संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः| भूम्युपवेशनम् प्रथमांशुः ग्रन्थोद्देशः गणपतिपूजनं पुण्याहवाचनं च मातृकापूजनम् नांदीश्राद्धम् अग्निमुखम् ग्रहयज्ञः भुवनेश्वरीशांतिः गर्भाधानम् पुंसवनप्रयोगः सीमंतोन्नयनप्रयोगः वस्त्रदानं जातकर्म षष्ठीपूजनम् नामकरणम् आंदोलारोहणम् कर्णवेधः तांबूलभक्षणम् निष्क्रमणम् भूम्युपवेशनम् अन्नप्राशनम् बालस्य दृष्टिदोषादौ रक्षाविधिः वर्धापनम् चौलम् विद्यारम्भः छूरिकाबंधः मौजीबंधनकारिकाः मौंजीबंधनप्रयोगः मौंजीबंधनांगभूतः सायंहोमः मेधाजननम् देवकोत्थापनम् मौंजीविसर्जनम् स्नातकधर्माः दत्तपुत्रप्रतिग्रहविधिः विवाहविधिः सप्रयोगः मुहूर्तमेथिकास्थापनं देवकस्थापनम् वरस्य वधूगृहगमनम् वरस्य सीमांतपूजनम् घटिकास्थापनम् गौरीहरपूजा मधुपर्कः मुहूर्तपत्रिकापूजनादि अक्षतारोपणम् कन्यादानम् विवाहहोमः ऐरिणीदानम् वधूवस्त्रदानम् वधूगृहप्रवेशः नाम - लक्ष्मी - पूजनम् आशीर्वादमंत्राः देवकोत्थापनम् अथ द्विरागमनम् अर्कविवाहः अथ श्रीशांतिः प्रथमांशुः - भूम्युपवेशनम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : poojaपूजासंस्कृत भूम्युपवेशनम् Translation - भाषांतर पाद्मे - पंचमे च तथा मासि भूमौ तमुपवेशयेत् । तत्र सर्वे ग्रहाः शस्ता भौमोऽप्यत्र विशेषतः ॥ विष्णुधर्मोत्तरे - वाराहं पूजयेद्देवं पृथ्वीं चैव तथा द्विजम् ॥ तत्र पिताऽऽचम्य पवित्रपाणिर्देशकालौ स्मृत्वा ममास्य कुमारस्य सर्वारिष्टंशांत्यायुरारोग्यक्षेमार्थं उपवेशनाख्यं कर्म करिष्ये तदंगतया गणेशपूजनं पुण्याहवाचनं च करिष्ये इति संकल्प्य गणपतिं संपूज्य पुण्याहवाचनं कृत्वा पीठे प्रतिमायां वराहं पृथ्वीं च नाम्ना षोडशोपचारैः संपूज्य तदग्रे पंच सप्त वा धान्यपुंजान् कृत्वा तन्मध्ये भूमौ वस्त्रे करोतु स्वस्ति ते ब्रह्मेत्यादिमंत्रैर्वाद्यघोषेण शिशुमुपवेश्य मृत्युंजयं स्मृत्वा भस्मना रक्षां कृत्वा पठेत् - रक्षैनं वसुधे देवि सदा सर्वगतं शिशुम् । आयुः प्रमाणं सकलं निक्षिपस्व हरिप्रिये ॥ अचिरादायुषस्त्वस्य ये केचित्परिपंथिनः । जीवितारोग्यवित्तेषु निर्दहस्वाचिरेण तान् ॥ धारिण्यशेषभूतानां माता त्वमसि कामधुक् । अजरा चाप्रमेया च सर्वभूतनमस्कृता ॥ चराचराणां भूतानां प्रतिष्ठा चाव्यया ह्यसि । कुमारं पाहि मातस्त्वं ब्रह्मा तदनुमन्यताम् - इति । अत्रैव कटिसूत्रबंधनम् । शिष्टास्त्वन्नप्राशनदिने एव निष्क्रमणमुपवेशनं च कुर्वंति ॥ ॥ इति भूम्युपवेशनम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP