संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
ग्रहयज्ञः

प्रथमांशुः - ग्रहयज्ञः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


ग्रहयज्ञः [ ग्रहमखः ] ।
स च नित्यनैमित्तिककाम्येष्टापूर्तादिकर्मसु चौलादिसंस्कारेषु च ग्रहानुकूल्यार्थमादौ कार्यः । यजमानः आचम्य पवित्रं धृत्वा दे़शकालौ स्मृत्वा मम सकुटुंबस्य सपरिवारस्य ग्रहानुकूल्यार्थं यद्वा अमुककर्मकर्तुमादौ ग्रहानुकूल्यसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं ग्रहयज्ञं करिष्ये । तत्रादौ निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं पुण्याहवाचनं ( मातृकापूजनं नांदीश्राद्धं ) आचार्यादिवरणं च करिष्ये इति संकल्प्य तानि कृत्वा आचार्यादीन् वृणुयात् । यथा - यजमानोऽमुकगोत्रोत्पन्नोऽमुकवर्मा ( गुप्तः दासः ) अहं अमुकप्रवरान्वितामुकगोत्रोत्पन्नं
अमुकवेदांतर्गतामुकशाखाध्यायिनममुकशर्माणं ब्राह्मणं अस्मिन् ग्रहयज्ञाख्ये कर्मणि आचार्यं त्वां वृणे । इत्युक्त्वा सदक्षिणं सतांबूलं पूगीफलं दत्त्वा - आचार्यस्तु यथास्वर्गे शक्रादीनां बृहस्पतिः । तथा त्वं मम यज्ञेऽस्मिन्नाचार्यो भव सुव्रत । आचार्यः - वृतोऽस्मि यथाज्ञानतः कर्म करिष्यामि इति ब्रूयात् । ततः पूर्ववद्गोत्रोच्चारणं कृत्वा - यथा चतुर्मुखो ब्रह्मा सर्ववेदविशारदः । तथा त्वं मम यज्ञेऽस्मिन् ब्रह्मा भव द्विजोत्तम । इत्याचार्यवत् ब्रह्माणं वृत्वा - भगवन्सर्वधर्मज्ञ सर्वधर्मभृतां वर । वितते मम यज्ञेस्मिन् सदस्यं त्वामहं वृणे । इति सदस्यं वृत्वा - वाञ्छितार्थस्य संप्राप्त्यै पूजितोऽसि सुरासुरैः । निर्विघ्नकार्यसंसिद्धयै त्वामहं गणपं वृणे । इति गाणपत्यं वृणुयात् ॥ ततः - अस्य यागस्य निष्पत्तौ भवंतोऽभ्यर्थिता मया । सुप्रसनैश्च कर्त्तव्यं कर्मेदं विधिपूर्वकम् । इति सर्वानृत्विजः संप्रार्थ्य मधुपर्कादिना यथाविभवं पूजयेत् । अथाऽऽचार्यः पवित्रपाणिर्देशकालौ स्मृत्वा अस्मिन् ग्रहयज्ञाख्ये कर्मणि यजमानेन वृतोऽहं आचार्यकर्म करिष्ये इति संकल्प्य कलशं पूजयित्वा अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा । यः स्मरेत्पुंडरीकाक्षं सबाह्याभ्यंतरः शुचिः । इति पूजासंभारान् प्रोक्ष्य आत्मानं च प्रोक्षेत् । ततः यदत्रसंस्थितं भूतं स्थानमाश्रित्य सर्वतः । स्थानं त्यक्त्वा तु तत्सर्वं यत्रस्थं तत्र गच्छतु ॥ इति सर्षपान् विकीर्य पंचगव्येन - शुचिरग्निः शुचिर्वायुः शुचिः सूर्यः शुचिर्विधुः । शुचिः शुक्रः शुचिर्गंगा कुर्वंत्वेतत्स्थलं शुचि । इति यागस्थानं प्रोक्ष्य तथैव - अपवित्रः पवित्रोवेति शुद्धोदकेन प्रोक्ष्य अंजलिं बद्ध्वा प्रणतिमुद्रया तिष्ठन् इमं मंत्रं पठेत् - एनो मुचं तार्क्ष्यमरिष्टनेमिं दैत्यघ्नमात्रेयमृभुक्षमित्रम् । कल्याणरुपं शरणं प्रपद्येऽभयं शिवं स्वस्ति स नस्तनोतु । देवा आयांतु यातुधाना अपयांतु विष्णो देवयजनं रक्षस्व भूमौ प्रादेशं कुर्यात् । ततः अद्येत्यादि० ग्रहयज्ञहोमं कर्तुं स्थंडिलादिसकलं कर्म करिष्ये इति संकल्प्य शुद्धदेशे शुद्धमृदा होमानुसारेण चतुरस्त्रादि कुंडं स्थंडिलं वा कृत्वा तद्गोमयेन प्रदक्षिणमुपलिप्योल्लिख्य लेखासु बलवर्धननामानमग्निं प्रतिष्ठाप्य ध्यायेत् । ततोऽग्नेरीशान्यां प्राच्यां वा गृहवेद्यां तंडुलैः कर्णिकायुतमष्टदलं पद्मं विरच्य तत्र ग्रहस्थापनं कुर्यात् । तद्यथा - पद्मकर्णिकायां रक्ताक्षतैर्वर्तुलं मंडलं सूर्याय, आग्नेयदले शुक्लाक्षतैश्चतुरस्रं सोमाय, दक्षिणदले रक्ताक्षतैस्त्रिकोणं भौमाय, ऐशान्यदले हरिताक्षतैर्बाणाकारं बुधाय, उत्तरदले पीताक्षतैर्दीर्घचतुष्कोणं बृहस्पतये, पूर्वदले शुक्लाक्षतैः पंचकोणं शुक्राय, पश्चिमदले कृष्णाक्षतैश्चापाकारं शनये, नैऋत्यदले नीलाक्षतैः शूर्पाकारं राहवे, वायव्यदले धूम्राक्षतैर्ध्वजाकारं केतवे, एवं मंडलानि कृत्वा तत्तन्मंडले सूर्यादिग्रहप्रतिमा यथास्थानं यथामुखीः स्थापयेत् । अथ ग्रहाणामावाहनम् । तच्चेत्थम् - ग्रहमंडलमध्ये - एते ग्रहमंत्रा नवग्रहस्तोत्रे द्रष्टव्याः जपाकुसुमसंकाशं० इमं मंत्रमुक्त्वा भगवंतं द्विभुजं पद्माभयकरं किरीटिनं पद्मासनं पद्मगर्भसमद्युतिं काश्यपेयं कलिंगदेशजं रक्तांबराभरणमाल्यानुलेपनं रक्तध्वजपताकोपेतसप्ताश्वरथिनं मेरुं प्रदक्षिणीकुर्वंतं पद्मकर्णिकायां वर्तुलासने ताम्रप्रतिमानं प्राड्मुखं सूर्यं पूजार्थमावाहयामि इति प्रतिमायां पूगीफलादौ वा साक्षतपुष्पांजलिं समर्प्यावाहयेत् । ( एवं सर्वत्र ) १ । दधिशंखतुषाराभं० इमं मत्रं समुच्चार्य भगवंतं किरीटिनं गदायुधं द्विभुजं शुक्लवर्णं शुक्लांबराभरणमाल्यानुलेपनं यमुनादेशजमत्रिगोत्रं शुक्लध्वजपताकोपेतरथिनं मेरुं प्रदक्षिणीकुर्वंतं पद्माग्रेयदले चतुरस्रासने स्फाटिकप्रतिमानं प्रत्यड्मुखं सोमं पूजार्थमावाहयेत् २ । धरणीगर्भसंभूतं० इमं मंत्रेसमुच्चार्य भंगवंतं किरीटिनं चतुर्भुजं शक्तिशूलगदायुधं रक्तवर्णं रक्तांबराभरणमाल्यानुलेपनं मेषारुढमवंतिदेशजं भारद्वाजगोत्रं रक्तध्वजपताकोपेतरथिनं मेरुं प्रदक्षिणीकुर्वंतं पद्मदक्षिणदले त्रिकोणासने रक्तचंदनप्रतिमानं दक्षिणामुखं भौमं पूजार्थमावाहयेत् ३ । प्रियंगुकलिकाश्यामं० । इमं मंत्रमुक्त्वा भगवंतं किरीटिनं चतुर्भुजं खड्गखेटगदावरदायुधं मगधदेशजमत्रिगोत्रं पीतवर्णं सिंहारुढं पीतांबराभरणमाल्यानुलेपनं पीतच्छत्रध्वजपताकोपेतरथिनं मेरुं प्रदक्षिणीकुर्वंतं पद्मेशानदले बाणाकारासने सुवर्णप्रतिमानमुदड्मुखं बुधं पूजार्थमावाहयेत् ४ । देवानां च ऋषीणां च० इमं मंत्रं पठित्वा भगवंतं किरीटिनं सिंधुदेशजमांगिरसगोत्रं हेमवर्णं पीतांबराभरणमाल्यानुलेपनं चतुर्भुजं दंडकमंडल्वक्षसूत्राभयदायुधं पीतध्वजपताकोपेतरथिनं मेरुं प्रदक्षिणीकुर्वंतं पद्मोत्तरदले दीर्घचतुरस्रासने कनकप्रतिमानमुदड्मुखं गुरुं पूजार्थमावाहयेत् ५ । हिमकुंदमृणालाभं० इमं मंत्रमुक्त्वा भगवंतं किरीटिनं शुक्लवर्णं चतुर्भुजं दंडवरदाक्ष सूत्रकमंडल्वायुधं भोजकटदेशजं भार्गवगोत्रं शुक्लांबराभरणमाल्यानुलेपनं शुक्लध्वजपताकोपेतरथिनं मेरुं प्रदक्षिणीकुर्वंतं पद्मपूर्वदले पंचास्रासने रजतप्रतिमानं प्राड्मुखं शुक्रं पूजार्थमावाहयेत् ६ । नीलांजनसमाभासं० इमं मंत्रं पठित्वा भगवंतं किरीटिनं चतुर्भुजं चापकृपाणतूणीराभयायुधं नीलवर्णं नीलांबराभरणमाल्यानुलेपनं सौराष्ट्रदेशजं काश्यपगोत्रं रविपुत्रं गृध्रवाहनं नीलध्वजपताकोपेतरथिनं मेरुं प्रदक्षिणीकुर्वंतं पद्मपश्चिमदले धनुरासने कालायसप्रतिमानं प्रत्यड्मुखं शनिं पूजार्थमावाहयेत् ७ । अर्धकायं महावीर्यं० इमं मंत्रं पठित्वा भगवंतं किरीटीनं चतुर्भुजं खड्गशूलचर्मगदायुधं राठिनदेशजं पैठीनसगोत्रं कृष्णवर्णं कृष्णांबराभरणमाल्यानुलेपनं कृष्णध्वजपताकोपेतरथिनं मेरुं प्रदक्षिणीकुर्वंतं पद्मनैऋत्यदले शूर्पाकारासने सीसप्रतिमानं दक्षिणाभिमुखं राहुं पूजार्थमावाहयेत् ८ । पलाशपुष्पसंकाशं० इमं मंत्रं समुच्चार्य भगवंतं किरीटिनं धूम्रवर्णं द्विभुजं गदावरदायुधं गृध्रारुढं जैमिनीगोत्रमंतर्वेदिजं चित्रांबराभरणमाल्यानुलेपनं चित्रध्वजपताकोपेतरथिनं मेरुं प्रदक्षिणीकुर्वंतं पद्मवायव्यदले ध्वजासने कांस्यप्रतिमानं दक्षिणामुखं केतुं पूजार्थमावाहयामि ९ ॥ ग्रहाधिदेवतावाहनं - सूर्यदक्षिणपार्श्वे - रुद्रो देवो वृषारुढश्चतुर्बाहुस्त्रिलोचनः । त्रिशूलखट्वावरदाभयपाणिर्नमामि ते ॥ भो रुद्रेहागच्छेह तिष्ठ मम पूजां गृहाण वरदो भव रुद्राय नमः रुद्रमावाहयामि १ । सोमदक्षिणपार्श्वे - सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यंबके गौरि नारायणि नमोऽस्तु ते ॥ भो उमे इहागच्छेह तिष्ठ० वरदा भव उमायै० उमामा० २ । भौमदक्षिणपार्श्वे - रक्तांबरं बर्हिवाहं चतुर्बाहुं षडाननम् । कुक्कुटध्वजघंटाशक्त्युपेतं प्रणमाम्यहम् ॥ भो स्कंदेहागच्छेह तिष्ठ० स्कंदाय न० स्कंदमा० ३ । बुधदक्षिणपार्श्वे - कौमोदकीपद्मशंखचक्रोपेतं चतुर्भुजम् । नमामि पुरुषं देवं पन्नगाशनवाहनम् ॥ भो षुरुषेहागच्छेह तिष्ठ० पुरुषायनमः पुरुषमा० ४ । गुरुदक्षिणापार्श्वे - रक्तवर्णश्चतुर्बाहुर्हंसारुढश्चतुर्मुखः । पद्माक्षसूत्रवरदाभयपाणिर्नमामि तम् ॥ भो ब्रह्मन् इहागच्छेह तिष्ठ० ब्रह्मणे नमः ब्रह्माणमा० ५ । शुक्रदक्षिणपार्श्वे - इंद्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः । शतयज्ञाधिपो देवस्तस्मै नित्यं नमो नमः ॥ भो इंद्रेहागच्छेह तिष्ठ० इंद्रायनमः इंद्रमा० ६ । शनिदक्षिणपार्श्वे - दंडहस्तं यमं देवं महामहिषवाहनम् । वैवस्वतं पितृपतिं नौमि नित्यं महाबलम् ॥ भो यमेहागच्छ० यमायनमः यममावाह० ७ । राहुदक्षिणपार्श्वे - करालवदनं भीमं पाशदंडधरं सदा । सर्पवृश्चिकरोमाणं तं कालं प्रणमाम्यहम् ॥ भो कालेहागच्छेह तिष्ठमम० कालायनमः कालमावाह० ८ । केतुदक्षिणपार्श्वे - उदीच्यवेषः सौम्यश्च लेखनीपत्रसंयुतः । चित्रगुप्तो लिपिकरस्तस्मै नित्यं नमोनमः । भोचित्रगुप्तेहा गच्छ० चित्रगुप्ताय० चित्रगुप्तमा० ९ ॥ ग्रहप्रत्यधिदेवतावाहनम् ॥ सूर्यवामपार्श्वे - आग्नेयः पुरुषोरक्तः सर्वदेवमयोऽव्ययः । धूम्रकेतू रजोध्यक्षस्तस्मै नित्यं नमोनमः ॥ भो अग्ने इहागच्छ० अग्नये नमः अग्निमा० १ । सोमवामपार्श्वे - स्त्रीरुपाः पाशकलशहस्ता मकरवाहनाः । श्वेता मौक्तिकभूषाढ्या अद्भ्यस्ताभ्यो नमो नमः ॥ भो आप इहागच्छतेह तिष्ठत मम पूजां गृह्णीत वरदा भवत अद्भ्यो नमः अप आवाहयामि २ । भौमवामपार्श्वे - सर्वेषामाश्रया भूमिर्वराहेण समुद्धृता । अनंतसस्यदात्री या तां नमामि वसुंधराम् ॥ भो भूमे इहागच्छेह तिष्ठ० भूम्यै न० भूमिमा० ३ । बुधवामपार्श्वे - कौमोदकीगदापद्मशंखोपेतं चतुर्भुजम् । नमामि विष्णुं देवेशं कृष्णं गरुडवाहनं ॥ भो विष्णो इहागच्छेह तिष्ठ० विष्णवे नमः विष्णुमा० ४ । गुरुवामपार्श्वे - चतुर्देतगजारुढं वज्रांकुशधरं सुरम् । शचीपतिं नौमि नित्यं नानाभरणभूषितं ॥ भो इंद्रेहागच्छ० इंद्राय० इंद्रमा० ५ । शुक्रवामपार्श्वे - शक्रप्रिया या संतानमंजरी वरदायुधा । इंद्राणी द्विभुजा देवी तस्यै नित्यं नमो नमः । भो इंद्राणीहागच्छ० इंद्राण्यैनमः इंद्राणीमा० ६ । शनिवामपार्श्वे स्रुवाक्षमालाकरकपुस्तकाढ्यं चतुर्भुजं । प्रजापतिं हंसयानमेकवक्त्रं नमामि तं ॥ भो प्रजापते इहाग० प्रजापतयेनमः प्रजापतिमा० ७ । राहुवामपार्श्वे - अनंतो वासुकिश्चैव कालियो मणिभद्रकः । शंखश्च शंखपालश्च कर्कोटकधनंजयौ ॥ धृतराष्ट्रश्च ये सर्पास्तेभ्यो नित्यं नमो नमः ॥ भो सर्पाः इहागच्छत इह तिष्ठत मम पूजां गृह्णीत वरदा भवत । सर्पेभ्योनमः सर्पानावा० ८ । केतुवामपार्श्वे - यज्ञाध्यक्षश्चतुर्मूर्तिर्वेदावासः पितामहः । पद्मयोनिश्चतुर्वक्त्रस्तस्मै नित्यं नमो नमः । भो ब्रह्मन्निहागच्छ० ब्रह्मणे० ब्रह्माणमा० ९ ॥ क्रतुसाद्गुण्यदेवतावाहनं । सूर्यपश्चिमे देशे - अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः । सर्वविघ्नहरस्तस्मै गणाधिपतये नमः । भो गणपते इहा० गणपतयेनमः गणपतिमा० १ । तदुत्तरे - तामग्निवर्णां तपसा ज्वलंतीं सर्वकामदाम् । भक्तानां वरदां नित्यं दुर्गांदेवीं नमाम्यहम् । भो दुर्गे इहागच्छेह तिष्ठ वरदा भव दुर्गायै नमः दुर्गामावा० २ । तदुत्तरे - शूलव्यालकपालदंदुभिधनुर्घंटासिचर्मायुधो दिग्वासा असितः सुदंष्ट्रभ्रुकुटीवक्राननः कोपनः । सर्पव्रातयुतांगऊर्ध्वचिकुरस्त्र्यक्षोऽहिकौपीनको यः स्यात्क्षेत्रपतिः स नोऽस्तु सुखदस्तस्मै नमः सर्वदा । भो क्षेत्रपालेहा० क्षेत्रपालाय० क्षेत्रपालमा० ३ । तदुत्तरे - वरदानध्वजधरो धावद्धरिणपृष्ठगः । धूम्रवर्णश्च यो वायुस्तस्मै नित्यं नमो नमः० । भो वायो इहाग० वायवे० वायुमा० ४ । तदुत्तरे - चंद्रार्कोपेतमाकाशं षंढं नीलोत्पलप्रभम् । नीलांबरधरं चैव तस्मै नित्यं नमो नमः । भो आकाशेहागच्छ० आकाशाय० आकाशमा० ५ । तदुत्तरे - स्वर्वैद्यावश्विनौ देवौ द्विभुजौ शुक्लवर्णकौ । सुधाकलशसंयुक्तौ वंदे करकधारिणौ ॥ भो अश्विनौ इहागच्छतं इह तिष्ठतं मम पूजां गृह्णीतं वरदौ भवतं अश्विभ्यां० अश्विनावावाहयामि ६ तदुत्तरे - वास्तोष्पते नमस्तुभ्यं भूशय्याभिरत प्रभो । प्रसीद पाहि मां देव सर्वारिष्टं विनाशय । वास्तोष्पते इहागच्छ० वास्तोष्पतये० वास्तोष्पतिमा० ७ ॥ क्रतुसंरक्षकदेवतावाहनं - पूर्वादिक्रमेण मंडलाद्बहिः - इंद्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः । शतयज्ञाधिपो देवस्तस्मै नित्यं नमो नमः ॥ भो इंद्रेहागच्छ० १ । आग्नेयः पुरुषो रक्तः सर्वदेवमयोऽव्ययः । धूमकेतू रजोऽध्यक्षस्तस्मै नित्यं नमो नमः ॥ भो अग्ने इहागच्छ० २ । दंडहस्तं यमं देवं० । भो यमेहागच्छेह तिष्ठ० ३ । निऋतिं खड्गहस्तं च सर्वलोकैकपावनम् । नरवाहनमत्युग्रं वंदेऽहं कालिकाप्रियम् । भो निऋते इहागच्छ० ४ । वरुणं पाशहस्तं च यादसांपतिमीश्वरम् । अपांपतिमहं वंदे देवं मकरवाहनम् । भो वरुणेहागच्छ० ५ । अनाकारो महौजाश्च यश्चादृष्टगतिर्दिवि । जगत्पूज्यो जगत्प्राणस्यं वायुं प्रणमाम्यहम् । भो वायो इहागच्छेह० ६ । सर्वनक्षत्रमध्ये तु सोमो राजा व्यवस्थितः । तस्मै नक्षत्रपतये देवाय सततं नमः । भो सोमेहागच्छेह तिष्ठ मम० ७ । सर्वाधिपो महादेव ईशानश्चंद्र्शेखरः । शूलपाणिर्विरुपाक्षस्तस्मै नित्यं नमो नमः । भो ईशानेहागच्छेह तिष्ठ० ८ । इत्यावाह्य सूर्याद्यावाहितदेवताभ्यो नम इति नाममंत्रेण षोडशोपचारैः पूजयेत् । तत ईशान्यां कलशस्थापनं कुर्यात् ॥ सर्वेषामाश्रया भूमिर्वराहेण समुद्धृता । अनंतसस्यदात्री या तां नमामि वसुंधराम् ॥ इति भूमिं स्पृष्ट्वा । यासामाप्यायकः सोमो राजायाः शोभनाः स्मृताः । ओषध्यः प्रक्षिपाम्यत्र ता अद्य कलशार्चने ॥ इति धान्यराशिं कृत्वा तत्र - कलशस्य मुखे विष्णु० इति कलशं संस्थाप्य तस्मिन् गंगा च यमुना चैव० इति उदकेन कलशं पूरयित्वा । तत्र - गजाश्वरथ्यावल्मीकसंगमादूध्रगोकुलात् । चत्वरान्मृदमानीय कुंभेऽस्मिन्प्रक्षिपाम्यहम् । इति सप्तमृदः क्षिप्त्वा । उदुंबरवटाश्वत्थचूतन्यग्रोधपल्लवाः । पंचभंगा इति ख्याताः सर्वकर्मसु शोभनाः । इति पंच पल्लवान् ॥ गव्यं क्षीरं दधि तथा घृतं मधु च शर्करा । एतत्पंचामृतं शस्तं कुंभेऽस्मिन् प्रक्षिपाम्यहं ॥ इति पंचामृतं ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिर्यथाक्रमम् । एतानि पंच गव्यानि कुंभेऽस्मिन् प्रक्षिपाम्यहम् । इति पंच गव्यानि ॥ कनकं कुलिशं नीलं पद्मरागं च मौक्तिकम् । एतानि पंचरत्नानि कुंभेऽस्मिन् प्रक्षिपाम्यहम् । इति पंचरत्नानि ॥ हिरण्यगर्भगर्भस्थं० इति हिरण्यम् । कुष्ठं मांसी हरिद्रे द्वे मुरा शैलेयचंदने । वचा चंपकमुस्तौ च सर्वौषध्यो दश स्मृताः । इति सर्वौषधीः ( तदभावे सुवर्ण व्यावहारिकं द्रव्यं वा ) । मलयाचलसंभूतं घनसारं मनोहरं । ह्रदयानंदनं दिव्यं चंदनं प्रक्षिपाम्यहं । इति गंधं ॥ त्वं दूर्वेऽमृतजन्मासि वंदितासि सुरैरपि । सौभाग्यसंततिकरी सर्वकार्येषु शोभना ॥ इति दूर्वाः । यवगोधूमधान्यानि तिलाः कंगुस्तथैव च । शामाकं चीनकं चैव सप्तधान्यं क्षिपाम्यहम् । इति सप्तधान्यानि ॥ फलेन फलितं सर्वं त्रैलोक्यं सचराचरम् । कलशे प्रक्षिपामीदं सर्वकर्मफलप्रदम् । इति पूगीफलादि ॥ सितं सूक्ष्मं सुखस्पर्शं० इति वस्त्रेण वेष्टयित्वा । पूर्णपात्रमिदं दिव्यं० इति पूर्णपात्रं निधाय तत्राष्टदलं विलिख्य । पाशहस्तंच वरुणं० इति कलशे वरुणमावाह्य संपूज्य प्रार्थयेत् - कलस्य मुखे० सर्वे समुद्राः सरितः० देवदानवसंवादे मथ्यमाने महोदधौ । उत्पन्नोऽसि तदा कुंभ विधृतो विष्णुना स्वयम् ॥ इति मंत्रैः संप्रार्थ्य  अग्निसमीपमागत्याऽन्वाधानं कुर्यात् । तद्यथा - समिद्वयमादाय देशकालौ स्मृत्वा क्रियमाणे ग्रहयज्ञहोमे देवतापरिग्रहार्थमित्यादि चक्षुषी आज्येनेत्यंतमुक्त्वा अत्र प्रधानं - सूर्यं सोमं अंगारकं बुधं बृहस्पतिं शुक्रं शनिं राहुं केतुं एताः सूर्यादिनवग्रहप्रधानदेवताः प्रत्येकं प्रतिद्रव्यं अष्टोत्तरशताष्टाविंशत्यष्टान्यतमसंख्याभिः
यथालाभमर्कादिसमित्तिलाज्याहुतिभिः अधिदेवताः प्रत्यधिदेवताश्च प्रत्येकं प्रतिद्रव्यं अष्टाविंशत्यष्टचतुरन्यतमसंख्याभिः पूर्वोक्तद्रव्याहुतिभिः, गणपतिं दुर्गां क्षेत्रपालं वायुमाकाशमश्विनौ इंद्रं अग्निं यमं निऋतिं वरुणं वायुं सोमं ईशानं एताः क्रतुसाद्गुण्यदेवताः क्रतुसंरक्षकदेवताश्च प्रत्येकं प्रतिद्रव्यं अष्टचतुर्व्द्यन्यतमसंख्याहुतिभिः पूर्वोक्तद्रव्याहुतिभिर्यक्ष्ये । शेषेण स्विष्टकृतमित्यादि सद्यो यक्ष्ये इत्यंतमुक्त्वा समिद्वयं प्रजापतये नमः इत्यग्नावाधाय परिस्तरणपर्युक्षणानि कृत्वा उत्तरास्तीर्णेषु दर्भेषु दक्षिणसव्यपाणिभ्यां क्रमेण द्रव्यस्थालीप्रोक्षण्यावित्यादि पात्राण्यासाद्य प्रोक्षणीपात्रमुत्तानकरणादि अग्निमुखवत् प्रणीताप्रणयनांतं कृत्वा ब्रह्माणं वृणुयात् । ततो ब्रह्माऽग्रेणाग्निं परीत्य दक्षिणत उदड्मुख आसनदर्भादेकदर्भं निऋत्ये निरस्य अपः स्पृष्ट्वा उदड्मुख एव ब्रह्मासनेनोपविशेत् । ततः प्रणीतापात्रमग्नेरुत्तरतो निधाय ते पवित्रे आज्यपात्रे निधाय आज्यपात्रं पुरतः संस्थापनादि संमार्गदर्भप्रहरणांतं कृत्वा आज्याद्दक्षिणतो बर्हिषि हविर्द्रव्यमासाद्याभिघार्य अग्न्यर्चनं कृत्वा इध्ममादाय त्रिरभिघार्य मध्ये गृहीत्वा - भो जातवेदस्तव चैष इध्मेतिमंत्रेण हुत्वा त्यजेत् । ततोऽग्निमुखप्रकारेणाघाराज्यभागौ च हुत्वा संकल्पितसंख्याभिराहुतिभिः प्रधानहोमं कुर्यात् । तत्रादौ यजमानः अस्मिन् कर्मणि इमानि उपकल्पितहवनीयद्रव्याणि या या यक्ष्यमाणदेवतास्ताभ्यस्ताभ्यो मया परित्यक्तानि नमम यथा दैवतमस्तु इति द्रव्यत्यागं कुर्यात् । ततः ऋत्विजो यथाऽन्वाधानं सूर्यादीनां नमोंतैरावाहनमंत्रैर्नाममंत्रैर्वा समिदादिक्रमेण जुहुयात् । तत्र - अर्कः पलाशखदिरापामार्गश्चाथ पिप्पलः । औदुंबरशमीदूर्वाः कुशाश्च समिधोऽर्कतः ॥ तत आचार्यः स्विष्टकृतं गृहीत्वा द्विरभिघार्य । समाधिकमपि हीनं जात इति मंत्रेण हुत्वा स्विष्टकृतेऽग्न्य इदं नममेति त्यक्त्वा इध्मसन्नहनेन रुद्राय नमः इति हुत्वा त्यक्त्वा च प्रायश्चित्ताज्याहुतीर्हुत्वा बलिदानं कुर्यात् । तच्चैवम् -
ग्रहबलिदानम् - सपत्नीको यजमानः देशकालौ संकीर्त्य कृतस्यास्य ग्रहयज्ञकर्मणः सांगतासिद्ध्यर्थं इंद्रादिलोकपालप्रीत्यर्थं आदित्यादिनवग्रहदेवताप्रीत्यर्थं क्षेत्रपालप्रीत्यर्थं च बलिदानं करिष्ये इति संकल्प्य अग्न्यायतनसमंतात्पूर्वादितः पूर्वे - इंद्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः । शतयज्ञाधिपो देवस्तस्मै नित्यं नमो नमः ॥ इंद्राय नमः सर्वोपचारार्थे गंधाक्षतपुष्पाणि समर्पयामि इंद्राय सांगाय सपरिवाराय सायुधाय सशक्तिकाय इमं सदीपमाषभक्तबलिं ( माषपिष्टबलिं वा ) समर्पयामि भो इंद्र इमं बलिं भक्ष दिशं रक्ष मम सकुटुंबस्य सपरिवारस्य आयुः कर्ता क्षेमकर्ता शांतिकर्ता तुष्टिकर्ता पुष्टिकर्ता कल्याणकर्ता वरदो भव अनेन बलिदानेन इंद्रः प्रीयताम् । ( एवं सर्वत्र ) १ । आग्नेयः पुरुषो रक्तः० । अग्नये नमः सर्वोपचारार्थे० अग्नये सांगायेत्यादि पूर्ववत् २ । दंडहस्तं यमं देव० । यमायनमः सर्वोपचारार्थे० यमाय सांगायेत्यादि० ३ । निऋतिं खड्गहस्तं च० । निऋतये० सर्वोपचारार्थे० निऋतये सांगायेत्यादि० ४ । पाशहस्तं च वरुणं० । वरुणाय नमः सर्वोपचारार्थे० वरुणाय० सांगायेत्यादि ५ । अनाकारो महौजाश्च० वायवे न० सर्वोप० वायवे सांगायेत्यादि० ६ । सर्वनक्षत्रमध्ये तु सोमो राजा० सोमाय न० सर्वोप० सोमाय सांगायेत्या० ७ । सर्वाधिपो महादेवः० ईशानाय० सर्वोपचारार्थे० ईशानाय सांगाय० ८ । चंद्रार्कोपेतमाकाशं० आकाशाय० सर्वोप० आकाशाय सांगाय० ९ सर्वसस्याश्रया भूमिः० । भूम्यै न० भूम्यै सांगायै सपरिवारायै० भो भूमे अमुं बलिं० आयुः कर्त्री क्षेमकर्त्री शांतिकर्त्री पुष्टिकर्त्री तुष्टिकर्त्री कल्याणकर्त्री वरदा भव । अनेन बलि० । अथ ग्रहेभ्यः पृथक्पृथक्‍ तत्तन्मंक्‍ त्रैर्बलीन्दद्यात् । अथ वा युगपदेव बलिदानं कार्यम् । तद्यथा - सूर्यादिनवग्रहदेवताभ्योनमः सर्वोपचारार्थे० सूर्यादिनवग्रहेभ्यः सांगेभ्यः सपरिवारेभ्यः सायुधेभ्यः सशक्तिकेभ्यो नमः अमुं सदीप० भो सूर्यादिनवग्रहाः अमुं बलिं गृह्णीत दिशं रक्षत मम सकुटुंबस्य सपरिवारस्यायुः कर्तारः क्षेमकर्तारः शांतिकर्तारः पुष्टिकर्तारस्तुष्टिकर्तारः कल्याणकर्तारो वरदा भवत । अनेन बलिदानेन सूर्यादिनवग्रहाः प्रीयंताम् ॥
ततः क्षेत्रपालबलिः - गृहाद्बहिरीशानदेशे गोमयोपलिप्ते रंगवल्ल्यादिरंजिते स्थले नवशूर्पादिपात्रे बलिं निधाय तत्र क्षेत्रपालं संपूज्य क्षेत्रपालाय सांगाय सपरिवाराय सायुधाय सशक्तिकाय शाकिनीडाकिनीभूतप्रेतपिशाच यक्षवेतालमारीचब्रह्मराक्षससहिताय अमुं सदीपमाषभक्तबलिं समर्पयामि भो क्षेत्रपाल अमुं बलिं भक्ष दिशं रक्ष मम सकुटुंबस्य सपरिवारस्यायुः कर्तेत्यादिपूर्ववदुक्त्वा - ईशानोत्तरयोर्मध्ये क्षेत्रपाला महाबलाः । भीमानाम महादंताः प्रतिगृह्णंत्विमं बलिम् ॥ ये केचित्त्विहलोकेषु आगता बलिकांक्षिणः । तेभ्यो बलिं प्रयच्छामि नमस्कृत्य पुनः पुनः ॥ इति संप्रार्थ्य शूद्रादिना तस्मिन् बलौ नीते शांतिः शांतिः शांतिरिति तत्पश्चाज्जलं सिक्त्वा सपत्नीको यजमानो हस्तौ पादौ प्रक्षाल्य आचम्य गृहमागच्छेत् । तत आचार्यः स्रुचि द्वादशवारं चतुर्वारं वा स्रुवेणाज्यं गृहीत्वा तदुपरि वस्त्रतांबूलफलगंधाक्षतपुष्पादि निधाय तदुपरि अधोबिलं स्रुवं निक्षिप्य स्रुक्स्रुवौ शंखमुद्रया गृहीत्वा तिष्ठन् यजमानान्वारब्धः पूर्णाहुतिं जुहुयात् । तत्र मंत्रः - एह्येहि सर्वामरहव्यवाह मुनिप्रवर्यैरभितोभिजुष्ट । तेजोवता लोकगणेन सार्धं ममाध्वरं पाहि कवे नमस्ते । भो अग्ने हव्यवाहन वैश्वानर सर्वदेवमय सर्वदेवतामुख जातवेदस्तनूनपात कृशानो हुतभुग्विभावसो बृहद्भानो हिरण्यरेतः सप्तार्चिर्दमुनश्चित्रभानो ज्वलनपावकेळाह्वयाय तुभ्यमिमां सर्वकर्मप्रपूरणीं पूर्णाहुतिं ददाम्येनां गृहाण गृहाणास्माकमनामयमनिशं कुरु कुर्विष्टं देहि देहि सर्वतोऽस्मान्दुरितदुरिष्टात्पाहि पाहि भगवन्नमस्ते नमस्ते । अग्नये नमः । इति पूर्णाहुतिं हुत्वा अग्नये इदं न ममेति त्यागः । ततः संस्रावं हुत्वा विश्वेभ्यो देवेभ्यो नमः विश्वेभ्यो देवेभ्य इदं० । ततो बर्हिषि पूर्णपात्रनिनयनादि अग्न्यर्चनांतं कृत्वा स्थापितकलशोदकेन सर्त्विगाचार्यः सपत्नीकं सपुत्रपौत्रं सामात्यं यजमानं ‘ सुरास्त्वामभिषिचंतु ’ इत्यादिभिः ‘ सर्वकामार्थसिद्धये ’  इत्यंतैर्मंत्रैः तथा ‘ ग्रहाणामादिरादित्यः० ’ इत्यादि ग्रहमंत्रैश्चाभिषिंचेत् । एवभिषिक्तो यजमानः शुक्लचंदनतिलकादि धृत्वा आचम्य अद्येत्यादि० कृतस्यास्य ग्रहयज्ञकर्मणः सांगतासिद्ध्यर्थं सूर्यादिग्रहदेवताप्रीत्यर्थं अग्निपूजनं स्थापितदेवतापूजनं ग्रहपीठदानमाचार्यादिपूजनं श्रेयोग्रहणं च करिष्ये इति संकल्प्य अग्निं संपूज्य विभूतिं धृत्वा देवता अभ्यर्च्य आचार्याय पूजनपूर्वकं गां दद्यात् ॥ यज्ञसाधनभूता या विश्वस्याघौघनाशिनी । विश्वरुपधरो देवः प्रीयतामनया गवा ॥ एतत्कृतस्य ग्रहयज्ञकर्मणः सांगतासिद्ध्यर्थं सूर्यादिनवग्रहप्रीत्यर्थं इदं गोदानं यथासोपस्करं यद्वा इदं यथाशक्तिगोनिष्क्रयीभूतद्रव्यं दक्षिणात्वेन आचार्याय अमुकशर्मणे तुभ्यमहं संप्रददे न ममेति दद्यात् । ततस्तथैवाऽन्यऋत्विग्भ्यो दक्षिणां दत्त्वा श्रेयोग्रहणं कुर्यात् । यथा - आचार्यः - स्वस्त्यस्तु दीर्घमायुः श्रेयः शांतिः पुष्टिस्तुष्टिश्चास्तु भवन्नियोगेन मया एभिर्ब्राह्मणैः सह यत्कृतं ग्रहयज्ञाख्य कर्म तदुत्पन्नं यच्छ्रेयस्तत्तुभ्यमहं संप्रददे तेन त्वं आयुष्मान् आरोग्यवान् पुत्रपौत्रवान् धनधान्यवान् भव इत्युक्त्वा यजमानांजलौ पूगीफलयुतजलं क्षिपेत् । ततो देवतानामुत्तरपूजां कृत्वा विसर्जयेत् । यजमान आचार्याय तत्पीठदानं कृत्वा कांस्यपात्रे आज्यमवलोक्य । आज्यं तेजः समुद्दिष्टमाज्यं पापहरं स्मृतम् । आज्यं सुराणामाहार आज्ये देवाः प्रतिष्ठिताः ॥ इति पठित्वा इदं अवलोकिताज्यपात्रदानं सदक्षिणं अमुकशर्मणे ब्राह्मणाय दातुमहमुत्सृजे इति दत्त्वा अन्येभ्यो भूयसीं दक्षिणां दत्त्वा कृतस्य ग्रहयज्ञकर्मणः सांगतासिद्ध्यर्थं ब्राह्मणेभ्यो यथाशक्ति आमान्नानि तन्निष्क्रयद्रव्यं वा दत्त्वा तेभ्य आशिषो गृहीत्वा - यस्य स्मृत्या च नामोक्त्या ग्रहयज्ञक्रियादिषु । न्यूनं संपूर्णतां याति सद्यो वंदे तमच्युतम् ॥ मंत्रहीनं क्रियाहीनं भक्तिहीनं हुताशन । यद्धुतं तु मया देव परिपूर्णं तदस्तु मे ॥ अनेन ग्रहयज्ञाख्येन कर्मणा भगवान् आदित्यादिनवग्रहरुपी परमेश्वरः प्रीयताम् । विष्णवे नम इति त्रिरुक्त्वा द्विराचामेत् ॥
अथाशीर्वादमंत्रा :- आरोग्यं सविता तनोतु भवतामिंदुर्यशो निर्मलं भूतिं भूमिसुतः सुधांशुतनयः प्रज्ञां गुरुर्गौरवम् । काव्यः कोमलवाग्विलासमतुलं मंदो मुदं सर्वदा राहुर्बाहुबलं विरोधशमनं केतुः कुलस्योन्न्नतिम् ॥ दिवा वा यदि वा रात्रौ विघ्नशांतिर्भविष्यति । नरनारीनृपाणां च भवेद्दुः स्वप्ननाशनम् ॥ ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम् । ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः । ताः सर्वाः प्रशमं यांति व्यासो ब्रूते न संशयः ॥ इति माणग्रामनिवासि विद्वद्वर्यमहादेवात्मजदिवाकरकृते कृत्यदिवाकरे प्रथमांशौ ग्रहयज्ञप्रयोगः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP