संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः| विद्यारम्भः प्रथमांशुः ग्रन्थोद्देशः गणपतिपूजनं पुण्याहवाचनं च मातृकापूजनम् नांदीश्राद्धम् अग्निमुखम् ग्रहयज्ञः भुवनेश्वरीशांतिः गर्भाधानम् पुंसवनप्रयोगः सीमंतोन्नयनप्रयोगः वस्त्रदानं जातकर्म षष्ठीपूजनम् नामकरणम् आंदोलारोहणम् कर्णवेधः तांबूलभक्षणम् निष्क्रमणम् भूम्युपवेशनम् अन्नप्राशनम् बालस्य दृष्टिदोषादौ रक्षाविधिः वर्धापनम् चौलम् विद्यारम्भः छूरिकाबंधः मौजीबंधनकारिकाः मौंजीबंधनप्रयोगः मौंजीबंधनांगभूतः सायंहोमः मेधाजननम् देवकोत्थापनम् मौंजीविसर्जनम् स्नातकधर्माः दत्तपुत्रप्रतिग्रहविधिः विवाहविधिः सप्रयोगः मुहूर्तमेथिकास्थापनं देवकस्थापनम् वरस्य वधूगृहगमनम् वरस्य सीमांतपूजनम् घटिकास्थापनम् गौरीहरपूजा मधुपर्कः मुहूर्तपत्रिकापूजनादि अक्षतारोपणम् कन्यादानम् विवाहहोमः ऐरिणीदानम् वधूवस्त्रदानम् वधूगृहप्रवेशः नाम - लक्ष्मी - पूजनम् आशीर्वादमंत्राः देवकोत्थापनम् अथ द्विरागमनम् अर्कविवाहः अथ श्रीशांतिः प्रथमांशुः - विद्यारम्भः ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : poojaपूजासंस्कृत विद्यारम्भः Translation - भाषांतर विद्यारंभकालनिर्णयः सिंध्वादौ द्रष्टव्यः । अक्षरस्वीकृतिं कुर्यात्प्राप्ते पंचमहायने । उत्तरायणगे सूर्ये कुंभमासं विवर्जयेत् - इति ॥ अथ प्रयोगः देशकालौ स्मृत्वा । अस्य कुमारस्य सकलविद्याविशारदत्वसिद्ध्यर्थं अक्षरारंभणं करिष्ये । तत्रादौ निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं पंचवाक्यैः पुण्याहवाचनं च करिष्ये इति संकल्प्य गणपतिं संपूज्य पुण्याहं वाचयित्वा शुचौ देशे गोमयेनोपलिप्ते रंगवल्ल्यादिरंजिते वालुकास्थंडिलं कृत्वा यथाचारं रजतादिफलके दृवत्फलके वा कुंकुमादिकं प्रसार्य तत्र प्रतिमासु पूगीफलादौ वा अक्षतपुंजेषु वा देवता आवाहयेत् । विघ्नेशाय नमः विघ्नेशमावाहयामि लक्ष्मीनारायणाभ्यां० लक्ष्मीनारायणौ आवा० कुलदेवतायै० कुलदेवतां० सरस्वत्यै० सरस्वतीमावाहया० इत्यावाह्य ध्यायेत् या कुंदेन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदंडमंडितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा वंदिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ शुक्लां ब्रह्मविचारसारपरमामाद्यां जगव्द्यापिनीं वीणापुस्तकधारिणीभयदां जाड्यांधकारापहां । हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां वंदे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ भुवनमातः सर्ववाड्मयरुपेणेहागच्छागच्छ सरस्वत्यै नमः ध्यायामि । विघ्नेशाद्यावाहितदेवताभ्यो नमः आवाहयामि इति षोडशोपचारैः संपूज्य गुडौदनं नैवेद्यं दत्वा । ततो गुरुं धात्रीं यथाशक्तिवस्त्रालंकारादिभिः पूजयित्वा सर्वान्नत्वा त्रिः प्रदक्षिणीकृत्य नमस्कारपूर्वकमक्षरारंभं कुर्यात् । ततो गुरुं नत्वा देवतानां विसर्जनं कृत्वा अन्यान् ब्राह्मणान् संपूज्य दक्षिणां दत्त्वाऽऽशिषो गृह्णीयात् विद्यावृद्धिर्भवति ॥ ॥ इति कृत्यदिवाकरे विद्यारंभणप्रयोगः ॥ ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP