संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
अर्कविवाहः

प्रथमांशुः - अर्कविवाहः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


कश्यपः - उद्वहेद्भूतिसिद्ध्यर्थं तृतीयां न कदाचन । मोहादज्ञानतो वापि यदि गच्छेत्तु मानुषीम् ॥ तृतीयां यदि चोद्वाहेत्तर्हि सा विधवा भवेत् । चतुर्थादिविवाहार्थं तृतीयेऽर्कं समुद्वहेत् ॥
तत्प्रयोगः - वरः शुभे दिने ग्रामाद्बहिः प्राच्यामुदीच्यां वार्कसमीपं गत्वा आचम्य देशकालौ संकीर्त्य मम भावि तृतीयमानुषीपरिणयनस्य शुभतासिद्ध्यर्थं अर्कविवाहं करिष्ये तदंगतयाऽऽदौ गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नांदीश्राद्धं आचार्यवरणं च करिष्ये इति संकल्प्य तान्याचार्यवरणांतानि कुर्यात् । ततो वरोऽर्कपुरतस्तिष्ठन् सूर्यं प्रार्थयेत् - त्रिलोकवासिन् सप्ताश्व च्छायया सहितो रवे । तृतीयोद्वाहजं दोषं निवारय सुखं कुरु ॥ ततोऽर्कवृक्षे छायासहितं सूर्यं - एकचक्ररथो यस्य दिव्यः कनकभूषणः । स मे भवतु सुप्रीतः पद्महस्तो दिवाकरः ॥ इति मंत्रेण अर्कवृक्षे ‘ सच्छायं सूर्यं सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि ’ इत्येवं मंत्रेण षोडशोपचारैः संपूजयेत् । तत्र वस्त्रदानकाले वस्त्रेण तंतुभिश्च अर्कं संवेष्टयेत् । तत आचार्योऽद्येत्यादि संकल्प्य अर्कविवाहांगत्वेन वरं मधुपर्केण पूजयिष्ये इति संकल्प्य वरं मधुपर्केण गंधमाल्यवस्त्रभूषणोष्णीषाद्यैः पूजयेत् । ततो वरोऽर्कं प्रदक्षिणीकुर्वन् - मम प्रीतिकरा येयं मया स्पृष्टा पुरातनी । अर्कजा ब्रह्मणा सृष्टा ह्यस्माकं प्रतिरक्षतु - इति जपेत् ॥ पुनः प्रदक्षिणां कुर्वन् - नमस्ते मंगले देवि नमः सवितुरात्मजे । त्राहि मां कृपया देवि पत्नी त्वं मे इहागता ॥ अर्क त्वं ब्रह्मणा सृष्टः सर्वप्राणिहिताय च । वृक्षाणामादिभूतस्त्वं देवानां प्रीतिवर्धनः । तृतीयोद्वाहजं दोषं मृत्युं चापि विनाशय - इति जपेत् ॥ ततः ‘ कन्यां ’ प्रयच्छ इत्याचार्यं प्रार्थयेत् । तत आचार्यः - काश्यपगोत्रोत्पन्नां आदित्यप्रपौत्रीं सवितुः पौत्रीं सूर्यस्य पुत्रीं अर्कनाम्नीं कन्यां अमुकगोत्रोत्पन्नाय अमुकप्रपौत्राय अमुकपौत्राय अमुकपुत्राय अमुकनाम्ने वराय दास्ये । इति वाग्दानं कुर्यात् ॥ ततो वरोंऽतःपटधारणपूर्वकं अर्ककन्यां सुमुहूर्ते निरीक्ष्य - करोतु स्वस्ति ते ब्रह्मेत्यादि मंत्रान् पठेत् । तत आचार्यो वाग्दानवद्गोत्रमुच्चार्य अमुकनाम्ने वराय इमामर्ककन्यां तुभ्यमहं संप्रददे न मम इति वरहस्ते जलं दद्यात् । अर्ककन्यामिमां वर्मन् यथाशक्ति विभूषिताम् । गोत्राय वर्मणे तुभ्यं दत्तां वर्मन् समाश्रय - इति मंत्रं पठेत् ॥ तत आचार्यो वरस्य सूत्रेण कंकणबंधन कृत्वा अर्ककन्याप्रतिनिधित्वेनाक्षतारोपणं विवाहमंत्रैः कुर्यात् । वरोपि अर्के तदुक्तमंत्रैः कुर्यात् । ततो वरो ‘ नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिः स्थितिनाशहेतवे । त्रयीमयाय त्रिगुणात्मधारिणे विरिंचिनारायणशंकरात्मने ’ इति मंत्रेणार्कं सूत्रेण पंचवारं संवेष्ट्य तेन सूत्रेणार्कस्य स्कंधे बध्नीयात् । तत्र मंत्रः - येन बद्धो बलीराजा दानवेंद्रो महाबलः । तेन त्वामपि बध्नामि रक्षे मा चल मा चल इति ॥ ततो वर आचार्यो वाऽर्कस्याष्टदिक्षु अष्टौ कलशान् संस्थाप्य कलशकंठान् वस्त्रेण सूत्रेण वा संवेष्ट्य हरिद्रां निक्षिप्य सर्वेषु विष्णुं संपूज्य पूर्वकलशे विष्णुप्रतिमां संस्थाप्य पूजयित्वा अर्कोत्तरतोऽग्निं बलवर्धननामानं प्रतिष्ठाप्यान्वादध्यात् । देशकालौ स्मृत्वा समिदद्वयमादाय क्रियमाणे अर्कविवाहहोमे देवतापरिग्रहार्थमित्यादिआघारदेवते अज्येनेत्यंतमुक्त्वाऽत्रप्रधानं - बृहस्पतिं, अग्निं अग्निं वायुं सूर्यं प्रजापतिं चाज्येन यक्ष्ये । शेषेण स्विष्टकृतमित्याद्याज्यभागांतं कृत्वा प्रधानहोमं कुर्यात् । देवानां च ऋषीणां च गुरुं कांचनसंनिभम् । बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥ बृहस्पतये नमः बृहस्पतय इदं० ॥ अग्ने त्वं नः शिवस्राता वसुदाता सदा भव । नमस्ते यज्ञपुरुष हुतभुग्घव्यवाहन ॥ अग्नये नमः अग्नय इदं० ॥ पुनः अग्नये न० अग्नय इ० वायवे० वायव इ० सूर्याय० सूर्यायेदं० प्रजापतये० प्रजापतय इ० । ततः - समधिकमपि हीनं जातमस्मिन्क्रतौ यद्भवतु सुकृतमग्ने तद्धि सर्वं सुपूर्णम् । प्रचुरदयितदात्रे स्विष्टकृत्तो जुहोमीदमथ सकलकामान् वर्धय त्वं सदा मेति मंत्रेण स्विष्टकृतं हुत्वा इध्मसन्नहनं हुत्वा प्रायश्चित्तादि कर्मशेषं समापयेत् । ततो वरः - मम प्रीतिकरा येयमिति पूर्वोक्तमंत्रेणार्कं त्रिः प्रदक्षिणीकृत्य - मया कृतमिदं कर्म स्थावरेषु जरायुणा । अर्कापत्यानि नो देहि तत्सर्वं क्षंतुमर्हसि । इति प्रार्थयेत् ॥ ततोऽर्कस्थसूर्यं विसृज्य आचार्याय गोयुग्मं दत्त्वाऽयथाशक्ति भूयसीं दक्षिणां दत्त्वा विष्णुप्रतिमामांचांर्याय दत्त्वा पुण्याहवाचनं विधिवत्कृत्वा मंत्रैः पाठयित्वा वा पुनरर्के सूर्यं संपूज्य विसृज्य मानुषीं परिणयेत् ॥ ॥ ॥ ॥ इति माणग्रामनिवासिविद्वद्वर्यमहादेवात्मजदिवाकरकृते कृत्यदिवाकरे प्रथमांशौ अर्कविवाहप्रयोगः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP