेदं च वनानि वाटिकास्तथा ॥१३१॥प्राकाराश्चैव सोपानं नायिकाभेदतश्चरेत् ।चत्वारो नायिका देवि व्यत्ययात्प्रतवाचकाः ॥१३२॥ब्रह्माण्डमेतद्देवेशि स्त्रीदेहे तिष्ठति प्रिये ।ब्रह्माण्डानामनन्तं च स्त्रीदेहे स्फुटमेव च ॥१३३॥स्त्रीरूपं च जगत्सर्वं यत्किञ्चिज्जगतीगतम् ।तद्रूपपूजनाद्देवि पूजिताः सर्वयोषितः ॥१३४॥महाविद्याश्च योगिन्यो मातृकाः सर्वदेवताः ।यथायोग्य्स्थानपीठे निवसंत्येव पार्वति ॥१३५॥शास्त्रात्सर्वं तु विज्ञाय यथायोगेन योजयेत् ।पूर्वोक्तमत्र पशूनां दिव्यानामेतदेव तु ॥१३६॥वीराणामपि च तथा दिव्ये वीरे न भेदता ।समस्तज्ञानसंयोगाद् ब्रह्माण्डाख्यप्रदक्षिणा ॥१३७॥पृथ्वीप्रदक्षिणा देवि पशूनां परिकीर्तिता ।सा पृथ्वी शक्तियोनिः स्यात्रैलोक्यं योनिमध्यगम् ॥१३८॥x x प्रदक्षिणा देवि वीराणां परिकीर्तिता ।गुप्ता व्यक्ता द्विधा देवि पृथिवी परिकीर्तिता ॥१३९॥व्यक्ता गुप्ता महापुण्या तत्प्रदक्षिणमाचरेत् ।सर्वश्रेष्ठा महादेवि ब्रह्माण्डाख्यप्रदक्षिणा ॥१४०॥पादमात्रकृते देवि परशम्भुः सदाशिवः ।शिव एव विजानाति फलबाहुल्यमत्र तु ॥१४१॥स्मरणाद्भाषणाद्देवि त्रैलोक्यं पूजितं भवेत् ।शक्तिxxx संप्रोक्तः शैव तु विरतो भवेत् ॥१४२॥एतस्य लोपनाल्लोपा वृद्धावस्था प्रकीर्तिता ।शक्तिस्तारुण्यवाटी स्यान्नाभिकूपः प्रकीर्तितः ॥१४३॥x x घटौ महेशानि हास्यं पुष्पं प्रकीर्तितम् ।कामो द्वारं महेशानि तथा दशरसा शिवे ॥१४४॥नेत्रस्थानपञ्चकेन तिष्ठति परमेश्वरि ।सामरस्यरसो ब्रह्म स एवात्मा प्रकीर्तितः ॥१४५॥तद्वादनं ध्वनिः प्रोक्तस्तद्रसस्त्वमृतार्णवः ।उद्दीपनाxxxxस्तु सुगन्धः परिकीर्तितः ॥१४६॥मानसं भ्रामरं प्रोक्तं गतयः पक्षिणः स्मृताः ।मृगपश्वादिभेदानां गतयः परकीर्तिताः ॥१४७॥रागतालाश्च रागिण्यस्तद्वार्तालापनं भवेत् ।सर्वे हावाश्च देवेशि उत्त्खातारोपणं मतम् ॥१४८॥स्थायीभावाः सेचने स्याद्विभावाश्चावलोकनम् ।स्थानात्स्थानान्तरे यानमनुभावाः प्रकीर्तिताः ॥१४९॥मालाकारो वसन्तः स्यात्कटाक्षाः कामनिर्मिताः ।नवोढप्रौढपध्यादि एकद्वित्र्यावलिर्मता ॥१५०॥मालात्रुटिर्भवेन्मानो तन्नतिर्हा नायकः ।मालत्यादीनि पुष्पाणि रतिहासी भवन्ति च ॥१५१॥xxन्तहासे देवेशि सौगन्धे केशरादिकम् ।एवं सर्वं तु विज्ञाय पञ्चगन्धाद्यकं शिवे ॥१५२॥तद्धर्मस्तु महेशानि मयाsत्र परिकीर्तितः ।तद्वार्ताsनुग्रह क्रोधः शापश्च परिकीर्तितः ॥१५३॥तुष्टिः प्रसन्नता प्रोक्ता निन्दा क्षोभः प्रकीर्तितः ।ताटस्थ्यं चैव वैमुख्यं शक्तिरूपं प्रकीर्तितम् ॥१५४॥आग्नेयी स्वर्ग इत्युक्तः सौरीया नरलोकता ॥१५५॥चान्द्री पाताललोकत्वं त्रैलोक्यं कोणमध्यके ।बिन्दुधर्मस्तु पर्जन्यः सर्वं संक्षेपतो मतम् ॥१५६॥शयनं क्रीडनं नाट्यं काव्यं तद्रूपचिन्तनम् ।काव्यालापाश्च ये केचिन्द्रीतकाव्याखिलानि च ॥१५७॥शब्दमूर्तिधरस्यैते विष्णोरंशा महात्मनः ।पुनः पुनः किं वक्तव्यं त्रैलोक्यं तन्मयं भवेत् ॥१५८॥चतुर्विंशतिवाद्यानि संयोगध्वनिरेव च ।कराकृष्टिर्मूर्छना स्यात् x x x मोचनं शिवे ॥१५९॥प्रोक्तः स्वर्गो महेशानि प्रवेशो मोक्ष एव च ।अन्यत्र निर्गमो मोक्शो मूढानां दुःखभागिनाम् ॥१६०॥एतदज्ञानतो देवि फलं संसारजं शिवे ।अज्ञानादपि देवेशि फलमेवं प्रयच्छति ॥१६१॥ज्ञानादेव महेशानि किंतद्यन्न करे स्थितम् ।त्रिंशदर्वुदषट्पद्मपञ्चवृन्दार्बुदानि च ॥१६२॥मेधादीक्षादिभिर्युक्तस्तस्य ज्ञानं प्रकाशते ।ज्ञानात् कीटोsपि निर्मुक्तस्तद्योगं श्रृणु पार्वति ॥१६३॥जीवः कीटः पुरा भूत्वा भ्रमरं पश्यति प्रिये ।तदालोकनसद्भावाद् भ्रमरत्वं प्रजायते ॥१६४॥पुनः कीटो न हि भवेत्तारुण्यरूपतां गतः ।शून्यस्य भावना देवि शून्यरूपो हि नीरसः ॥१६५॥यथा भवति देवेशि भावयोगोsत्र कारणम् ।ब्रह्माण्डरूपा या शक्तिः परब्रह्मस्वरूपिणी ॥१६६॥चिच्छक्तिरिति विज्ञाता शून्यं तस्यास्तु कोणगम् ।अनन्तकोटिसंख्याता भ्रमरा यन्मुखोद्भवाः ॥१६७॥तस्याः परस्वरूपिण्याः सद्भावं तु समभ्यसेत् ।सुगमोsयं परो भावश्चेतनापुरुषोsपि वा ॥१६८॥शिवरूपः स च प्रोक्तः सर्वसिद्धिर्महेश्वरि ।भावयोगद्भवेन्मेधादीक्षा सर्वोत्तमोत्तमा ॥१६९॥आदौ कामकला प्रोक्ता तत्र चिन्तामणिर्भवेत् ।ततो बाला स्पर्शमणिः कामेशी सिद्धकालिका ॥१७०॥विद्याराज्ञी षोडशी च पश्यन्ती कामकालिका ।चरणेशी हंसकाली चतुश्चरणरूपिणी ॥१७१॥कुब्जिका गुह्यकाली च मेधादीक्षा समाचरेत् ।उभयत्र क्रमान्मेधादीक्षा प्रोक्ता महेश्वरि ॥१७२॥द्वितीये दीक्षितो यस्तु महामेधाभिधो भवेत् ।जीवः कीटः पुरा भूत्वा भॄंगित्वमभिगच्छति ॥१७३॥ततः षट्चक्रसम्भेदं कृत्वा तद्रसभुग्भवेत्।तत्तद्योगे महेशानि स्थापिते यन्त्रपीठके ॥१७४॥तेन मन्त्रान् लिखेद्देवि तस्योच्चारणमाचरेत् ।मन्त्ररूपो भवेत्तेन साम्राण्मेधा प्रकीर्तिता ॥१७५॥स्वयं शक्तिस्तद्द्वयं च शक्तिस्वक्रमयोगतः ।शैवशाक्ते शाक्तशैवे तद्द्वयक्रमयोगतः ॥१७६॥चक्राणि चैव विज्ञाय उक्तमार्गेण पार्वति ।चक्राणि चैव निर्भिद्य स्वरूपं तत्स्वरूपकम् ॥१७७॥न कीटत्वं न भृंगित्वं स्वरूपेणैव देवता ।देवतारूपभावेन क्षणात्तद्रूपतां ब्रजेत् ॥१७८॥अर्धनारीश्वराख्यो हि स्वर्ध्वयोगः प्रकीर्तितः ।ब्रह्मनारीश्वराखोsयं महायोगः प्रकीर्तितः ॥१७९॥दिव्यसाम्राज्यमेधाख्या दीक्षा प्रोक्ता ततः शिवे ।देवरूपा दिव्यरूपा मन्त्ररूपा महत्परा ॥१८०॥सर्वरूपा सर्वपूर्वा महासाम्राज्यमेधया ।युक्ता दीक्षा मया प्रोक्ता बिन्दुवत् गोपयेत् कलौ ॥१८१॥एतद्दीक्षोत्तरं देवि नान्यदीक्षाsस्ति कुत्रचित् ।अर्द्धं शिवो विजानाति काली जानाति पूर्णतः ॥१८२॥गुह्यकाल्यां सर्वमेतत्कुब्जिका सुन्दरी त्वतः ।कादिहादित्वकं सर्वं देवि तत्र प्रतिष्ठितम् ॥१८३॥नवतत्त्वा महाविद्या नवचक्रेश्वरी परा ।एतद्देक्षासमायुक्तः केरली परिकीर्तितः ॥१८४॥चक्षुष्मत्याद्येतदन्तं केरली षष्टिसिद्धिभाक् ।मेधान्ता गदिता सिद्धिः सम्राड्युक्ता मनोमयी ॥१८५॥चक्षुरुपान्तसंयुक्तः काश्मिरी तत्त्वसिद्धिभाक् ।नेत्रादिपूर्णदीक्षान्तो गौड इत्याभिधीयते ॥१८६॥अष्टसिद्धीश्वरः प्रोक्तः कला चन्द्रे कलानि च ।पात्राणि पूजने देवि यथायोगेन योजयेत् ॥१८७॥पंच वा परमेशानि गौडे दारिद्र्यकल्पना ।शक्तिर्मेधामयी प्रोक्ता तद्योगं च समभ्यसेत् ॥१८८॥दिव्ययोगो महेशानि तवाग्रेsयं प्रकीर्तितः ।दिव्यचक्रे जीवचक्रे शालिग्रामे तथैव च ॥१८९॥बाणलिङ्गे महेशानि नावाहनविसर्जनम् ।प्रत्यक्षरूपाण्येतानि देवास्तिष्ठन्ति सर्वदा ॥१९०॥अग्नौ दीपशिखामध्ये जले च दर्पणेsपि च ।सूर्यविम्बे चन्द्रविम्बे शालिग्रामशिलासु च ॥१९१॥स्फाटिके देवदेवेशि सदैवावाह्य पूजयेत् ।यन्त्रं तु गृहमित्युक्तं बिन्दुः सिंहासनं भवेत् ॥१९२॥शालिग्रामो भवेद्गेहश्चक्राणि पीठसंचयः ।चक्रयुक्ते चक्रमध्ये हीने चोपरि भावयेत् ॥१९३॥बाणलिङ्गे स्फाटिकेsपि हीरमारकते तथा ।तस्योपरि विभाव्याsथ पूजयेद्यत्नतः शिवे ॥१९४॥शालिग्रामे जीवचक्र सर्वान्देवान् प्रपूजयेत् ।यो भावो यस्य वै प्रोक्तस्तेन भावेन तिष्ठति ॥१९५॥पुष्पमेकतमं स्थाप्य पूजयेत्परमेश्वरीम् ।वीजयुक्तं तु यद्यन्त्रं तद्यन्त्रं सिद्धिरूपकम् ॥१९६॥शालिग्रामोsथवा यन्त्रं स्थाप्य चैकतमं शिवे ।दिव्यचक्रं यदा प्राप्तं जीवचक्रं तदा न च ॥१९७॥जीवचक्रं यदा प्राप्तं बाणलिङ्गं न चार्चयेत् ।बाणलिङ्गं यदा प्राप्तं शालिग्रामस्तदा न वै ॥१९८॥शालिग्रामो यदाप्राप्तस्तदाsन्यत्र न पूजयेत् ।शालिग्रामं तथा यन्त्रं द्वयमेकत्र नार्चयेत् ॥१९९॥पञ्चायतनपक्षी चेद् द्वितीयं पूजयेत्सदा ।एकपीठे पृथक् पूजां विना यन्त्रं करोति यः ॥२००॥देवताशापमाप्नोति रौरवं नरकं व्रजेत् ।शालिग्रामे तथा यन्त्रे विद्यमाने महेश्वरि ॥२०१॥देवः कुत्र वसेद्देवि स्थानद्वितयकं भवेत् ।शालिग्रामो भवेद्यन्त्रं शालिग्रामो गृहं भवेत् ॥२०२॥यन्त्र तु गृहमित्युक्तं गृहस्था देवता मताः ।प्रतिमा वा प्रकर्तव्या यथोक्ता शुभलक्षणा ॥२०३॥शालिग्रामे तथा यन्त्रे सहसैव प्रसीदति ।जीवचक्रे महेशानि प्रसन्नाsस्ति निरन्तरम् ॥२०४॥जीवचक्रस्य विज्ञानी कलौ दुर्लभ एव च ।बालुकायां भवेत्तैलं वन्ध्या पुत्रं प्रसूयते ॥२०५॥खपुष्पमति जायेत अयोनिर्मनुजोsपि वा ।जीवचक्रस्य विज्ञानी कलौ क्कापि न वै भवेत् ॥२०६॥अग्रस्थानं परित्यज्य भिक्षामटति दुर्मतिः ।तथा जीवं परित्यज्य परिधावति धावति ॥२०७॥अहो जीवस्य विज्ञानी शिवतुल्यो नरो भवेत् ।पश्यन् लिहन् स्पृशन् x x x भजन् ध्यायन् महेश्वरि ॥२०८॥यो जपेत्परमेशानि शिवतुल्यो नरो भवेत् ।जीव जीवेन युज्जीत जीव जीवेन योजयेत् ॥२०९॥जीवं जीवेन संयोज्य जीवन्मुक्तो नरो भवेत् ।अहो धन्यात्परो देवि जीवचक्री नरोत्तमः ॥२१०॥आनन्दात्मा घनान्दात्मा ज्ञानात्मा परमात्मवित् ।विज्ञानात्मा भवेद्देवि सकृज्जीवस्य दर्शकः ॥२११॥जीवचक्रं मुखे धृत्वा लक्षं जपति वादिराट् ।तद्रसं x x x x देवि लक्षं जपति कालिका ॥२१२॥जिह्वां दत्त्वा जपेल्लक्षं शक्तिपातकरो भवेत् ।x x दत्त्वा जपेल्लक्षं सर्वज्ञः साधको भवेत् ॥२१३॥आलोक्य प्रजपेल्लक्षं कविराट् साधको भवेत् ।x x दत्त्वा जीवचक्रे सप्तचम्बुनविद्ध्रुवम् ॥२१४॥x x मुखं प्रदत्त्वा तु लक्षं जपति शङ्करः ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥२१५॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे कौलतीर्थविनिर्णयो नाम त्रयोदशः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP