संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|श्रीशक्तिसङ्ग्मतन्त्रम्| एकचत्वारिंशतिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् विषयानुक्रमणिका प्रथमः पटलः । द्वितीयः पटलः । तृतीयः पटलः । चतुर्थः पटलः । पञ्चमः पटलः । षष्ठः पटलः । सप्तमः पटलः । अष्टमः पटलः । नवमः पटलः । दशमः पटलः । एकादशः पटलः । द्वादशः पटलः । त्रयोदशः पटलः । चतुर्दशः पटलः । पञ्चदशः पटलः । षोडशः पटलः । सप्तदशः पटल । अष्टादशं पटलः । एकोनविंशतिः पटलः । विंशतिः पटलः । एकविंशतिः पटलः । द्वाविंशतिः पटलः । त्रयोविंशतिः पटलः । चतुर्विंशतिः पटलः । पञ्चविंशतिः पटलः । षड्विंशतिः पटलः । सप्तविंशतिः पटलः । अष्टाविंशतिः पटलः । एकोनत्रिंशतिः पटलः । त्रिंशतिः पटलः । एकत्रिंशतिः पटलः । द्वात्रिंशतिः पटलः । त्रयस्त्रिंशतिः पटलः । चतुस्त्रिंशतिः पटलः । पंचत्रिंशतिः पटलः । षट्त्रिंशतिः पटलः । सप्तत्रिंशतिः पटलः । अष्टात्रिंशतिः पटलः । एकोनचत्वारिंशतिः पटलः । चत्वारिंशतिः पटलः । एकचत्वारिंशतिः पटलः । द्वाचत्वारिंशतिः पटलः । त्रयश्चत्वारिंशतिः पटलः । चतुश्चत्वारिंशतिः पटलः । पञ्चचत्वारिशतिः पटलः । षट्चत्वारिंशतिः पटलः । सप्तचत्वारिंशतिः पटलः । अष्टचत्वारिंशतिः पटलः । एकोनपञ्चाशतिः पटलः । पञ्चाशतिः पटलः । एकपञ्चाशतिः पटलः । द्विपञ्चाशतिः पटलः । त्रयःपञ्चाशतिः पटलः । चतुःपञ्चाशतिः पटलः । पञ्चपञ्चाशतिः पटलः । षट्पञ्चाशतिः पटलः । सप्तपंचाशतिः पटलः । अष्टपंचाशतिः पटलः । एकोनषष्टिः पटलः ॥ षष्टिः पटलः । एकषष्टिः पटलः । द्विषष्टिः पटलः । त्रयःषष्टिः पटलः । चतुःषष्टिः पटलः । पञ्चषष्टिः पटलः । षट्षष्टिः पटलः । सप्तषष्टिः पटलः । अष्टषष्टिः पटलः । एकोनसप्ततिः पटलः । सप्ततिः पटलः । एकसप्ततिः पटलः । श्रीशक्तिसङ्ग्मतन्त्रम् - एकचत्वारिंशतिः पटलः । तंत्र शास्त्र भारताची एक प्राचीन विद्या आहे. तंत्र ग्रंथ भगवान शिवाच्या मुखातून प्रकट झाले आहेत. त्यांना पवित्र आणि प्रामाणिक मानले आहेत.Tantra shastra is a secret and most powerful science of the Indian culture and religion. It is a most powerful science which Indian Rushis have practised for centuries and still it is in practise. Tags : granthashaktitantraग्रंथतंत्रशक्तिशास्त्रसंस्कृत एकचत्वारिंशतिः पटलः । Translation - भाषांतर श्रीदेव्युवाच ।देवेश श्रोतुमिच्छामि मालाग्रथननिर्णयम् ।कया कश्च पर्जप्तव्यो न जप्तव्यश्च को मनुः ॥१॥सर्वं कथय देवेश यद्यहं तव वल्लभा ।श्रीशिव उवाच ।ध्रुवेण ग्रथनं कार्यं प्रत्येकं मणिकाक्रमात् ॥२॥सर्वमन्त्रमयी माला सर्वसिद्धिकरी परा ।तन्मन्त्रे देवतारूपं ध्यात्वा तु मालिकान्तरे ॥३॥सर्वे मन्त्राः प्रजप्तव्याः सर्वकार्यार्यसिद्धये ।अथवा मातृकाभिश्च ग्रथनं कारयेत् प्रिये ॥४॥पञ्चाशन्मणिभिर्माला क्षकारो मेरुसज्ञिकः ।अनुलोमविलोमेन माला शतमयी भवेत् ॥५॥अष्टवर्गे प्रकल्पाथ माला त्व ष्टोत्तरं शतम् ।मातृकामालया जापः सर्वत्रैव प्रशस्यते ॥६॥रुद्राक्षस्फटिकादीन् वै समानीय प्रयत्नतः ।ग्रथनं मातृकाभिश्च कारयेद्यत्नतः शिवे ॥७॥सर्वदेवमयी माला द्रुतसिद्धिकरी परा ।तत्तन्मन्त्रमयीं देवीं तत्र ध्यात्वा जपक्षणी ॥८॥जपं कुर्यात्प्रयत्नेन नात्र कार्या विचारणा ।सर्वसिद्धिप्रदा माला सर्वकार्यकारी परा ॥९॥शक्तिमन्त्रेण संग्रथ्य शिवमन्त्रं जपेच्छिवे ।शिवमन्त्रेण संग्रथ्य शक्तिमन्त्रं जपेच्छिवे ॥१०॥शिवशक्त्योरभेदेन माला कार्यकरी परा ।दन्ताख्यं चैव मुण्डाख्यं मत्स्यस्यापि मणिं प्रिये ॥११॥नाड्या संग्रथनं कार्यं त्रिशक्तिमालिका मता ।काली तारा तथा छिन्ना स्वरूपा मालिका परा ॥१२॥सर्वसिद्धिपरा भूमिः सर्वदेवमयी परा ।येनैव ग्रथ्यते देवि तमेव प्रजपेन्मनुम् ॥१३॥इत्युक्तं च मया पूर्वं किं त्वया विस्मृतं प्रिये ।इदानीमन्यथा प्रोक्तं संशयोsस्ति मम प्रिये ॥१४॥मातृकातारभिन्नानां शिवशक्तिविहीनके ।मालिकायामिदं नोक्तमन्यमालाविधौ मतम् ॥१५॥अन्यप्रकारग्रथने येनैव ग्रथनं चरेत् ।तमेव प्रजपेन्मन्त्रं नान्यमन्त्रं जपेच्छिवे ॥१६॥मातृकादावपि शिवे मालां तन्मन्त्ररूपिणीम् ।ध्यात्वा जीवं प्रविन्यस्य नान्यथा सिद्धिरोधकृत् ॥१७॥इति सक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ।श्रेदेव्युवाच ।देवेश श्रोतुमिच्छामि रहस्यं परमाद्भुतम् ॥१८॥मालारहस्यं परमं कथयस्व महेश्वर ।श्रीशिव उवाच ।पूर्वोक्तानां मणीनाञ्च त्वभावे परमेश्वरि ॥१९॥गन्धरूपाश्च मणयो दन्तस्फटिकसम्भवाः ।मणयो यत्नतः कार्याः सर्वसिद्धिमभीप्सुभिः ॥२०॥मुण्डाभावे नारिकेलैर्मुण्डाधो मणयश्च वा ।गजहारिणखङ्गाख्यस्वर्णसाम्बरश्रृङ्गजाः ॥२१॥रौप्यजास्ताम्रजाः कांस्यसीसनागमयाश्च वै ।मुण्डरूपाश्च मणयः सर्वसिद्धिमयाः स्मृताः ॥२२॥अथ विद्यामयी देवि मालिका कार्यसाधिनी ।वैडूर्यनीलकाचाख्या मणयः सर्वकार्यदाः ॥२३॥बीजकीलकशक्तीनां मणयो द्रुतसिद्धिदाः ।कुल्लुकामालिका देवि विद्या वश्यकरी स्मृता ॥२४॥बीजाद्या वीर्यसंसिद्ध्यै कीलैर्निष्कीलने स्मृता ।शक्तियुक्ता सर्वसिद्ध्यै जीवमात्रास्थिमुण्डधृक् ॥२५॥अस्थिमुण्दमयी माला शिवरूपप्रदायिनी ।तदाकारविशिष्ठा या तत्तत्कार्यकरीष्टदा ॥२६॥ताराकालीमयी माया ताराछिन्नामयी परा ।कालीछिन्नामयी वा या त्रितयं मुण्डबीजजा ॥२७॥सर्वसिद्धिपरा भूमिरनिरुद्धसरस्वती ।रत्नमात्रमयी माला रत्नमात्र समुद्भवा ॥२८॥रक्तचन्दनमुण्डोत्या तथाष्टगन्धमुण्डजा ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥२९॥श्रीदेव्युवाच ।मातृकावर्ण रूपा च माला संसूचिता वद ।श्रीशिव उवाच ।रहस्यमपि वक्ष्यामि वर्णबीजस्वरूपतः ॥३०॥मातृकावर्णरूपां च मालिकां कारयेच्छिवे ।जपस्तेन प्रकर्तव्यः सर्वदेवस्वरूपिणी ॥३१॥सौवर्णताम्रतारोत्था खङ्गोत्था गजदन्तजा ।रत्नजा स्फटिकोत्था वा मातृका वर्णमालिका ॥३२॥स्वर्णमाला सर्वसिद्ध्य रौप्यजा सकेलष्टदा ।ताम्रमाला सर्वशान्त्यै खङ्गजा पितृमोक्षदा ॥३३॥गजदन्तमयी माला सिद्धिदा बिल्वजार्थदा ।अर्कवृक्षभवा पूर्वा शत्रोरुच्चाटकर्मणि ॥३४॥एवं सम्पाद्य मालां तु जपेद्देवे समर्पयेत् ।देवस्य प्रतिमायत्रं दिव्यचक्रं विशेषतः ॥३५॥पूजिते प्रतिमायन्त्रे धारणीयं द्वयं शिवे ।रत्नाढ्यमङ्गुलौ धार्यं स्वर्णरत्नमयं हृदि ॥३६॥मुद्रारूपं हाररूपं कृत्वा यत्नेन धारयेत् ।सर्वसिद्धीश्वरो भूयान्नात्र कार्याविचारणा ॥३७॥तत्रोपचारदेवानां नामानि श्रृणु पार्वति ।अन्नस्य देवता लक्ष्मीर्वैष्णवे तु प्रजापतिः ॥३८॥सुवर्णं वह्निदैवत्यं रजतं चन्द्रदैवतम् ।हीरकं वारुणं ज्ञेयं रसानां पृथिवी स्मृता ॥३९॥जलस्य वरुणो देवो वीर्याणां वारुणेश्वरी ।कृशरस्य रमा देवी परमान्नस्य कालिक ॥४०॥घृतदीपे महाविष्णुस्तलदीपे वनस्पतिः ।गन्धर्वश्च तथा धूपे घृतं सूर्याग्निदैवतम् ॥४१॥मधु वै वारुणं ज्ञेयं दधिक्षीरं महेश्वरः ।वानस्पत्यं महापुष्पं वैष्णवो गन्ध र्हरितः ॥४२॥मालायाञ्च तथा दुर्वा सर्वं देवीमयं च वा ।प्रतिमां पूजयेत् ज्ञात्वा नान्यया सिद्धिरोधकृत् ।इति संक्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥४३॥इति श्रीशक्तिसङ्गममहातन्त्रराजे उत्तरभागे द्वितीयखण्डे श्रीमदक्षोभ्यमहोग्रतारासंवादे मालाग्रथनं नाम नामैकचत्वारिंशतिः पटलः । N/A References : N/A Last Updated : January 17, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP