संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
छूरिकाबंधः

प्रथमांशुः - छूरिकाबंधः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


संग्रहे - शूद्राणां राजपुत्राणां मौंज्यभावेऽस्त्रबंधनम् । तत्तु मौंजीबंधोक्ततिथ्यादौ कार्यं भौमदिनं विनेति । कर्ता आचम्य देशकालौ संकीर्त्य अस्य मौंजीबंधसंस्कारसिद्ध्यर्थं छूरिकाबंधं करिष्ये तदादौ गणपतिपूजनपूर्वकं पुण्याह० मातृका० नांदीश्राद्धं च करिष्ये इति संकल्प्य तानि कृत्वा पुनर्देशकालौ स्मृत्वा अस्य कुमारस्य छूरिकाबंधनांगत्वेन देवतास्थापनं पूजनं च करिष्ये इति संकल्प्य पीठे देवताः स्थापयेत् । यथा - कौमोदकीपद्मशंखचक्रोपेतं चतुर्भुजम् । नमामि विष्णुं देवेशं कृष्णं गरुडवाहनम् ॥ भो विष्णो इहागच्छेह तिष्ठ मम पूजां गृहाण वरदो भव विष्णवे नमः विष्णुमावाहयामि ॥ क्षीरोदधिसमुद्भूते दिव्यालंकरभूषिते । चतुर्भुजे महामाये विष्णुपत्नि नमोस्तुते । सर्वविद्ये त्वमाधारः स्मृतिज्ञानप्रदायिके । प्रसन्ना वरदा भूत्वा देहि विद्यां स्मृतिं यशः ॥ इति प्रार्थयेत् । भो लक्ष्मीहागच्छेह तिष्ठ मम पूजां० वरदा भव लक्ष्म्यै न० लक्ष्मीमा० । कुंदेंदुधवले श्वेतपद्मपीठे सरस्वति । शुक्लवस्त्रावृते तुभ्यं वीणादंडकरे नमः । भो सरस्वति इहागच्छेह तिष्ठ मम पूजां० वरदा भव सरस्वत्यै० सरस्वतीमा० । स्वविद्यासूत्रकारेभ्यो नमः स्वविद्यासूत्रकारानावाह० स्वविद्यायै न० स्वविद्यामावाहयामि । इत्यावाह्य विष्ण्वाद्यावाहितदेवताभ्यो नम इति षोडशोपचारैः पूजयेत् । तत्पश्चिमभागे स्थंडिले बलवर्धन नामानमग्निं प्रतिष्ठाप्यान्वादध्यात् । देशकालौ स्मृत्वा समिदद्वयमादाय क्रियमाणे अस्य कुमारस्य छूरिकाबंधहोमे देवतापरिग्रहार्थमित्यादि चक्षुष्यंतमुक्त्वा अत्र प्रधानम् - विष्णुं लक्ष्मीं सरस्वतीं स्वविद्यासूत्रकारान् स्वविद्यां च एकैकयाज्याहुत्या यक्ष्ये । शेषेण स्विष्टकृतमित्यादि० । अत्र षट्‍ पात्रा सादनम् । ततः चक्षुषीहोमांतं कृत्वा स्थापनमंत्र्यैः प्रधानदेवताभ्यो हुत्वा छूरिकाबंधनं कुर्यात् । तदादौ ‘ छूरिकायै नमः ’ इति मंत्रेण छूरिकां संपूज्य - सर्वायुधानां प्रथमं निर्मिताऽसि पिनाकिना । शूलायुधाद्विनिष्कृष्य कृत्वा मुष्टिग्रहं शुभम् ॥ चंडिकायाः प्रदत्तासि सर्वदुष्टनिबर्हणी । तया विस्तारिता चासि देवानां प्रतिपादिता ॥ सर्वसत्वांगभूतासि सर्वाशुभनिबर्हिणी । छूरिके रक्ष मां नित्यं शांतिं यच्छ नमोस्तु ते ॥ इति संप्रार्थ्य नत्वा कुमारस्य दक्षिणकटिभागे बध्नीयात् । ततः स्विष्टकृदादिहोमशेषं समाप्य ब्राह्मणान् संपूज्य तेभ्यो दक्षिणां आमान्नानि च दत्वा सांगतासिद्ध्यर्थं स्वगुरवे गां दत्त्वा यथाशक्ति भूयसीं दीनांधादिभ्यो दत्वा कर्मेश्वरार्पणं कुर्यात् ॥ ॥ इति कृत्यदिवाकरे छूरिकाबंधप्रयोगः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP