संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ६०

श्रीवामनपुराण - अध्याय ६०

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


नारद उवाच

क्व गतः शङ्करो ह्यासीद येनाम्बा नन्दिना सह ।

अन्धकं योधयामास एतन्मे वक्तुमर्हसि ॥१॥

पुलस्त्य उवाच

यदा वर्षसहस्त्रं तु महामोहे स्थितोऽभवत् ।

तदाप्रभृति निस्तेजाः क्षीणवीर्यः प्रदृश्यते ॥२॥

स्वमात्मानं निरीक्ष्याथ निस्तेजोऽङ्गं महेश्वरः ।

तपोऽर्थाय तथा चक्रे मतिं मतिमतां वरः ॥३॥

स महाव्रतमुत्पाद्य समाश्वास्याम्बिकां विभुः ।

शैलादिं स्थाप्य गोप्तारं विचचार महीतलम् ॥४॥

महामुद्रार्पितग्रीवो महाहिकृतकुण्डलः ।

धारयाणः कटीदेशे महाशङ्खस्य मेखलाम् ॥५॥

कपालं दक्षिणे हस्ते सव्ये गृह्य कमण्डलुम् ।

एकाहवासी वृक्षे हि शैलसानुनदीष्वटन् ॥६॥

स्थानं त्रैलोक्यमास्थाय मूलाहारोऽम्बुभोजनः ।

वाय्वाहारस्तदा तस्थौ नववर्षशतं क्रमात् ॥७॥

ततो वीटां मुखे क्षिप्य निरुच्छ्वासोऽभवद् यतिः ।

विस्तृते हिमवत्पृष्ठे रम्ये समशिलातले ॥८॥

ततो वीटा विदार्यैव कपालं परमेष्ठिनः ।

सार्चिष्मती जटामध्यान्निषण्णा धरणीतले ॥९॥

वीटया तु पतन्त्याऽद्रिर्दारितः क्ष्मासमोऽभवत् ।

जातस्तीर्थवरः पुण्यः केदार इति विश्रुतः ॥१०॥

ततो हरो वरं प्रादात् केदाराय वृषध्वजः ।

पुण्यवृद्धिकरं ब्रह्मन् पापघ्नं मोक्षसाधनम् ॥११॥

ये जलं तावके तीर्थे पीत्वा संयमिनो नराः ।

मधुमांसनिवृत्ता ये ब्रह्मचारिव्रते स्थिताः ॥१२॥

षण्मासाद धारयिष्यन्ति निवृत्ताः परपाकतः ।

तेषां हत्पङ्कजेष्वेव मल्लिङ्गं भविता ध्रुवम् ॥१३॥

न चास्य पापाभिरतिर्भविष्यति कदाचन ।

पितृणामक्षयं श्राद्धं भविष्यति न संशयः ॥१४॥

स्त्रानदानतपांसीह होमजप्यादिकाः क्रियाः ।

भविष्यन्त्यक्षया नृणां मृतानामपुनर्भवः ॥१५॥

एतद वरं हरात् तीर्थं प्राप्य पुष्णति देवताः ।

पुनाति पुंसां केदारस्त्रिनेत्रवचनं यथा ॥१६॥

केदाराय वरं दत्त्वा जगाम त्वरितो हरः ।

स्त्रातुं भानुसुतां देवीं कालिन्दीं पापनाशिनीम् ॥१७॥

तत्र स्त्रात्वा शुचिर्भूत्वा जगामाथ सरस्वतीम् ।

वृतां तीर्थशतैः पुण्यैः प्लक्षजां पापनाशिनीम् ॥१८॥

अवतीर्णस्ततः स्त्रातुं निमग्नश्च महाम्भसि ।

द्रुपदां नाम गायत्रीं जजापान्तर्जले हरः ॥१९॥

निमग्ने शङ्क्तरे देव्यां सरस्वत्यां कलिप्रिय ।

साग्रः संवत्सरो जातो न चोन्मज्जत ईश्वरः ॥२०॥

एतस्मिन्नन्तरे ब्रह्मन् भुवनाः सप्त सार्णवाः ।

चेलुः पेतुर्धरण्यां च नक्षत्रास्तारकैः सह ॥२१॥

आसनेभ्यः प्रचलिता देवाः शक्रपुरोगमाः ।

स्वस्त्यस्तु लोकेभ्य इति जपन्तः परमर्षयः ॥२२॥

ततः क्षुब्धेषु लोकेषु देवा ब्रह्माणमागमन् ।

दृष्टोचुः किमिदं लोकाः क्षुब्धाः संशयमागताः ॥२३॥

तानाह पद्मसम्भूतो नैतद वेद्मि च कारणम् ।

तदागच्छत वो युक्तं द्रष्टुं चक्रगदाधरम् ॥२४॥

पितामहेनैवमुक्ता देवाः शक्रपुरोगमाः ।

पितामहं पुरस्कृत्य मुरारिसदनं गताः ॥२५॥

नारद उवाच

कोऽसौ मुरारिर्देवर्षे देवो यक्षो नु किन्नरः ।

दैत्यो राक्षसो वापि पार्थिवो वा तदुच्यताम् ॥२६॥

पुलस्त्य उवाच

योऽसौ रजः सत्त्वमयो गुणवांश्च तमोमयः ।

निर्गुणः सर्वगो व्यापी मुरारिर्मधुसूदनः ॥२७॥

नारद उवाच

योऽसौ मुर इति ख्यातः कस्य पुत्रः स गीयते ।

कथं च निहतः संख्ये विष्णुना तद वदस्व मे ॥२८॥

पुलस्त्य उवाच

श्रूयतां कथयिष्यामि मुरासुरनिबर्हणम् ।

विचित्रमिदमाख्यानं पुण्यं पापप्रणाशनम् ॥२९॥

कश्यपस्यौरसः पुत्रो मुरो नाम दनूद्भवः ।

स ददर्श रणे शस्तान् दितिपुत्रान् सुरोत्तमैः ॥३०॥

ततः स मरणाद भीतस्तप्त्वा वर्षगणान्बहून ।

आराधयामास विभुं ब्रह्माणमपराजितम् ॥३१॥

ततोऽस्य तुष्टो वरदः प्राह वत्स वरं वृणु ।

स च वव्रे वरं दैत्यो वरमेनं पितामहात् ॥३२॥

यं यं करतलेनाहं स्पृशेयं समरे विभो ।

स स मद्धस्तसंस्पृष्टस्त्वमरोऽपि मरत्वतः ॥३३॥

बाढमित्याह भगवान् ब्रह्मा लोकपितामहः ।

ततोऽभ्यागान्महातेजा मुरः सुरगिरिं बली ॥३४॥

समेत्याह्वयते देवं यक्षं किन्नरमेव वा ।

न कश्चिद युयुधे तेन समं दैत्येन नारद ॥३५॥

ततोऽमरावती क्रुद्धः स गत्वा शक्रमाह्वयत् ।

न चास्य सह योद्धुं वै मतिं चक्रे पुरंदरः ॥३६॥

ततः स करमुद्यम्य प्रविवेशामरावतीम् ।

प्रविशन्तं न तं कश्चिन्निवारयितुमुत्सहेत् ॥३७॥

स गत्वा शक्रसदनं प्रोवाचेन्द्रं मुरस्तदा ।

देहि युद्धं सहस्त्राक्ष नो चेत स्वर्गं परित्यज ॥३८॥

इत्येवमुक्तो मुरुणा ब्रह्मन् हरिहयस्तदा ।

स्वर्गराज्यं परित्यज्य भूचरः समजायत ॥३९॥

ततो गजेन्द्रकुलिशौ हतौ शक्रस्य शत्रुणा ।

सकलत्रो महातेजाः सह देवैः सुतेन च ॥४०॥

कालिन्द्या दक्षिणे कूले निवेश्य स्वपुरं स्थितः ।

मुरुश्चापि महाभोगान् बुभुजे स्वर्गसंस्थितः ॥४१॥

दानवाश्चापरे रौद्रा मयतारपुरोगमाः ।

मुरमासाद्य मोदन्ते स्वर्गे सुकृतिनो यथा ॥४२॥

स कदाचिन्महीपृष्ठं समायातो महासुरः ।

एकाकी कुञ्जरारुढः सरयूं निम्नगां प्रति ॥४३॥

स सरय्वास्तटे वीरं राजानं सूर्यवंशजम् ।

ददृशे रघुनामानं दीक्षितं यज्ञकर्मणि ॥४४॥

तमुपेत्याब्रवीद दैत्यो युद्धं मे दीयतामिति ।

नो चेन्निवर्ततां यज्ञो नेष्टव्या देवतास्त्वया ॥४५॥

तमुपेत्य महातेजा मित्रावरुणसंभवः ।

प्रोवाच बुद्धिमान् ब्रह्मन् वसिष्थस्तपतां वरः ॥४६॥

किं ते जितैर्नरैर्दैत्य अजिताननुशासय ।

प्रहर्तुमिच्छसि यदि तं निवारय चान्तकम् ॥४७॥

स बली शासनं तुभ्यं न करोति महासुर ।

तस्मिञ्जिते हि विजितं सर्वं मन्यस्व भूतलम् ॥४८॥

स तद वसिष्ठवचनं निशम्य दनुपुङ्गवः ।

जगाम धर्मराजानं विजेतुं दण्डपाणिनम् ॥४९॥

तमायान्तं यमः श्रुत्वा मत्वाऽवध्यं च संयुगे ।

स समारुह्य महिषं केशवान्तिकमागमत् ॥५०॥

समेत्य चाभिवाद्यैनं प्रोवाच मुरचेष्टितम् ।

स चाह गच्छ मामद्य प्रेषयस्व महासुरम् ॥५१॥

स वासुदेववचनं श्रुत्वाऽभ्यागात त्वरान्वितः ।

एतस्मिन्नन्तरे दैत्यः सम्प्राप्तो नगरीं मुरः ॥५२॥

तमागतं यमः प्राह किं मुरो कर्त्तुमिच्छसि ।

वदस्व वचनं कर्त्ता त्वदीयं दानवेश्वर ॥५३॥

मुरुरुवाच

यम प्रजासंयमनान्निवृत्तिं कर्त्तुमर्हसि ।

नो चेत् तवाद्य छित्त्वाऽहं मूर्धानं पातये भुवि ॥५४॥

तमाह धर्मराङ ब्रह्मन् यदि मां संयमाद भवान् ।

गोपायति मुरो सत्यं करिष्ये वचनं तव ॥५५॥

मुरस्तमाह भवतः कः संयन्ता वदस्व माम् ।

अहमेनं पराजित्य वारयामि न संशयः ॥५६॥

यमस्तं प्राह मां विष्णुर्देवश्चक्रगदाधरः ॥५७॥

तमाह दैत्यशार्दूलः क्वासौ वसति दुर्जयः ।

स्वयं तत्र गमिष्यामि तस्य संयमनोद्यतः ॥५८॥

तमुवाच यमो गच्छ क्षीरोदं नाम सागरम् ।

तत्रास्ते भगवान् विष्णुर्लोकनाथो जगन्मयः ॥५९॥

मुरस्तद्वाक्यमाकर्ण्य प्राह गच्छामि केशवम् ।

किं तु त्वया न तावद्धि संयम्या धर्म मानवाः ॥६०॥

स प्राह गच्छ त्वं तावत् प्रवर्तिष्ये जयं प्रति ।

संयन्तुर्वा यथा स्याद्धि ततो युद्धं समाचर ॥६१॥

इत्येवमुक्त्वा वचनं दुग्धाब्धिमगमन्मुरः ।

यत्रास्ते शेषपर्यङ्के चतुर्मूर्तिर्जनार्दनः ॥६२॥

नारद उवाच

चतुर्मूर्तिः कथं विष्णुरेक एव निगद्यते ।

सर्वगत्वात् कथमपि अव्यक्तत्वाच्च तद्वद ॥६३॥

पुलस्त्य उवाच

अव्यक्तः सर्वगोऽपीह एक एव महामुने ।

चतुर्मूर्तिर्जगन्नाथो यथा ब्रह्मंस्तथा श्रृणु ॥६४॥

अप्रतर्क्यमनिर्देश्यं शुक्लं शान्तं परं पदम् ।

वासुदेवाख्यमव्यक्तं स्मृतं द्वादशपत्रकम् ॥६५॥

नारद उवाच

कथं शुक्लं कथं शान्तमप्रतर्क्यमनिन्दितम् ।

श्रुतं सनत्कुमारेण तेनाख्यातं च तन्मम ॥६७॥

नारद उवाच

कोऽयं सनत्कुमारेति यस्योक्तं ब्रह्मणा स्वयम् ।

तवापि तेन गदितं वद मामनुपूर्वशः ॥६८॥

पुलस्त्य उवाच

धर्मस्य भार्याहिंसाख्या तस्यां पुत्रचतुष्टयम् ।

संजातं मुनिशार्दूल योगशास्त्रविचारकम् ॥६९॥

ज्येष्ठः सनत्कुमारोऽभूद द्वितीयश्च सनातनः ।

तृतीयः सनको नाम चतुर्थश्च सनन्दनः ॥७०॥

सांख्यवेत्तारमपरं कपिलं वोढुमासुरिम् ।

दृष्ट्वा पञ्चशिखं श्रेष्ठं योगयुक्तं तपोनिधिम् ॥७१॥

ज्ञानयोगं न ते दद्युर्ज्यायांसोऽपि कनीयसाम् ।

मानमुक्तं महायोगं कपिलादीनुपासतः ॥७२॥

सनत्कुमारश्चाभ्येत्य ब्रह्माणं कमलोद्भवम् ।

अपृच्छद योगविज्ञानं तमुवाच प्रजापतिः ॥७३॥

ब्रह्मोवाच

कथयिष्यामि ते साध्य यदि पुत्रत्वमिच्छसि ।

यस्य कस्य न वक्तव्यं तत्सत्यं नान्यथेति हि ॥७४॥

सनत्कुमार उवाच

पुत्र एवास्मि देवेश यतः शिष्योऽस्म्यहं विभो ।

न विशेषोऽस्ति पुत्रस्य शिष्यस्य च पितामह ॥७५॥

ब्रह्मोवाच

विशेषः शिष्यपुत्राभ्यां विद्यते धर्मनन्दन ।

धर्मकर्मसमायोगे तथापि गदतः श्रृणु ॥७६॥

पुन्नाम्नो नरकात् त्राति पुत्रस्तेनेह गीयते ।

शेषपापहरः शिष्य इतीयं वैदिकी श्रुतिः ॥७७॥

सनत्कुमार उवाच

कोऽयं पुन्नामको देव नरकात् त्राति पुत्रकः ।

कस्माच्छेषं ततः पापं हरेच्छिष्यश्च तद्वद ॥७८॥

ब्रह्मोवाच

एतत् पुराणं परमं महर्षे योगाङ्गयुक्तं च सदैव यच्च ।

तथैव चोग्रं भयहारि मानवं वदामि ते साध्य निशामयैनम् ॥७९॥

N/A

References : N/A
Last Updated : January 24, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP