संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
दत्तपुत्रप्रतिग्रहविधिः

प्रथमांशुः - दत्तपुत्रप्रतिग्रहविधिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


पूर्वेद्युः कृतोपवासो ग्रहीता आचम्य देशकालौ संकीर्त्य मम अप्रजत्वप्रयुक्तपैतृकऋणापाकरणपुन्नामनरकत्राणद्वारा श्रीपरमेश्वरप्रीत्यर्थं उक्तविधिना पुत्रप्रतिग्रहं करिष्ये । तदंगत्वेन स्वस्तिवाचनं आचार्यवरणं विष्णुपूजनं आमान्नदानं च करिष्ये आदौ निर्विघ्नतासिद्ध्यर्थं गणपतिपूजां करिष्ये । इति संकल्प्य गणपतिपूजनादि आचार्यवरणांतं कृत्वा आचार्यं मधुपर्केणाभ्यर्च्य शांताकारं भुजगशयनमिति विष्णुमावाह्य ध्यात्वा च महाविष्णवे नम इति नामंमंत्रेण षोडशोपचारैः पूजयेत् । ततो देशकालौ संकीर्त्य
करिष्यमाणपुत्रप्रतिग्रहसांगतासिद्ध्यर्थं नानानामगोत्रेभ्यो ब्राह्मणेभ्यः यथाशक्तिसोपस्कराणि सदक्षिणाकानि आमान्नानि दातुमहमुत्सृजे । तेन श्रीमहाविष्णुः प्रीयताम् । ततः आचार्यो देशकालौ स्मृत्वा ‘ यजमानानुज्ञया पुत्रप्रतिग्रहांगत्वेन विहितहोमं करिष्ये तदंगत्वेन स्थंडिलादि करिष्ये ’ इति संकल्प्य सकलंकर्म स्थंडिलसंस्कारं कृत्वा तत्र बलवर्धननामानमग्निं प्रतिष्ठाप्यान्वादध्यात् । समिव्द्दयमादाय देशकालौ स्मृत्वा क्रियमाणे पुत्रप्रतिग्रहांगविहितहोमे देवतापरिग्रहार्थमित्यादिचक्षुष्यंतमुक्त्वा अत्र प्रधानम् - सकृदग्निं सूर्यासावित्रीं षडवारं तंडुलद्रव्येण, अग्निं वायुं सूर्यं प्रजापतिं चाज्येन यक्ष्ये शेषेण स्विष्टकृतमित्यादि आज्योत्पवनांतं कृत्वा दातारं गत्वा एतस्मै पुत्रं देहीति याचयेत् । ततो दाता देशकालौ स्मृत्वा श्रीपरमेश्वरप्रीत्यर्थं पुत्रदानं करिष्ये इति संकल्प्य गणपतिं संपूज्य प्रतिग्रहीतारं वस्त्रादिना यथाविभवं संपूज्य करोतु स्वस्ति ते ब्रह्मेत्यादिमंत्रान् पठित्वा इमं पुत्रं तव पैतृकऋणापाकरणपुंन्नामनरकत्राणसिद्ध्यर्थं आत्मनश्च श्रीपरमेश्वरप्रीत्यर्थं तुभ्यमहं संप्रददे न मम प्रतिगृह्णातु पुत्रं भवान् । इति प्रतिग्रहीतृहस्ते जलं क्षिपेत । ग्रहीता प्रतिगृह्णामीति प्रतिगृह्य स्वांके उपवेश्य - यस्मास्वमधिजातोऽसि ह्रदाद्यंगात्कुमारक । तस्मादात्मासि पुत्राख्यो भवायुष्मात्र्छरच्छतम् - इति मंत्रेण पुत्रमूर्धनि त्रिर्जिघ्रेत् । ततो वस्त्रालंकारादिभिरलंकृतं पुत्रं गीतवाद्यैः स्वस्तिमंत्रैश्च स्वगृहमानीय पादौ प्रक्षाल्याचम्य आचार्यदक्षिणतः स्वयं स्वदक्षिणतो भार्योत्संगे ‘ पुत्र ’ इत्युपावेशयेत् । आचार्यो बर्हिरासादनाद्याज्यभागांतं कृत्वा प्रधानहोमं कुर्यात् तत्र मंत्राः - आग्नेय्यः पुरुषो रक्तः सर्वदेवमयोऽव्ययः । धूम्रकेतू रजोध्यक्षस्तस्मै नित्यं नमो नमः । अग्नये नमः अग्नय इदं न ममेति यजमानस्त्यजेत् । एवमग्रेपि । सूर्यासावित्र्यै नमः सूर्यासावित्र्या इदं० इति तंडुलैः षडाहुतीर्हुत्वा पुनः आज्येन अग्नये नमः अग्नय इदं० वायवे नमः वायव इदं० सूर्याय० सूर्यायेदं० प्रजापतये० प्रजापतय इदं० । ततः स्विष्टकृदादिकर्मशेषं समाप्य आचार्यं संपूज्य तस्मै धेनुं दत्त्वा विप्रान् आमान्नादिना संतर्प्य विप्राशिषो गृहीत्वा यस्य स्मृत्येति कर्मेश्वरार्पणं कृत्वा सुह्रद्युतो भुंजीत ॥ ॥ इति दत्तपुत्रप्रतिग्रहप्रयोगः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP