संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
घटिकास्थापनम्

प्रथमांशुः - घटिकास्थापनम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


कन्यापिता देशकालौ संकीर्त्य अस्याः अमुकनाम्न्याः मम कन्यकायाः करिष्यमाणविवाहे इष्टकालसाधनार्थं घटिकास्थापनं करिष्ये तत्रादौ निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं वरुणपूजनं च करिष्ये इति संकल्प्य गणपतिं संपूज्य धान्यराशौ जलपूर्णं घटिकास्थापनार्थं विस्तृतमुखं ताम्रपात्रं मृन्मयपात्रं वा संस्थाप्य तत्र वरुणं संपूज्य तस्मिन् सूर्यमंडलस्यार्धोदयेऽर्धास्ते वा घटिकां क्षिपेत् । तत्र मंत्रः - तदेव लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव । विद्याबलं दैवबलं तदेव लक्ष्मीपते तेंऽघ्रियुगं स्मरामि ॥ यंत्राणां मुख्ययंत्रं त्वमिति धात्रा पुराकृतम् । सौभाग्याद्यायुरारोग्यसुपुत्रधनहेतवे ॥ जलयंत्रकमेतस्यादिष्टसिद्धिप्रदं भवेत् ॥ मुख्यं त्वमसि यंत्राणां ब्रह्मणा निर्मितं पुरा । भव भावाय दंपत्योः कालसाधनकारणम् ॥ इति प्रार्थ्य घटिकां स्थापयेत् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP