संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः| मौंजीविसर्जनम् प्रथमांशुः ग्रन्थोद्देशः गणपतिपूजनं पुण्याहवाचनं च मातृकापूजनम् नांदीश्राद्धम् अग्निमुखम् ग्रहयज्ञः भुवनेश्वरीशांतिः गर्भाधानम् पुंसवनप्रयोगः सीमंतोन्नयनप्रयोगः वस्त्रदानं जातकर्म षष्ठीपूजनम् नामकरणम् आंदोलारोहणम् कर्णवेधः तांबूलभक्षणम् निष्क्रमणम् भूम्युपवेशनम् अन्नप्राशनम् बालस्य दृष्टिदोषादौ रक्षाविधिः वर्धापनम् चौलम् विद्यारम्भः छूरिकाबंधः मौजीबंधनकारिकाः मौंजीबंधनप्रयोगः मौंजीबंधनांगभूतः सायंहोमः मेधाजननम् देवकोत्थापनम् मौंजीविसर्जनम् स्नातकधर्माः दत्तपुत्रप्रतिग्रहविधिः विवाहविधिः सप्रयोगः मुहूर्तमेथिकास्थापनं देवकस्थापनम् वरस्य वधूगृहगमनम् वरस्य सीमांतपूजनम् घटिकास्थापनम् गौरीहरपूजा मधुपर्कः मुहूर्तपत्रिकापूजनादि अक्षतारोपणम् कन्यादानम् विवाहहोमः ऐरिणीदानम् वधूवस्त्रदानम् वधूगृहप्रवेशः नाम - लक्ष्मी - पूजनम् आशीर्वादमंत्राः देवकोत्थापनम् अथ द्विरागमनम् अर्कविवाहः अथ श्रीशांतिः प्रथमांशुः - मौंजीविसर्जनम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : poojaपूजासंस्कृत मौंजीविसर्जनम् [ समावर्तनम् ] Translation - भाषांतर कुमारः कृताभ्यंगः सुस्नातः आचम्य देशकालसंकीर्तनांते मम गृहस्थाश्रमप्राप्तिद्वारा श्रीपरमेश्वरप्रीत्यर्थं मौंजीविसर्जनं करिष्ये । तदंगतयादौ गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं च करिष्ये । इति संकल्प्य तानि कृत्वा देशकालौ स्मृत्वा मौंजीबंधविसर्जनहोमं कर्तुं स्थंडिलादि करिष्ये इति संकल्प्य स्थंडिलोपलेपनादि बलवर्धननामाग्निं प्रतिष्ठाप्यान्वादध्यात् । समिदद्वयं गृहीत्वा देशकालौ संकीर्त्य क्रियमाणे मौंजीविसर्जनांगहोमे देवतापरिग्रहार्थमित्यादि आघारावाज्येनेत्यंतेऽत्रप्रधानं - विष्णुं लक्ष्मीं सरस्वतीं स्वविद्यासूत्रकारान् स्वविद्यां चैकैकयाज्याहुत्या यक्ष्ये शेषेण स्विष्टकृतमित्यादिपूर्णपात्रनिधानांतं कृत्वा उदगग्रर्दर्भेषु व्रीहियवमाषतिलैः पृथक् पृथक्पूर्णपात्रचतुष्ट्यं प्राक् संस्थं निधाय प्रक्षालितं क्षुरं च स्थापयित्वा आज्यसंस्कारादिचौलवत् श्मश्रुछेदनांतं कृत्वा करंजबीजपिष्टेन स्वशरीरमुद्वर्त्य शीतोष्णाभिरद्भिः स्नात्वा ‘ नवे वस्त्रे धृत्वा ’ चक्षुषी नमः इति कज्जलेनांक्त्वा ‘ श्रोत्राभ्यां नमः ’ इति कुंडले धृत्वा कपोलौ कुंकुमकज्जलाभ्यां प्रलिंपेत् । ‘ शिरसे नमः ’ इति स्रजं बध्वा ‘ देवेभ्यो नमः ’ इति सोपानत्कपादः स्थित्वा ‘ दिवे नमः ’ इति छत्रं धृत्वा ‘ वैणवदंडाय नमः समंततो मां रक्ष ’ इति वैणवं दंडं गृहीत्वा - हैरण्यं मणिमायुष्यं यशस्यं कंठभूषणम् । तेजस्करमनर्घ्यं च कंठे संधारयाम्यहम् ॥ इति मंत्रेण कंठे मणिं बद्ध्वा उपानहौ संत्यज्य समिधं गृहीत्वा तिष्ठन् - भो जातवेदस्तव चेदमिध्ममात्माप्रदीप्तो भव वर्धमानः । अस्मान्प्रजाभिः पशुभिः समृद्धान् कुरु त्वमग्ने धनधान्ययुक्तान् ॥ इति मंत्रेण समिधं हुत्वा अग्नय इदं न ममेति त्यजेत् । ततो विश्वेभ्यो देवेभ्यो नम इति दश समिधो हुत्वा विश्वेभ्यो देवेभ्य इदं न ममेति त्यक्त्वा स्विष्टकृदादिहोमशेषं समाप्य ब्राह्मणेभ्यो दक्षिणां दत्त्वाऽऽशिषो गृहित्वा सुह्रद्युतो भुंजीत । धृतमौंजीं विसृजेत् । अत्र काशियात्रागमनाचारोऽस्ति यथाचारमाचरेत् ॥ ॥ इति महादेवात्मजदिवाकरकृते कृत्यदिवाकरे प्रथमांशौ समावर्तनांतो मौंजीप्रयोगः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP