संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः| कन्यादानम् प्रथमांशुः ग्रन्थोद्देशः गणपतिपूजनं पुण्याहवाचनं च मातृकापूजनम् नांदीश्राद्धम् अग्निमुखम् ग्रहयज्ञः भुवनेश्वरीशांतिः गर्भाधानम् पुंसवनप्रयोगः सीमंतोन्नयनप्रयोगः वस्त्रदानं जातकर्म षष्ठीपूजनम् नामकरणम् आंदोलारोहणम् कर्णवेधः तांबूलभक्षणम् निष्क्रमणम् भूम्युपवेशनम् अन्नप्राशनम् बालस्य दृष्टिदोषादौ रक्षाविधिः वर्धापनम् चौलम् विद्यारम्भः छूरिकाबंधः मौजीबंधनकारिकाः मौंजीबंधनप्रयोगः मौंजीबंधनांगभूतः सायंहोमः मेधाजननम् देवकोत्थापनम् मौंजीविसर्जनम् स्नातकधर्माः दत्तपुत्रप्रतिग्रहविधिः विवाहविधिः सप्रयोगः मुहूर्तमेथिकास्थापनं देवकस्थापनम् वरस्य वधूगृहगमनम् वरस्य सीमांतपूजनम् घटिकास्थापनम् गौरीहरपूजा मधुपर्कः मुहूर्तपत्रिकापूजनादि अक्षतारोपणम् कन्यादानम् विवाहहोमः ऐरिणीदानम् वधूवस्त्रदानम् वधूगृहप्रवेशः नाम - लक्ष्मी - पूजनम् आशीर्वादमंत्राः देवकोत्थापनम् अथ द्विरागमनम् अर्कविवाहः अथ श्रीशांतिः प्रथमांशुः - कन्यादानम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : poojaपूजासंस्कृत कन्यादानम् Translation - भाषांतर कन्यादाता उदड्मुखः सपत्नीक उपविश्य आचम्य पवित्रपाणिः सुमुखश्चेत्यादिदेशकालादि स्मृत्वा मम समस्तपितृणां निरतिशयसानंदोत्तमलोकावाप्त्यादिकन्यादानादिकल्पोक्तफलावाप्तये अनेन वरेणास्यां कन्यायामुत्पादयिष्यमाणसंतत्या द्वादशावरान् द्वादशपरान् पुरुषांश्च पवित्रीकर्तुं आत्मनश्च श्रीलक्ष्मीनारायणप्रीतये ब्राह्मविवाहविधिना कन्यादानमहं करिष्ये इति संकल्प्य जलशुद्ध्यर्थे वरुणं संपूज्य सपत्नीक उत्थाय कन्यां संप्रगृह्य - कन्यां कनकसंपन्नां कनकाभरणैर्युताम् । दास्यामि विष्णवे तुभ्यं ब्रह्मलोकजिगीषया ॥ विश्वंभरः सर्वभूतसाक्षिण्यः सर्वदेवताः । इमां कन्यां प्रदास्यामि पितृणां तारणाय च ॥ इति पठित्वा ततः कांस्यपात्रे वरहस्तोपरि कन्याहस्ते स्वदक्षिणहस्तं धृत्वा तस्मिन् पूर्वाभिमंत्रितकलशं पत्न्या ग्राहयित्वा उदकधारां पातयन् वदेत् वरहस्ते सुप्रोक्षितमस्तु शिवा आपः संतु सौमनस्यमस्तु ( इत्युक्त्वा ) कन्या तारयतु पुण्यं वर्धतां शांतिः पुष्टिस्तुष्टिश्चास्तु तिथिकरणमुहूर्तनक्षत्रसंपदस्तु पुण्याहं भवंतो ब्रुवंतु स्वस्ति भवंतो ब्रुवंतु ऋद्धिं भवंतो ब्रुवंतु श्रीरस्त्विति भवंतो० अमुकगोत्रः अमुकवर्मा ( गुप्तो दासो वा ) अहं मम समस्तपितृणां निरतिशयसानंदोत्तमलोकावाप्त्यादि कन्यादानकल्पोक्त फलावाप्तयेऽनेनवरेणास्यां कन्यायामुत्पादयिष्यमाणसंतत्या द्वादशावरान् द्वादशपरान् पुरुषांश्च पवित्रीकर्तुं आस्मनश्च श्रीलक्ष्मीनारायणप्रीतये इत्यंतं कन्यादानसंकल्पोक्तमुक्त्वा वरगोत्रमुच्चार्य अमुकगोत्रोत्पन्नाय अमुकवर्मणः प्रप्रौत्राय अमुकवर्मणः पौत्राय अमुकवर्मणः पुत्राय अमुकवर्मणे श्रीधररुपिणे कन्यार्थिने वराग - अमुकगोत्रोत्पन्नां अमुकवर्मणः प्रपौत्रीं अमुकवर्मणः पौत्रीं अमुकवर्मणः मम पुत्रीं अमुकनाम्नीं कन्यां प्रजापतिदैवत्यां प्रजोत्पादनार्थं सहधर्माचरणार्थं च भार्यात्वेन तुभ्यमहं संप्रददे इति कुशयवाक्षतजलं वरहस्ते क्षिपेत् वरः ‘ स्वस्ति ’ इति वदेत् । एवं पुनर्द्विवारं कृत्वा वरः ‘ प्रतिगृह्णामि स्वस्ति ’ इत्युक्त्वा भुवं स्पृशेत् । ततो दाता - ‘ धर्मार्थकाममिनामैर्यो नरः साध्यते परः । धर्मस्त्वयानयासार्धमाचार्यश्च स वै चिरम् ॥ धर्मे चार्थे च कामे च त्वयेयमतिधारतः । न त्याज्याऽऽज्याहुतिरिव भूतौ संसारभूतिदाम् ” ॥ इति पठेत् । वरश्च “ अहं नातिचरिष्यामि यदुक्तं भक्ता ततः । धर्मार्थकामकैः कार्यैर्देहच्छायेव सर्वदा ॥ सत्यं नातिचरिष्यामि ” इति पठेत् । ततः कन्यापिता - गौरीं कन्यामिमां वर्मन्यथाशक्तिविभूषिताम् । गोत्राय वर्मणे तुभ्यं दत्तां भो त्वं समाश्रय ॥ कन्ये ममाग्रतो भूयाः कन्ये मे देवि पार्श्वयोः । कन्ये मे पृष्ठतो भूयास्त्वद्दानात्स्वर्गमाप्नुयाम् ॥ मम वंशकुले जाता तावद्वर्षाणि पोषिता । तुभ्यं वर्मन्मया दत्ता पुत्रपौत्रप्रवर्धिनीइति पठेत् ॥ ततः ‘ कन्यादानप्रतिष्ठा फलसिद्ध्यर्थं इमां दक्षिणां संप्रददे ’ इति सुवर्णगोमिथुनादियथाविभवं दक्षिणात्वेन वराय दद्यात् । ततश्च शक्तौ सत्यां रौप्यपात्रकांस्यपात्रताम्रपात्र गवाश्वगजदासदासीभूम्यलंकारादि दद्यात् । ततः पुरोधाः पूर्वार्चितकलशजलं कांस्यादिपात्रे आसिच्य तस्मिन् हिरण्यं निधाय सकुशदूर्वार्द्रपल्लवैर्वधूवरावभिषिंचेत् । ततो दुग्धाक्तद्विगुणशुक्लसूत्रेण दंपतीकंठदेशे कटिदेशे चैशानीमारभ्य प्रदक्षिणं चतुर्वारं संवेष्टयेत् । तत्र - करोतु स्वस्ति ते ब्रह्मेत्यादिमंत्राः पूर्वोक्ताः पठनीयाः । ततः उपरितनं वेष्टितसूत्रमधो निष्कास्य त्रिगुणं कुंकुमाक्तं पीतं कृत्वातथैवाऽधस्तनवेष्टितसूत्रमुपरि निष्कास्य त्रिगुणं कुंकमाक्तं पीतं कृत्वा ताभ्यां हरिद्राखंडं बध्वा अधस्तनं वरहस्ते वधूर्बध्नीयात् । तत्र मंत्रः - येन बद्धो बली राजा दानवेंद्रो महाबलः । तेन त्वामपि बध्नामि रक्षे मा चल मा चल ॥ ततस्तथैवोपरितनं वधूवामहस्ते वरो बध्नीयात्तेनैव मंत्रेण । ततो वधूवराभ्यां दुग्धार्द्राक्षतारोपणं परस्परं वधूपूर्वकं कार्यम् । तत्र मंत्राः - भगाय नम इति वधूः, यज्ञाय० इति वरः, श्रियै० इति वधूः, धर्माय० इति वरः, प्रजायै० इति वधूः, यशसे० इति वरः । पुनः वरो यज्ञाय नमः वधूः भगाय० वरः धर्माय० वधूः श्रियै० वरः यशसे० वधूः प्रजायै० । ततो वधूवरौ परस्परं पुष्पेण ललाटे तिलकं कृत्वा पुष्पमालां कंठे निदध्याताम् ततो वरपक्षसुवासिनीवधूवरौ प्रड्मुखावुपवेश्य आचारप्राप्तं सकंचुकं वस्त्रयुगं कृष्णमणिसूत्रयुतं कन्यायै समर्प्य सा च ‘ वासोभ्यां नमः ’ इति परिदध्यात् । ततो वरस्तत्सूत्रं - मांगल्यतंतुनाऽनेन मम जीवनहेतुना । कंठे बध्नामि सुभगे सा जीव शरदां शतम् । इति मंत्रेणेष्टदेवतां स्मरन् वधूकंठे बध्नीयात् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP