संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
अक्षतारोपणम्

प्रथमांशुः - अक्षतारोपणम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तत आचारात् ब्राह्मणैः करोतु स्वस्ति ते ब्रह्मेत्यादिपठितप्रतिमंत्रांते वधूपूर्वकमंजलिस्थपीताक्षतारोपणं कार्यम् ॥ ते च मंत्राः - करोतु स्वस्ति ते ब्रह्मा स्वस्ति वापि द्विजातयः । सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति सर्वदा ॥१॥

ययातिर्नहुषश्चैव धुंधुमारो भगीरथः । तुभ्यं राजर्षयः सर्वे स्वस्ति कुर्वंतु सर्वदा ॥२॥

स्वस्ति तेस्तु द्विपादेभ्यश्चतुष्पादेभ्य एव च । स्वस्त्यस्त्वपादकेभ्यश्च सर्वेभ्यः स्वस्ति सर्वदा ॥३॥

स्वाहा स्वाधा शची चैव स्वस्ति कुर्वंतु ते सदा । लक्ष्मीररुंधती चैव कुरुतां स्वस्ति तेऽनघ ॥४॥

असितो देवलश्चैव विश्वामित्रस्तथांगिराः । स्वस्ति तेऽद्य प्रयच्छंतु कार्तिकेयश्च षण्मुखः ॥५॥

विवस्वान्भगवान् स्वस्ति करोतु तव सर्वशः । दिग्गजाश्चैव चत्वारः क्षितिश्च गगनं ग्रहाः ॥६॥

अधस्ताद्धरणीं योऽसौ नागो धारयते सदा । शेषः स पन्नगश्रेष्ठः स्वस्ति तुभ्यं प्रयच्छतु ॥७॥

ततो वरं प्राड्मुखं वधूं च प्रत्यड्मुखीं कृत्त्वा कन्यादानं कुर्यात् ।

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP