संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|प्रथमांशुः|
मौजीबंधनकारिकाः

प्रथमांशुः - मौजीबंधनकारिकाः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तत्र कलिधर्मानुशासने कारिकाः - अथातः संप्रवक्ष्यामि कलिधर्मानुसारतः । स्वर्णकारादिकानां च मौजीबंधविधिं द्विजाः ॥ कुमारं वापयित्वा तं सुमुहूर्ते निरीक्षयेत् । ततो वस्त्रावृतं कृत्वा यज्ञसूत्रस्य धारणम् ॥ अथ होमाहुतीर्देया आज्येनैव यथाक्रकम् । विष्णवे चैव लक्ष्म्यै च सरस्वत्यै तथैव च ॥ स्वविद्यासूत्रकारेभ्यः स्वविद्यार्यै सकृत्सकृत् । ततोऽवक्षारणं कुर्यात्फलद्रव्यादिसंयुतम् ॥ समिद्धोमं ततः कुर्यात्कुमारं क्षालयेत्करौ तिष्ठन्नग्निमुपस्थाय गच्छेदुत्तरतः सुतः ॥ स्वगुरोः संमुखीभूयोपविश्य प्रणमेच्च तम् । स्वविद्यां ब्रूहि मह्यं भो इति संप्रार्थयेद्गुरुम् ॥ गुरुस्तु तत आच्छाद्य पाणी बध्वा वदेन्मनुम् । मेखलाबंधनं कृत्वा दंडं दद्यात्स्वमानतः ॥ ततः स्वाचारमुक्त्वा तं होमशेषं समापयेत् । याचयेन्मातरं भिक्षां तां विप्राय समर्पयेत् ॥ ततः सायं मौंजीवच्च होमयेत् तंडुलाहुतीः । मौंजीव्रतसमाप्त्यर्थं कुर्यान्मेधार्चनं द्विजाः ॥ इति कलिधर्मानुशासने स्वर्णकारादिमौंजीविधिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP