संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
देवकोत्थापनम्

प्रथमांशुः - देवकोत्थापनम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


समे च दिवसे कुर्याद्देवकोत्थापनं बुधः । षष्ठं च विषमं नेष्टं मुक्त्वा पंचमसप्तमौ ॥ सपत्नीको यजमानः आचम्य देशकालौ संकीर्त्य मम पुत्रस्य कन्यकाया वा कृतविवाहांगभूतं स्थापितदेवतानामुत्थापनं मंडपोद्वासनं पुण्याहवाचनं च करिष्ये आदौ निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं च करिष्ये इति संकल्प्यावाहनादिषोडशोपचारैः गणपतिं संपूज्य सर्वाः पूर्वस्थापितदेवताः पूजयित्वा यांतु देवगणाः० इति विसृज्य बहिर्मंडपे आनीय नंदिन्यादीनां तैलाभ्यंगोद्वर्तनोष्णोदकस्नानानि कारयित्वा वेष्टनसूत्रमुन्मुच्य स्वस्तिवाचनं कुर्यात् तत्र स्वस्तिवाचने मह्यमित्यादि वाक्यांते ‘ मम पुत्रस्य कन्यकाया वा कृतविवाहाख्यस्य कर्मणः ’ इत्याद्यूहः कार्यः । ततो अभिषेकांते तच्छाखादिदेवतास्थापनपात्रे निधाय तदुपरि प्रक्षिप्ताभिषेकजलं सकुटुंबयजमानशिरसि किंचित् स्रावयन् इमं मंत्रं पठेत् - षटसु षट्सु च मासेषु मांगल्यं मामके कुले । अस्त्वित्येवं भवंतोंऽगा ब्रुवंत्वाशीर्वचो द्विजाः - इति ॥ षट्सु षट्सु च मासेषु यजमानकुले तव । विवाहादिकमांगल्यं कर्मास्तु प्रतिहायनम् - इति द्विजा ब्रूयुः । ततः पुण्याहवाचनफलसमृद्धिं वाचयित्वा कर्मणः सांगतासिद्ध्यर्थं ब्राह्मणान् संपूज्य यथाशक्ति भूयसीं दक्षिणां दत्त्वा आशिषो गृहीत्वा कर्मेश्वरार्पणं कृत्वा नीराज्य सुह्रद्युतो भुंजीत ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP