संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः| नाम - लक्ष्मी - पूजनम् प्रथमांशुः ग्रन्थोद्देशः गणपतिपूजनं पुण्याहवाचनं च मातृकापूजनम् नांदीश्राद्धम् अग्निमुखम् ग्रहयज्ञः भुवनेश्वरीशांतिः गर्भाधानम् पुंसवनप्रयोगः सीमंतोन्नयनप्रयोगः वस्त्रदानं जातकर्म षष्ठीपूजनम् नामकरणम् आंदोलारोहणम् कर्णवेधः तांबूलभक्षणम् निष्क्रमणम् भूम्युपवेशनम् अन्नप्राशनम् बालस्य दृष्टिदोषादौ रक्षाविधिः वर्धापनम् चौलम् विद्यारम्भः छूरिकाबंधः मौजीबंधनकारिकाः मौंजीबंधनप्रयोगः मौंजीबंधनांगभूतः सायंहोमः मेधाजननम् देवकोत्थापनम् मौंजीविसर्जनम् स्नातकधर्माः दत्तपुत्रप्रतिग्रहविधिः विवाहविधिः सप्रयोगः मुहूर्तमेथिकास्थापनं देवकस्थापनम् वरस्य वधूगृहगमनम् वरस्य सीमांतपूजनम् घटिकास्थापनम् गौरीहरपूजा मधुपर्कः मुहूर्तपत्रिकापूजनादि अक्षतारोपणम् कन्यादानम् विवाहहोमः ऐरिणीदानम् वधूवस्त्रदानम् वधूगृहप्रवेशः नाम - लक्ष्मी - पूजनम् आशीर्वादमंत्राः देवकोत्थापनम् अथ द्विरागमनम् अर्कविवाहः अथ श्रीशांतिः प्रथमांशुः - नाम - लक्ष्मी - पूजनम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : poojaपूजासंस्कृत नाम - लक्ष्मी - पूजनम् Translation - भाषांतर वरः सपत्नीकः शुभासने उपविश्य आचम्य देशकालौ स्मृत्वा अनया नवोढया वध्वा सह कृतगृहप्रवेशांगभूतं गणेशपूजनपूर्वकं पुण्याहवाचनं महालक्ष्मीपूजनं च करिष्ये इति संकल्प्य गणपतिं संपूज्य पुण्याहवाचनं कुर्यात् । तत्र मह्यं सहकुटुंबिनेति वाक्येषु ‘ अनया नवोढया वध्वा सह कृतगृहप्रवेशाख्यस्य कर्मणः पुण्याहं भवंतो ब्रुवंतु ’ इत्यूहः कार्यः । ततः पुण्याहवाचनं समाप्य नामलक्ष्मीपूजनं कुर्यात् । तच्चेत्थम् - रौप्यादिपात्रे सिततंडुलान्प्रसार्य तत्र स्वर्णशलाकया पत्न्याः स्वेष्टंस्वजनेष्टं वा नाम लिखेत् । तत्रायं प्रकारः - ‘ श्रीगणेशाय नमः ’ इत्युपक्रम्य ‘ श्रीसरस्वत्यै नमः श्रीकुलदेवतायै नमः अस्याः मम भार्यायाः कुलदेवतानाम अमुकदेवताभक्ता व्यावहारिकं नाम अमुका ’ इति लिखित्वा ‘ सुप्रतिष्ठितमस्तु ’ इति प्रतिष्ठाप्य ‘ नामाधिष्ठात्र्यै महालक्ष्म्यै नमः ध्यायामि ’ इति षोडशोपचारैः संपूज्य लेखनक्रमेण नामानि वाचयित्वा भार्यादक्षिणकर्णे उपदिशेत् । तद्यथा - ‘ भो ब्राह्मणाः नामास्या विदधाम्यहम् ’ इति द्विजान् संप्रार्थ्य तैरनुज्ञातः ‘ श्रीगणेशाय नमः ’ इत्युपक्रम्य ‘ श्रीसरस्वत्यै न० श्रीकुलदे० ’ कुलदेवतानाम्ना त्वं अमुकभक्तासि व्यावहारिकेण नाम्ना त्वं अमुकासि इत्युक्त्वा तस्या ललाटे ‘ अष्टपुत्री पंचकन्यासुप्रतिष्ठिता भव ’ इति कुंकुमाक्षतान् लापयेत् । ततो वरः ‘ अमुककुलदेवताभक्तेयं भवतो ब्राह्मणान् अभिवादयते ’ द्विजाः - ‘ सौभाग्यवत्यष्टपुत्री पंचकन्या भवत्वमुकदेवता भक्ता ’ इति ब्रूयुः । ततो वरः ‘ व्यावहारिकेण नाम्ना अमुकेयं भवतो ब्राह्मणान् अभिवादयते । द्विजाः - ‘ सौभाग्यवती अष्टपुत्री पंचकन्या भवत्वमुकनाम्नी ’ इति । ततः कर्मणः सांगतासिद्ध्यर्थं ब्राह्मणान् संपूज्य दक्षिणां दत्त्वा आशिषो गृहीत्वा कर्मेश्वरार्पणं कुर्यात् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP