TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीवामनपुराण|
अध्याय ५६

श्रीवामनपुराण - अध्याय ५६

श्रीवामनपुराणकी कथायें नारदजीने व्यासको, व्यासने अपने शिष्य लोमहर्षण सूतको और सूतजीने नैमिषारण्यमें शौनक आदि मुनियोंको सुनायी थी ।


अध्याय ५६

पुलस्त्य उवाच

चण्डमुण्डौ च निहतौ दृष्ट्वा सैन्यं च विद्रुतम् ।

समादिदेशातिबलं रक्तबीजं महासुरम् ।

अक्षौहिणीनां त्रिंशद्भिः कोटिभिः परिवारितम् ॥१॥

तमापतन्तं दैत्यानां बलं दृष्ट्वैव चण्डिका ।

मुमोच सिंहनादं वै ताभ्यां सह महेश्वरी ॥२॥

निनदन्त्यास्ततो देव्या ब्रह्माणी मुखतोऽभवत् ।

हंसयुक्तविमानस्था साक्षसूत्रकमण्डलुः ॥३॥

माहेश्वरी त्रिनेत्रा च वृषारुढा त्रिशूलिनी ।

महाहिवलया रौद्रा जाता कुण्डलिनी क्षणान् ॥४॥

कण्ठादथ च कौमारी बर्हिपत्रा च शक्तिनी ।

समुद्भूता च देवर्षे मयूरवरवाहना ॥५॥

बाहुभ्यां गरुडारुढा शङ्खचक्रगदासिनी ।

शार्ङ्गबाणधरा जाता वैष्णवी रुपशालिनी ॥६॥

महोग्रमुशला रौद्रा दंष्ट्रोल्लिखितभूतला ।

वाराही पृष्ठतो जाता शेषनागोपरि स्थिता ॥७॥

वज्राङ्कुशोद्यतकरा नानालङ्कारभूषिता ।

जाता गजेन्द्रपृष्ठस्था माहेन्द्री स्तनमण्डलात् ॥८॥

विक्षिपन्ती सटाक्षेपैर्ग्रहनक्षत्रतारकाः ।

नखिनी हदयाज्जाता नारसिंही सुदारुणा ॥९॥

ताभिर्निपात्यमानं तु निरीक्ष्य बलमासुरम् ।

ननाद भूयो नादान् वै चण्डिका निर्भया रिपून् ।

तन्निनादं महच्छुत्वा त्रैलोक्यप्रतिपूरकम् ॥१०॥

समाजगाम देवेशः शूलपाणिस्त्रिलोचनः ।

अभ्येत्य वन्द्य चैवैनां प्राह वाक्यं तदाऽम्बिके ॥११॥

समायातोऽस्मि वै दुर्गे देह्याज्ञां किं करोमि ते ।

तद्वाक्यसमकालं च देव्या देहोद्भवा शिवा ॥१२॥

जाता सा चाह देवेशं गच्छ दौत्येन शंकर ।

ब्रूहि शुम्भं निशुम्भं च यदि जीवितुमिच्छथ ॥१३॥

तद गच्छध्वं दुराचाराः सप्तमं हि रसातलम् ।

वासवो लभतां स्वर्गं देवाः सन्तु गतव्यथाः ॥१४॥

यजन्तु ब्राह्मणाद्यामी वर्णा यज्ञांश्च साम्प्रतम् ।

नोचेद बलावलेपेन भवन्तो योद्धुमिच्छथ ॥१५॥

तदागच्छध्वमव्यग्ना एषाऽहं विनिषूदये ।

यतस्तु सा शिवं दौत्ये न्ययोजयत नारद ॥१६॥

ततो नाम महादेव्याः शिवदूतीत्यजायत ।

ते चापि शंकरवचः श्रुत्वा गर्वसमन्वितम् ।

हुंकृत्वाऽभ्यद्रवन् सर्वै यत्र कात्यायनी स्थिता ॥१७॥

ततः शरैः शक्तिभिरङ्कुशैर्वरैः परश्वधैः शूलभुशुण्डिपट्टिशैः ।

प्रासैः सुतीक्ष्णैः परिघैश्च विस्तृतैर्ववर्षतुर्दैत्यवरौ सुरेश्वरीम् ॥१८॥

सा चापि बाणैर्वरकार्मुकच्युतैश्चिच्छेद शस्त्राण्यथ बाहुभिः सह ।

जघान चान्यान् रणचण्डविक्रमा महासुरान् बाणशतैर्महेश्वरी ॥१९॥

मारी त्रिशूलेन जघान चान्यान् खटवाङ्गपातैरपरांश्च कौशिकी ।

महाजलक्षेपहतप्रभावान् ब्राह्मी तथान्यानसुरांश्चकार ॥२०॥

माहेश्वरी शूलविदारितोरसश्चकार दग्धानपरांश्च वैष्णवी ।

शक्त्या कुमारी कुलिशेन चैन्द्री तुण्डेन चक्रेण वराहरुपिणी ॥२१॥

नखैर्विभिन्नानपि नारसिंही अट्टाट्टहासैरपि रुद्रदूती ।

रुद्रस्त्रिशूलेन तथैव चान्यान् विनायकश्चापि परश्वधेन ॥२२॥

एवं हि देव्या विविधैस्तु रुपैर्निपात्यमाना दनुपुङ्गवास्ते ।

पेतुः पृथिव्यां भुवि चापि भूर्तेस्ते भक्ष्यमाणाः प्रलयं प्रजग्मुः ॥२३॥

ते वध्यमानास्त्वथ देवताभिर्महासुरा मातृभिराकुलाश्च ।

विमुक्तकेशास्तरलेक्षणा भयात् ते रक्तबीजं शरणं हि जग्मुः ॥२४॥

स रक्तबीजः सहसाभ्युपेत्य वरास्त्रमादाय च मातृमण्डलम् ।

विद्रावयन् भूतगणान् समन्ताद् विवेश कोपात् स्फुरिताधरश्च ॥२५॥

तमापतन्तं प्रसमीक्ष्य मातरः शस्त्रैः शिताग्रैर्दितिजं ववर्षुः ।

यो रक्तबिन्दुर्न्यपतत् पृथिव्यां स तत्प्रमाणस्त्वसुरोऽपि जज्ञे ॥२६॥

ततस्तदाश्चर्यमयं निरीक्ष्य सा कौशिकी केशिनिमभ्युवाच ।

पिबस्व चण्डे रुधिरं त्वरातेर्वितत्य वक्त्रं वडवानलाभम् ॥२७॥

सा त्वेवमुक्ता वरदाऽम्बिका हि वितत्य वक्त्रं विकरालमुग्रम् ।

ओष्ठं नभस्पृक पृथिवीं स्पृशन्तं कृत्वाऽधरं तिष्ठति चर्ममुण्डा ॥२८॥

ततोऽम्बिका केशविकर्षणाकुलं कृत्वा रिपुं प्राक्षिपत स्ववक्त्रे ।

बिभेद शूलेन तथाऽप्युरस्तः क्षतोद्भवान्ये न्यपतंश्च वक्त्रे ॥२९॥

ततस्तु शोषं प्रजगाम रक्तं रक्तक्षये हीनबलो बभूव ।

तं हीनवीर्यं शतधा चकार चक्रेण चामीकरभूषितेन ॥३०॥

तस्मिन् विशस्ते दनुसैन्यनाथे ते दानवा दीनतरं विनेदुः ।

हा तात हा भ्रातरिति ब्रुवन्तः क्व यासि तिष्ठस्व मुहूर्त्तमेहि ॥३१॥

तथाऽपरे विलुलितकेशपाशा विशीर्णवर्माभरणा दिगम्बराः ।

निपातिता धरणितले मृडान्या प्रदुद्रुवुर्गिरिवरमुह्य दैत्याः ॥३२॥

विशीर्णवर्मायुधभूषणं तद बलं निरीक्ष्यैव हि दानवेन्द्रः ।

विशीर्णचक्राक्षरथो निशुम्भः क्रोधान्मृडानीं समुपाजगाम ॥३३॥

खङ्गं समादाय च चर्म भास्वरं धुन्वञ्शिरः प्रेक्ष्य च रुपमस्याः ।

संस्तम्भमोहज्वरपीडितोऽथ चित्रे यथाऽसौ लिखितो बभूव ॥३४॥

तं स्तम्भितं वीक्ष्य सुरारिमग्रे प्रोवाच देवी वचनं विहस्य ।

अनेन वीर्येण सुरास्त्वया जिता अनेन मां प्रार्थयसे बलेन ॥३५॥

श्रुत्वा तु वाक्यं कौशिक्या दानवः सुचिरादिव ।

प्रोवच चिन्तयित्वाऽथ वचनं वदतां वरः ॥३६॥

सुकुमारशरीरोऽयं मच्छस्त्रपतनादपि ।

शतधा यास्यते भीरु आमपात्रमिवाम्भसि ॥३७॥

एतद विचिन्तयन्नर्थं त्वां प्रहर्तुं न सुन्दरि ।

करोमि बुद्धिं तस्मात् त्वं मां भजस्वायतेक्षणे ॥३८॥

मम खङ्गनिपातं हि नेन्द्रो धारयितुं क्षमः ।

निवर्तय मतिं युद्धाद् भार्या मे भव साम्प्रतम् ॥३९॥

इत्थं निशुम्भवचनं श्रुत्वा योगीश्वरी मुने ।

विहस्य भावगम्भीरं निशुम्भं वाक्यमब्रवीत् ॥४०॥

नाजिताऽहं रणे वीर भवे भार्या हि कस्यचित् ।

भवान् यदिह भार्यार्थी ततो मां जय संयुगे ॥४१॥

इत्येवमुक्ते वचने खङ्गमुद्यम्य दानवः ।

प्रचिक्षेप तदा वेगात् कौशिकीं प्रति नारद ॥४२॥

तमापतन्तं निस्त्रिंशं षडिभर्बर्हिणराजितैः ।

चिच्छेद चर्मणा सार्द्ध तदद्भुतमिवाभवत् ॥४३॥

खङ्गे सचर्मणि छिन्ने गदां गृह्य महासुरः ।

समाद्रवत् कोशभवां वायुवेगसमो जवे ॥४४॥

तस्यापतत एवाशु करौ श्लिष्टौ समौ दृढौ ।

गदया सह चिच्छेद क्षुरप्रेण रणेऽम्बिका ॥४५॥

तस्मिन्निपतिते रौद्रे सुरशत्रौ भयंकरे ।

चण्डाद्या मातरो ह्यष्टाश्चकुः किलकिलाध्वनिम् ॥४६॥

गगनस्थास्ततो देवाः शतक्रतुपुरोगमाः ।

जयस्व विजयेत्यूचुर्हष्टाः शत्रौ निपातिते ॥४७॥

ततस्तूर्याण्यवाद्यन्त भूतसङ्घैः समन्ततः ।

पुष्पवृष्टिं च मुमुचुः सुराः कात्यायनीं प्रति ॥४८॥

निशुम्भं पतितं दृष्ट्वा शुम्भः क्रोधान्महामुने ।

वृन्दारकं समारुह्य पाशपाणिः समभ्यगात् ॥४९॥

तमापतन्तं दृष्ट्वाऽथ सगजं दानवेश्वरम् ।

जग्राह चतुरो बाणांश्चन्द्रार्धाकारवर्चसः ॥५०॥

क्षुरप्राभ्यां समं पादौ द्वौ चिच्छेद द्विपस्य सा ।

द्वाभ्यां कुम्भे जघानाथ हसन्ती लीलयाऽम्बिका ॥५१॥

निकृत्ताभ्यां गजः पदभ्यां निपपात यथेच्छया ।

शक्रवज्रसमाक्रान्तं शैलराजशिरो यथा ॥५२॥

तस्यावर्जितनागस्य शुम्भस्याप्युत्पतिष्यतः ।

शिरश्चिच्छेद बाणेन कुण्डलालंकृतं शिवा ॥५३॥

छिन्ने शिरसि दैत्येन्द्रो निपतात सकुञ्जरः ।

यथा समहिषः क्रौञ्चो महासेनसमाहतः ॥५४॥

श्रुत्वा सुराः सुररिपू निहतौ मृडान्या सेन्द्राः ससूर्यमरुदश्विवसुप्रधानाः ।

आगत्य तं गिरिवरं विनयावनम्रा देव्यास्तदा स्तुतिपदं त्विदमीरयन्तः ॥५५॥

देवा ऊचुः

नमोऽस्तु ते भगवति पापनाशिनि नमोऽस्तु ते सुररिपुदर्पशातनि ।

नमोऽस्तु ते हरिहरराज्यदायिनि नमोऽस्तु ते मखभुजकार्यकारिणि ॥५६॥

नमोऽस्तु ते त्रिदशरिपुक्षयंकरि नमोऽस्तु ते शतमखपादपूजिते ।

नमोऽस्तु ते महिषविनाशकारिणि नमोऽस्तु ते हरिहरभास्करस्तुते ॥५७॥

नमोऽस्तु तेऽष्टादशबाहुशालिनि नमोऽस्तु ते शुम्भनिशुम्भघातिनि ।

नमोऽस्तु लोकार्त्तिहरे त्रिशूलिनि नमोऽस्तु नारायणि चक्रधारिणि ॥५८॥

नमोऽस्तु वाराहि सदा धराधरे त्वां नारसिंहि प्रणता नमोऽस्तु ते ।

नमोऽस्तु ते वज्रधरे गजध्वजे नमोऽस्तु कौमारि मयूरवाहिनि ॥५९॥

नमोऽस्तु पैतामहहंसवाहने नमोऽस्तु मालाविकटे सुकेशिनि ।

नमोऽस्तु ते रासभपृष्ठवाहिनि नमोऽस्तु सर्वार्तिहरे जगन्मये ॥६०॥

नमोऽस्तु विश्वेश्वरि पाहि विश्वं निषूदयारीन् द्विजदेवतानाम् ।

नमोऽस्तु ते सर्वमयि त्रिनेत्रे नमो नमस्ते वरदे प्रसीद ॥६१॥

ब्रह्माणी त्वं मृडानी वरशिखिगमना शक्तिहस्ता कुमारी वाराही त्वं सुवक्त्रा खगपतिगमना वैष्णवी त्वं सशार्ङ्गी ।

दुर्दृश्या नारसिंही घुरघुरितरवा त्वं तथैन्द्री सवज्रा त्वं मारी चर्ममुण्डा शवगमनरता योगिनी योगसिद्धा ॥६२॥

नमस्ते त्रिनेत्रे भगवति तव चरणानुषिता ये अहरहर्विनतशिरसोऽवनताः ।

नहि नहि परिभवमस्त्यशुभं च स्तुतिबलिकुसुमकराः सततं ये ॥६३॥

एवं स्तुता सुरवरैः सुरशत्रुनाशिनी प्राह प्रहस्य सुरसिद्धमहर्षिवर्यान् ।

प्राप्तो मयाऽद्भुततमो भवतां प्रसादात् संग्राममूर्ध्नि सुरशत्रुजयः प्रमर्दात ॥६४॥

इमां स्तुतिं भक्तिपरा नरोत्तमा भवद्भिरुक्तामनुकीर्त्ययन्ति ।

दुःस्वप्ननाशो भविता न संशयो वरस्तथान्यो व्रियतामभीप्सितः ॥६५॥

देवा ऊचुः

यदि वरदा भवती त्रिदशानां द्विजशिशुगोषु यतस्व हिताय ।

पुनरपि देवरिपूनपरांस्त्वं प्रदह हुताशनतुल्यशरीरे ॥६६॥

देव्युवाच

भूयो भविष्याम्यसृगुक्षितानना हराननस्वेदजलोद्भवा सुराः ।

अन्धासुरस्याप्रतिपोषणे रता नाम्ना प्रसिद्धा भुवनेषु चर्चिका ॥६७॥

भूयो वधिष्यामि सुरारिमुत्तमं सम्भूय ननस्य गृहे यशोदया ।

तं विप्रचितं लवणं तथाऽपरौ शुम्भं निशुम्भं दशनप्रहारिणी ॥६८॥

भूयः सुरास्तिष्ययुगे निराशिनी निरीक्ष्य मारी च गृहे शतक्रतोः ।

सम्भूय देव्याऽमितसत्यधामया सुरा भविष्याम्यृषिरक्षणार्थम् ।

दुर्वृत्तचेष्टान् विनिहत्य दैत्यान् भूयः समेष्यामि सुरालयं हि ॥७०॥

यदाऽरुणाक्षो भविता महासुरः तदा भविष्यमि हिताय देवताः ।

महापलिरुपेण विनष्टजीवितं कृत्वा समेष्यामि पुनस्त्रिविष्टपम् ॥७१॥

पुलस्त्य उवाच

इत्येवमुक्त्वा वरदा सुराणां कृत्वा प्रणामं द्विजपुङ्गवानाम् ।

विसृज्य भूतानि जगाम देवी खं सिद्धसङ्घैरनुगम्यमाना ॥७२॥

इदं पुराणं परमं पवित्रं देव्या जयं मङ्गलदायि पुंसाम् ।

श्रोतव्यमेतन्नियतैः सदैव रक्षोघ्नमेतद्भगवानुवाच ॥७३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2012-01-24T10:15:01.0630000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

short circuited rotor

  • लघु परिपथ भ्रमिता 
RANDOM WORD

Did you know?

भावाला राखी बांधण्यामागील धार्मिक अथवा भावनिक महत्व काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site