संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः| विवाहविधिः सप्रयोगः प्रथमांशुः ग्रन्थोद्देशः गणपतिपूजनं पुण्याहवाचनं च मातृकापूजनम् नांदीश्राद्धम् अग्निमुखम् ग्रहयज्ञः भुवनेश्वरीशांतिः गर्भाधानम् पुंसवनप्रयोगः सीमंतोन्नयनप्रयोगः वस्त्रदानं जातकर्म षष्ठीपूजनम् नामकरणम् आंदोलारोहणम् कर्णवेधः तांबूलभक्षणम् निष्क्रमणम् भूम्युपवेशनम् अन्नप्राशनम् बालस्य दृष्टिदोषादौ रक्षाविधिः वर्धापनम् चौलम् विद्यारम्भः छूरिकाबंधः मौजीबंधनकारिकाः मौंजीबंधनप्रयोगः मौंजीबंधनांगभूतः सायंहोमः मेधाजननम् देवकोत्थापनम् मौंजीविसर्जनम् स्नातकधर्माः दत्तपुत्रप्रतिग्रहविधिः विवाहविधिः सप्रयोगः मुहूर्तमेथिकास्थापनं देवकस्थापनम् वरस्य वधूगृहगमनम् वरस्य सीमांतपूजनम् घटिकास्थापनम् गौरीहरपूजा मधुपर्कः मुहूर्तपत्रिकापूजनादि अक्षतारोपणम् कन्यादानम् विवाहहोमः ऐरिणीदानम् वधूवस्त्रदानम् वधूगृहप्रवेशः नाम - लक्ष्मी - पूजनम् आशीर्वादमंत्राः देवकोत्थापनम् अथ द्विरागमनम् अर्कविवाहः अथ श्रीशांतिः प्रथमांशुः - विवाहविधिः सप्रयोगः ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : poojaपूजासंस्कृत विवाहविधिः सप्रयोगः Translation - भाषांतर तत्रादौ सापिंड्यनिर्णयो ब्राह्मादिविवाहभेदनिर्णयश्च सिंध्वादिग्रंथांतरतोऽवगंतव्यः विस्तरभयान्नेहोक्तः । अथ वाग्दानं - विवाहोक्ते मुहूर्ते वरस्य पिता भ्राताऽन्यो बंधुर्वा कन्यागृहं गत्वा यद्वा कन्यायाः पिता भ्राताऽन्यो बंधुर्वा वरगृहं गत्वा देशकालौ संकीर्त्य अमुकनाम्न्याः मम कन्यकायाः करिष्यमाणविवाहांगभूतं वाग्दानं करिष्ये तत्रादौ निर्विघ्नतासिद्ध्यर्थं गणेशपूजनं वरुणपूजनं च करिष्ये इति संकल्प्य गणेशं वरुणं च संपूज्य वरस्य पादप्रक्षालनं कृत्वा अमुकनाम्ने वराय चंदनं समर्पयामि एवं माल्यवस्त्रधूपदीपनैवेद्यतांबूलदक्षिणादिभिर्वरं संपूज्य पंचहरिद्राखंडपूगीफलनारिकेलकुंकुमादिरंजितवस्त्राण्यादाय अमुकगोत्रोत्पन्नायअमुकनाम्नः प्रपौत्राय अमुकनाम्नः पौत्राय अमुकनाम्नः पुत्राय अमुकनाम्ने वराय - अमुकगोत्रोत्पन्नां अमुकप्रपौत्रीं अमुकपौत्रीं अमुकपुत्रीं अमुकनाम्नीं कन्यां तुभ्यं ज्योतिर्विदादिष्टे मुहूर्ते दास्ये इति । एवं पुनर्द्विवारमुच्चार्य । अव्यंगेऽपतितेऽक्लीबे दशदोषविवर्जिते । तत्कालोपस्थिते कन्यां पिता तुभ्यं प्रदास्यति ॥ पिता त्वहं दास्याम्यासंशयमिति वदेत् । कन्यागृहगमनपक्षे तु कन्या कुंकुमवस्त्रालंकारादिभिः संपूज्य - अव्यंगेऽपतितेऽक्लीबे दशदोषविवर्जिते । इमां कन्यां प्रदास्यामि देवाग्निद्विजसन्निधौ ॥ इति कन्यापिता वरबंध्वादिहस्ते दद्यात् । ततो वरपित्रादिः पंचहरिद्राखंडपूगीफलानि गृहीत्वा अमुकवरविषये भवंतो निश्चिता भवंतु इति कन्यापितृवस्त्रप्रांते बध्नीयात् । विप्रैः - शांतीरस्तु पुष्टिरस्तु तुष्टिरस्तु वृद्धिरस्तु अविघ्नमस्तु आयुष्यमस्तु आरोग्यमस्तु एतद्वः सत्यमस्तु इति वाक्यैर्वरुणकलशोदकेन ग्रंथिसेचनं कार्यम् । ततो दाता - वाचा दत्ता मया कन्या वरार्थं स्वीकृता त्वया । कन्यावलोकनविधौ निश्चितस्त्वं सुखी भव ॥ ततो वरपित्रादिः - वाचा दत्ता त्वया कन्या पुत्रार्थं ( वरार्थं ) स्वीकृता मया । वरावलोकनविधौ निश्चितस्त्वं सुखी भव - इति वदेत् ॥ ततः परस्परमर्चयित्वा ब्राह्मणान् संपूज्य दक्षिणां दत्त्वा आशिषो गृह्णीयात् ॥ इति वाग्दानम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP