संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
नामकरणम्

प्रथमांशुः - नामकरणम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तच्च स्वाशौचांते द्वात्रिंशे वाऽह्नि कार्यम् । पिता देशकालौ संकीर्त्य ममाऽस्य कुमारस्य बीजगर्भसमुद्भवैनोनिबर्हणद्वारा नामव्यवहारसिद्ध्यर्थं श्रीपरमेश्वरप्रीत्यर्थं नामकरणाख्यं कर्म करिष्ये तदंगत्वेनादौ गणेशपूजनपूर्वकं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं च करिष्ये । इति संकल्प्य तानि कृत्वा ततस्तंदुलपूर्णे कांस्यपात्रे सुवर्णशलाकादिना विलिखेत् । तच्चेत्थम् - श्रीगणेशाय नमः श्रीसरस्वत्यै नमः श्रीकुलदेवतायै नमः इति लिखित्वा ततो नाम चतुष्टयं लिखेत् । तदित्थम् - अस्य शिशोः कुलदेवता नाम अमुकदेवताभक्तः मासनाम कृष्ण इत्यादि ततो नाक्षत्रनाम अवकहडाचक्रानुसारेण अमुकः ततो व्यावहारिकं नाम अमुकदेवदत्तवर्मा गुप्तो दासो वा । एवंरीत्या लिखित्वा नामदेवताभ्यो नम इति षोडशोपचारैः संपूज्य तद्बालस्य दक्षिणकर्णे उपदिशेत् । तच्चैवम् - इदमार्याः कुमारस्य नामास्य विदधाम्यहम् । तेनैव नाम्ना कुर्वंतु व्यवहारो जनाः सदा ॥ इति विप्रान् संप्रार्थ्य तैरनुज्ञातः पिता - श्रीगणेशाय नमः इत्युपन्यस्य कुलदेवतानाम्ना त्वं अमुकदेवताभक्तोऽसि मासनाम्ना त्वं अमुकोऽसि नाक्षत्रेण नाम्ना त्वं अमुकोऽसि ( इत्यपांशु ) व्यावहारिकेण नाम्ना त्वं अमुकवर्मासि ( गुप्तोऽसि दासो‍ऽसि वा ) इति वदेत् । ततः कृतांजलिस्तिष्ठन् कुलदेवतानाम्ना ‘ अमुकदेवताभक्तोऽयं भवतः सर्वान् ब्राह्मणान् अभिवादयते ’ इति वदेत् । ते च ‘ आयुष्मान् भवतु अमुकभक्तः ’ इति वदेयुः । एवं ‘ मासनाम्ना अमुकोऽयं भवतः सर्वान्ब्राह्मणानभिवादयते० इति पिता । आयुष्मान् भवतु अमुकः इति ब्राह्मणाः । नाक्षत्रेण नाम्ना अमुकोऽयं ( इत्युपांशु ) भवतः सर्वान् इति पिता । आयुष्मान् भवतु अमुकः इति ब्राह्मणाः । व्यावहारिकेण नाम्ना अमुकवर्मा ( गुप्तः, दासः ) अयं भवतः सर्वान् इति पिता । आयुष्मान् भवतु अमुकवर्मा । सुप्रतिष्ठितमस्तु इति शिशुमूर्ध्नि द्विजा अक्षतप्रक्षेपं कुर्युः । ततः कृतस्य कर्मणः सांगतासिद्ध्यर्थं शतं दश वा ब्राह्मणान् आमान्नादिना संतर्प्य भूयसीं दक्षिणां दत्त्वाऽऽशिषो गृहीत्वा कर्मेश्वरार्पणं कुर्यात् ॥ ॥ इति कृत्यदिवाकरे नामकरणम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP