संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः| मधुपर्कः प्रथमांशुः ग्रन्थोद्देशः गणपतिपूजनं पुण्याहवाचनं च मातृकापूजनम् नांदीश्राद्धम् अग्निमुखम् ग्रहयज्ञः भुवनेश्वरीशांतिः गर्भाधानम् पुंसवनप्रयोगः सीमंतोन्नयनप्रयोगः वस्त्रदानं जातकर्म षष्ठीपूजनम् नामकरणम् आंदोलारोहणम् कर्णवेधः तांबूलभक्षणम् निष्क्रमणम् भूम्युपवेशनम् अन्नप्राशनम् बालस्य दृष्टिदोषादौ रक्षाविधिः वर्धापनम् चौलम् विद्यारम्भः छूरिकाबंधः मौजीबंधनकारिकाः मौंजीबंधनप्रयोगः मौंजीबंधनांगभूतः सायंहोमः मेधाजननम् देवकोत्थापनम् मौंजीविसर्जनम् स्नातकधर्माः दत्तपुत्रप्रतिग्रहविधिः विवाहविधिः सप्रयोगः मुहूर्तमेथिकास्थापनं देवकस्थापनम् वरस्य वधूगृहगमनम् वरस्य सीमांतपूजनम् घटिकास्थापनम् गौरीहरपूजा मधुपर्कः मुहूर्तपत्रिकापूजनादि अक्षतारोपणम् कन्यादानम् विवाहहोमः ऐरिणीदानम् वधूवस्त्रदानम् वधूगृहप्रवेशः नाम - लक्ष्मी - पूजनम् आशीर्वादमंत्राः देवकोत्थापनम् अथ द्विरागमनम् अर्कविवाहः अथ श्रीशांतिः प्रथमांशुः - मधुपर्कः ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : poojaपूजासंस्कृत मधुपर्कः Translation - भाषांतर तत्र गृहागतं वरं संमाननेनानीय शुभासने प्राड्मुखमुपवेश्य तत्पुरतः सपत्नीको दाता प्रत्यड्मुख उपविश्य आचम्य देशकालौ स्मृत्वा ‘ कन्यार्थिनो गृहागतस्य वरस्यास्य कन्यादानांगभूतं मधुपर्कपूजनं करिष्ये ’ इति संकल्प्य ‘ विष्टरो विष्टरो विष्टरः ’ इति विप्रेण त्रिरुक्ते ‘ प्रतिगृह्यताम् ’ इति पंचविंशतिकुशमयं कूर्चं दद्यात् । वरः ‘ प्रतिगृह्णामि ’ इति हस्ते गृहीत्वा ‘ विष्टराय नमः ’ इत्यासने दत्वोपविशेत् । अत्र सर्वत्र मंत्रपाठो विप्रेण कार्यः । ततो विप्रेण ‘ पाद्यं पाद्यं ’ पाद्यं इति त्रिरुक्ते गंधाक्षतदूर्वायुतं पाद्यं प्रतिगृह्यतामिति दद्यात् तेनोदकेन वरस्य सव्यदक्षिणपादौ क्रमेण क्षालयेत् ततो दाता विप्रेण ‘ अर्घ्यमर्घ्यमर्घ्य ’ इति त्रिरुक्ते गंधपुष्पाक्षतफलयुतमर्घ्यं दत्त्वा ‘ प्रतिगृह्यताम् ’ इति वरहस्ते दद्यात् । वरः ‘ प्रतिगृह्णामि ’ इति गृहीत्वा ‘ अद्भ्यो नमः ’ इत्यञ्जलिनाऽऽदाय शिरसाऽभिवाद्य भूमौ क्षिपेत् । ततो विप्रेण ‘ आचमनीयमाचमनीयमाचमनीयम् ’ इति त्रिरुक्ते ‘ प्रतिगृह्यतां ’ इति दद्यात् । वरस्तत्प्रतिगृह्य तदेकदेशं गृहीत्वा सकृत्प्रश्याचामेत् । ततो विप्रेण मधुपर्कोमधुपर्कोमधुपर्कः ’ इति त्रिरुक्ते दात्रा ‘ प्रतिगृह्यताम् ’ इति दत्त्वा । दातृहस्तस्थमधुपर्कमुद्धाट्य ‘ सावित्रे नमः ’ इत्यवेक्ष्य प्रतिगृह्य वामहस्ते निधाय ‘ मधुपर्काय नमः ’ इत्यनामिकयाऽऽलोड्य अनाभिकांगुष्ठाभ्यां बहिः पूर्वस्यां ‘ वसुभ्यो नमः ’ दक्षिणस्यां ‘ रुद्रेभ्यो० ’ ( अपः स्पृष्ट्वा ) पश्चात् ‘ आदित्येभ्यो० ’ उत्तरस्यां ‘ विश्वेभ्यो देवेभ्यो० ’ ‘ भूतेभ्यो नमः ’ इति त्रिरुर्ध्वं क्षिप्त्वा तत्पात्रं भूमौ निधाय तदेकदेशं गृहीत्वा ‘ मधुपर्काय नमः ’ इति प्राश्य आचम्य पुनरेवं द्विवारं प्राश्याचामेत् । ततो विप्रेण ‘ गौर्गौगौः ’ इति त्रिरुक्ते ‘ प्रतिगृह्यताम् ’ इति दात्रा निवेदिते ‘ प्रतिगृह्णामि ’ इत्युक्त्वा ‘ रुद्राणां मात्रे वसूनां दुहित्रे आदित्यस्वस्रे गवे नमः । ( उपांशु ) ममार्चकस्य च पाप्मा हतः ’ इत्युत्सृजन् तृणान्यत्त इत्युच्चैर्विसृजेत् । ततो दाता ‘ लक्ष्मीनारायणस्वरुपिणे वराय ’ इति गंधमाल्यवस्त्रालंकारादिभिर्यथाविभवं वरं पूजयेत् । ततो वरेण सहागतांस्तद्बंधूनपि पूजयेत् ॥ इति मधुपर्कः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP