संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| त्रयःषष्टिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - त्रयःषष्टिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत त्रयःषष्टिः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।यन्न कस्यापि सम्प्रोक्तं तन्मे कथय साम्प्रतम् ॥१॥श्रीशिव उवाच ।रहस्ययोगं तं देवि कथ्यते श्रृणु साम्प्रतम् ।बालामानीय कौमारीं देवीवत् पूजयेत् प्रिये ॥२॥x x स्वशिरो दत्त्वा जपात्कालीमयो भवेत् ।बालामानीय चार्वङ्गीं तस्या दुग्धं प्रपाययेत् ॥३॥लक्षं जपेन्महेशानि सिद्धिः स्थिरमयी भवेत् ।बालामानीय चपलां तस्याः x x x ॥४॥लक्षं जपेन्महेशानि कामरूपत्वमाप्नुयात् ।बालामानीय चपलां तस्यातोषादिकं चरेत् ॥५॥लक्षमात्रं जपेद्देवि त्रैलोक्यविजयी भवेत् ।बालामानीय ललितां तथा वार्तां समाचरन् ॥६॥लक्षं जपेन्महेशानि काव्यकर्ता भवेद्ध्रुवम् ।कुमारीपूजनं स्वर्गे बालापूजा तु मानवे ॥७॥शक्तिपूजा च पाताले पाताले त्रिविधा गतिः ।वासुकिं स्वर्गलोकेsस्ति कर्कोटो मानवे भवेत् ॥८॥शेषः पाताललोकेsपि रहस्यं गोप्यतां शिवे ।इति संक्षेपतः प्रोक्तं कुलदर्भं श्रृणु प्रिये ॥९॥त्रिविधः कुलदर्भोsपि सूचितः कालाशम्भुना ।कथ्यते तत्र देवेशि गोपनीयं कुलेश्वरि ॥१०॥कुलचक्रोपरि गताः कुलदर्भाः सुखेष्टदाः ।कर्षार्थं कर्षमंत्रं वा पवित्राय प्रकल्पयेत् ॥११॥तर्जन्यां रजतं धार्यं स्वर्णं धार्यमनामयोः ।एष एव कुशः प्रोक्तो न कुशो वनसम्भवः ॥१२॥कूर्चानां पञ्चकं लिख्य परितो वृतमेखलाम् ।शूलं कपालमालिख्य ब्रह्मकूर्चः प्रकीर्त्तितः ॥१३॥एतस्य धारणादेव वाञ्छाकार्यमवाप्नुयात् ।त्रिधा दर्भः प्रकथितः कालिकागमवर्त्मनि ॥१४॥गोपनीयमिदं भद्रे सारात्सारतरं महत् ।कपालं च तथा खङ्गे स्त्रीबीजानि च पञ्च च ॥१५॥अनामायामिदं धार्यं स्वर्णमर्णं शुभावहम् ।कूर्चाद्यं कालिका तारा सप्तताराद्यमेव च ॥१६॥सर्वबीजाढ्यरूपं च कुलदर्भं विधारयेत् ।विद्याश्रीकीर्तिजननं शक्तिदं सर्वसिद्धिदम् ॥१७॥सर्वसौन्दर्यदं भद्रे वाञ्छासिद्धिप्रदर्शकम् ।इति संक्षेपतः प्रोक्तं ध्यानभेदक्रमं श्रृणु ॥१८॥खङ्गमुण्डवराभीतिर्मालामार्गेण कारयेत् ।खङ्गमुण्डवराभीत्यः पंक्तिमार्गेण धारयेत् ॥१९॥दक्षहस्तक्रमेणैव खङ्गमुण्डवराभयान् ।भावयेत्परमेशानि ध्यानमेवं त्रिधा भवेत् ॥२०॥इति संक्षेपतः प्रोक्तं मुद्राभेदान् श्रृणु प्रिये ।मुद्राः पञ्चविधाः प्रोक्तास्तानहं विच्मि संशृणु ॥२१॥प्रसूनमध्ये संलिख्य कुर्चानां तु त्रयोदश ।त्रैलोक्यविजयी मुद्र चतुरस्रद्वये शिवे ॥२२॥मध्ये त्रां परितो ही च स्पर्शाद्दारिद्रयनाशिनी ।अङ्कमुद्रा बीजमुद्रा बीजकाख्या तथा परा ॥२३॥यन्त्ररूपा नामरूपा मुद्राः पञ्चविधाः स्मृताः ।रामवानरलापाख्यस्तथा लक्ष्मणवारणौ ॥२४॥एतास्त्वङ्काभिधा मुद्रा साम्राज्याख्या महोत्तमा ।त्रिकोणवृत्तवेदत्रिबाणाख्यदलरूपकम् ॥२५॥षट्दलं च तथा कोणमष्टास्रं कोणरूपकम् ।दशविद्या बीजरूपा सङ्ख्या तारक्रमेण च ॥२६॥मूलं वेष्ट्य लिखेन्मुद्रां सर्वसिद्धिप्रदा मता ।त्रिपञ्चसप्ततारम्य शतबीजस्य योगतः ॥२७॥आद्यसम्पुटयोगेन नाममुद्रा भवेच्छिवे ।बीजस्वरूपमुच्चार्य प्रसीदेति पदद्वयम् ॥२८॥मुद्रायां विलिखेद्देवि दशविद्याक्रमः स्मृतः ।बीजस्वरूपञ्च वरं देहियुग्मात्परा भवेत् ॥२९॥बीजस्वरूपां जपति भजे वन्देति चोच्चरेत् ।मुद्रा परा महेशानि देवमात्राविधौ भवेत् ॥३०॥नामपर्यायभेदेन यथायोगेन योजयेत् ।सर्वसिद्धिमवाप्नोति कोटिसिद्धीश्वरो भवेत् ॥३१॥एतस्य धारणाद्देवि किं तद्यन्न करे स्थितम् ।इति संक्षेपतः प्रोक्तं तन्मुद्राधारणं श्रृणु ॥३२॥अङ्गुलीयोगभेदेन पादांगुलक्रमेण च ।रत्नभेदे तथा स्वर्णे कामना पूर्ववद्भवेत् ॥३३॥अष्टास्रं चैव पञ्चास्रं वेदास्रं च त्रिकोणकम् ।वृत्ताष्टदलकं देवि वृत्तभूपुरमेव च ॥३४॥यन्त्राण्येतानि देवेशि कोष्ठयन्त्राणि पूर्ववत् ।अष्टास्रमालिखेद्यन्त्रं समरेखं च सुन्दरम् ॥३५॥प्रसिद्धप्राच्यां प्रणवं कामाख्यं परिवर्तते ।तदधो वारुणं बीजं श्रीबीजं च ततोपरि ॥३६॥अमृतं यन्त्रमेदद्धि त्रितारं वारुणेश्वरम् ।वेदपत्रे लिखेद्बीजं बटुकाख्यां तु दीपिनीम् ॥३७॥श्रीसिद्धीश्वरनामानं पादमूले प्रधारयेत् ।एतस्य धारणाद्देवि सर्वरोगनिवारणम् ॥३८॥कल्पाद्यौषधयो यद्वत तद्वद्यन्त्राणि पादयोः ।कलाष्टादशविंशच्च द्वाविंशच्च यथाक्रमात् ॥३९॥सहस्रत्रिनन्दकोष्ठे कलाकोष्ठे च वा प्रिये ।प्रस्तारक्रमयोगेन चाङ्कयन्त्राणि पादयोः ॥४०॥सर्वदीक्षाप्रसिध्यर्थं त्रैलोक्यविजयाय च ।कोटिसिद्धीश्वरार्थन्तु पादयोर्धारणं मतम् ॥४१॥प्रवाले वश्यसिध्यर्थं वैडूर्ये शत्रुनाशनम् ।मुक्तायां कामिनीप्राप्तिरिन्द्रनीले जयः स्मृतः ॥४२॥गारुत्मते च गोमेदे हीरके राज्यसिद्धयः ।कुरुविन्दे पुष्परागे पद्मरागे च रासके ॥४३॥स्पर्शरत्ने च माणिक्ये सर्वरत्नेsपि पार्वति ।चिन्तामणौ च परिसे पृथिवीसिद्धिरेव च ॥४४॥दारिद्र्यनाशनार्थं च हारितं धारयेच्छिवे ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥४५॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोप्रतारासंवादे मुद्राविवरणं नाम त्रयःषष्टिः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP