संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
नांदीश्राद्धम्

प्रथमांशुः - नांदीश्राद्धम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तत्र मातृपितृमातामहेषु जीवत्सु नांदीश्राद्धलोप एवेति केचिन्मतं चिन्त्यम् । [ जीवेत्तु यदि वर्गाद्यः तं तु वर्गं परित्यजेत् ] अत्र सर्वं सव्येन देवतीर्थेन यवैश्च पित्र्येऽपि । तद्यथा - सत्यवसुसंज्ञका विश्वेदेवाः नांदीमुखाः इदं वः पाद्यं नमः इति सयवाक्षतदूर्वायुतजलं क्षिपेत् । मातृपितामहीप्रपितामह्यः नांदीमुख्यः इदं वः पाद्मं नमः । पितृपितामहप्रपितामहाः नांदीमुखाः इदं वः पाद्यं नमः । मातामह मातुः पितामह मातुः प्रपितामहाः पत्नीसहिताः नांदीमुखाः इदं वः पाद्यं नम ॥ सत्यवसुसंज्ञका विश्वेदेवाः नांदीमुखाः इदं वः
आसनगंधाद्युपचारकल्पनं नमः । मातृपितामहीप्रपितामह्यः नांदीमुख्यः इदं वः आसनगंधा० । पितृपितामह० नांदीमुखाः इदं वः आसनगंधा० । मातामह मातुः पितामह मातुः प्रपिता० पत्नीस० नांदीमुखाः इदं वः आसन० ॥ गौर्यादिषोडशमातरः ब्राह्म्यादिसप्त मातरश्च गणपतिं दुर्गां क्षेत्रपालं वास्तोष्पतिं च इदं वः युग्मब्राह्मणभोजनपर्याप्तं यथाशक्तिहिरण्यनिष्क्रयीभूतं किञ्चिव्द्यवहारिकद्रव्यं नमः । सत्यवसु० नांदीमुखाः इदं वः युग्मब्राह्मणभोजन० । मातामहमातुः० पत्नीस० नांदी० इदं वः युग्मब्राह्मणभोजन० ॥ कृतस्य नांदीश्राद्धस्य प्रतिष्ठाफलसिद्ध्यर्थं द्राक्षामलकनिष्क्रयिणीं दक्षिणां दातुमहमुत्सृजे नमम ॥ मातापितामहीचैव तथैव प्रपितामही । पिता पितामहश्चैव तथैव प्रपितामहः ॥ मातामहस्तत्पिता च प्रमातामहकादयः । एते भवंतु सुप्रीताः प्रयच्छंतु सुमंगलं ॥ इति प्रार्थ्य । अनेन नांदीश्राद्धेन नांदीमुखदेवताः प्रीयंतां वृद्धिः ॥ मातरि जीवति मातृभ्यो नमः । पितरि जीवति पितृभ्यो नमः इत्युच्चारणं कार्यम् । इति वृद्धिश्राद्धम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP