संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः| मुहूर्तमेथिकास्थापनं प्रथमांशुः ग्रन्थोद्देशः गणपतिपूजनं पुण्याहवाचनं च मातृकापूजनम् नांदीश्राद्धम् अग्निमुखम् ग्रहयज्ञः भुवनेश्वरीशांतिः गर्भाधानम् पुंसवनप्रयोगः सीमंतोन्नयनप्रयोगः वस्त्रदानं जातकर्म षष्ठीपूजनम् नामकरणम् आंदोलारोहणम् कर्णवेधः तांबूलभक्षणम् निष्क्रमणम् भूम्युपवेशनम् अन्नप्राशनम् बालस्य दृष्टिदोषादौ रक्षाविधिः वर्धापनम् चौलम् विद्यारम्भः छूरिकाबंधः मौजीबंधनकारिकाः मौंजीबंधनप्रयोगः मौंजीबंधनांगभूतः सायंहोमः मेधाजननम् देवकोत्थापनम् मौंजीविसर्जनम् स्नातकधर्माः दत्तपुत्रप्रतिग्रहविधिः विवाहविधिः सप्रयोगः मुहूर्तमेथिकास्थापनं देवकस्थापनम् वरस्य वधूगृहगमनम् वरस्य सीमांतपूजनम् घटिकास्थापनम् गौरीहरपूजा मधुपर्कः मुहूर्तपत्रिकापूजनादि अक्षतारोपणम् कन्यादानम् विवाहहोमः ऐरिणीदानम् वधूवस्त्रदानम् वधूगृहप्रवेशः नाम - लक्ष्मी - पूजनम् आशीर्वादमंत्राः देवकोत्थापनम् अथ द्विरागमनम् अर्कविवाहः अथ श्रीशांतिः प्रथमांशुः - मुहूर्तमेथिकास्थापनं ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : poojaपूजासंस्कृत मुहूर्तमेथिकास्थापनं माषादिदलनं हरिद्राकंडनं च । Translation - भाषांतर तत आचाराद्धरिद्राकंडनं वधूवरयोः तैलहरिद्रालापनादिविवाहदिनात् पूर्वं त्रिषण्णवदिनानि विहाय विवाहोक्तनक्षत्रे शुभे दिने कार्यम् । तद्यथा - आचम्य देशकालौ स्मृत्वा मम पुत्रस्य ( कन्यकाया वा ) करिष्यमाणविवाहांगत्वेन मुहूर्तमेथिकास्थापनं माषादिदलनं हरिद्राकंडनं तैलहरिद्रालापनं च करिष्ये आदौ निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं करिष्ये इति संकल्प्य गणपतिं संपूज्य मंडपैशानदेशे सूत्राम्रपल्लववेष्टितां मेथिकां स्थापयेत् । तत्र मंत्रः - नमस्ते मेथिके देवि शुभशाखिसमुद्भवे । निर्विघ्नं कार्यसिद्धिं च नित्यं नो मंगलं कुरु । इति स्थापयित्वा ‘ मेथिकायै नमः ’ इति संपूजयेत् । ततः कंडनदलनतैलहरिद्रालापनादि कर्म कार्यम् तत्रपुरंध्र्यो मंगलगीतीः कुर्युः पुरोहितो यथादेशकुलाचारं ‘ नत्वा स्वांकुलदेवतां ’ इति मंगलपद्यानि पठेत् । अथ तैलादिलापनसंख्योच्यते - मेषादिराशिजवधूवरयोर्बटोश्च तैलादिलापनविधौ कथितात्र संख्या ॥ शैला ७ दिशः १० शर ५ दिग १० क्षि २ नगा ७ द्रि ७ बाणा ५ बाणां ५ द्रि ७ बाण ५ गिरयो ७ मुनिभिस्तु कैश्चित् ॥ अस्यार्थः - वधूवरयोर्मध्ये यस्य मेषराशिस्तस्य सप्तवारं तैलहरिद्रालापनं यस्य वृषभराशिस्तस्य दशवारं मिथुनराशौ पंचवारं कर्कराशौ दशवारं सिंहराशौ द्विवारं कन्याराशौ सप्तवारं तूलराशौ सप्तवारं वृश्चिकराशौ पंचवारं धनूराशौ पंचवारं मकरराशौ सप्तवारं कुंभराशौ पंचवारं मीनराशौ सप्तवारं एवं क्रमेण तत्तद्राशिसंख्याकावृत्त्या तैलहरिद्रादि लापनं कार्यम् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP