संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः| गर्भाधानम् प्रथमांशुः ग्रन्थोद्देशः गणपतिपूजनं पुण्याहवाचनं च मातृकापूजनम् नांदीश्राद्धम् अग्निमुखम् ग्रहयज्ञः भुवनेश्वरीशांतिः गर्भाधानम् पुंसवनप्रयोगः सीमंतोन्नयनप्रयोगः वस्त्रदानं जातकर्म षष्ठीपूजनम् नामकरणम् आंदोलारोहणम् कर्णवेधः तांबूलभक्षणम् निष्क्रमणम् भूम्युपवेशनम् अन्नप्राशनम् बालस्य दृष्टिदोषादौ रक्षाविधिः वर्धापनम् चौलम् विद्यारम्भः छूरिकाबंधः मौजीबंधनकारिकाः मौंजीबंधनप्रयोगः मौंजीबंधनांगभूतः सायंहोमः मेधाजननम् देवकोत्थापनम् मौंजीविसर्जनम् स्नातकधर्माः दत्तपुत्रप्रतिग्रहविधिः विवाहविधिः सप्रयोगः मुहूर्तमेथिकास्थापनं देवकस्थापनम् वरस्य वधूगृहगमनम् वरस्य सीमांतपूजनम् घटिकास्थापनम् गौरीहरपूजा मधुपर्कः मुहूर्तपत्रिकापूजनादि अक्षतारोपणम् कन्यादानम् विवाहहोमः ऐरिणीदानम् वधूवस्त्रदानम् वधूगृहप्रवेशः नाम - लक्ष्मी - पूजनम् आशीर्वादमंत्राः देवकोत्थापनम् अथ द्विरागमनम् अर्कविवाहः अथ श्रीशांतिः प्रथमांशुः - गर्भाधानम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : poojaपूजासंस्कृत गर्भाधानम् Translation - भाषांतर क्षत्रियाद्याः कलौ वर्णा ये स्युः स्वाचारतत्पराः । तेषां गर्भादिसंस्कारा उच्यंते संप्रदायतः ॥ कृताभ्यंगस्नानः सपत्नीको यजमानः धृततिलकः शुक्लांबरधरः सोपवासाः सुवस्त्राच्छादितासने उपविश्य आचम्य पवित्रपाणिः गणपत्यादीष्टदेवतादिभ्यो यथाचारं फलतांबूलादि समर्प्य स्वमातापित्रादिवृद्धान् प्रणम्य ब्राह्मणान्नमस्कृत्य सुमुखश्चेत्यादि पठित्वा देशकालौ स्मृत्वा अस्यां मम भार्यायां जनिष्यमाणसर्वगर्भाणां बीजगर्भसमुद्भवैनोनिबर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थं गर्भाधानाख्यं कर्म करिष्ये । तदंगतयादौ गणपतिपूजनं स्वस्तिपुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं च करिष्ये इति संकल्प्य तानि कुर्यात् । ततः आचम्य देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं गर्भाधानहोमं कर्तुं स्थंडिलादि सर्वं कर्म करिष्ये इति संकल्प्य स्थंडिलोपलेपनोल्लेखने कृत्वा मरुतनामानमग्निं प्रतिष्ठाप्याऽन्वादध्यात् तदेवम् - समिदद्वयमादाय अद्येत्यादि० क्रियमाणे गर्भाधानहोमे देवतापरिग्रहार्थमित्यादिचक्षुषी आज्येनेत्यंतमुक्त्वा । अत्र प्रधानम् - अर्यमाग्निं वरुणाग्निं पूषाग्निं प्रजापतिं च लाजद्रव्येण प्रजापतिं तंडुलद्रव्येण विष्णुं षड्वारमाज्येन प्रजापतिं चाज्येन शेषेण स्विष्टकृतमित्यादि सद्यो यक्ष्ये इत्यंतमुक्त्वा समिदद्वयं ‘ प्रजापतये नमः प्रजापतय इदं न मम ’ इत्यग्नौ त्यजेत् । ततः परिसमूहनं परिस्तरणं पर्युक्षणं च कृत्वा पात्रासादनं कुर्यात् । तंडुलस्थालीप्रोक्षण्यौ दर्वीस्रुवौ प्रणीताऽऽज्यपात्रे इध्माबर्हिषी लाजशूर्पं चेति पात्राण्यासाद्य प्रोक्षणीपात्रसंस्कारादिसर्वमाज्यभागांतं कृत्वा लाजहोमं विवाहहोमोक्तमंत्रैरश्मारोहणपरिणयनवर्जं कृत्वा अवदानधर्मेण स्रुचि तंडुलानवदाय पत्न्यन्वारब्धः ‘ प्रजापतये नमः ’ इति हुत्वा ‘ प्रजापतय इदं० ’ इति त्यजेत् । ततः स्रुवेणाज्यं गृहीत्वा - विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् । अनेकरुपं दैत्यांतं नमामि पुरुषोत्तमम् । विष्णवे नमः विष्णव इदं० एवं षडाहुतीर्हुत्वा त्यक्त्वा च पुनः - प्रजापते त्वदृतेन धाता विश्वसृजां परः । यजामि येन कामेन त्वां तं मे देहि ते नमः । प्रजापतये नमः प्रजापतय इदं० । ततः पत्न्या मूर्धाभिशर्मनं ‘ अग्नये नमः ’ इति दक्षिणपाणिना कृत्वा । ओषध्यो जीवसंभूताः सफला निष्फलाश्च याः । सपुष्पा या अपुषाश्च ताः प्रमुंचंतु नोंऽहसः । इति मंत्रं जपित्वा आचारात्फलयुतपुष्पधारणं पत्नीशिरसि कार्यम् । ततः - अग्ने त्वं नः शिवस्राता वसुदाता सदा भव । नमस्ते यज्ञपुरुष हुतभुग्घव्यवाहन । इत्युपस्थाय सूक्ष्मवस्त्रेण दूर्वारसं भार्याया दक्षिणनासाप्लटे - गर्भोत्पत्तिस्थैर्यवृद्धिकरं दिव्यं सुखप्रदम् । दूर्वारसं ते सिंचामि सुभगे नासिकापुटे ॥ इति मंत्रेण यथोदरपर्यंतमायाति तथा सिंचेत् । ततस्तामाचमय्य विष्णवे नमः त्वष्ट्रे नमः प्रजापतये न० धात्रे० सिनीवाल्यै० सरस्वत्यै० अश्विभ्यां० पर्जन्याय नमः इति पठन् भार्यां स्पृशेत् । ततः सूर्योपस्थानं - नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाशहेतवे । त्रयीमयाय त्रिगुणात्मधारिणे विरिंचिनारायणशंकरात्मने ॥ इति मंत्रेणोपस्थाय सूर्यं नत्वा स्विष्टकृदादिहोमशेषं समाप्य अद्येत्यादि० मम पत्न्याः अखिलसौभाग्यपुत्रपौत्राद्यभिवृद्ध्यर्थं नानानामगोत्रेभ्योः ब्राह्मणेभ्यः सदक्षिणानि पंचफलदानानि करिष्ये इति संकल्प्य ब्राह्मणान्संपूज्य तेभ्यः अष्टौ पंचफलानि वा दद्यात् । ततो यथाचारं वस्त्रदाननीराजनतुलसीपूजनादि कृत्वा ब्राह्मणेभ्यो दक्षिणां दत्त्वाऽऽशिषो गृहीत्वा यस्य स्मृत्येत्यनेन कर्मेश्वरार्पणं कुर्यात् । ततो रात्रौ सुमुहूर्ते भार्यामुपगच्छेत् ॥ इति कृत्यदिवाकरे प्रथमांशौ गर्भाधानप्रयोगः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP